प्रथमावृत्तिः
सूत्रम्॥
समः प्रतिज्ञाने॥ १।३।५२
पदच्छेदः॥
समः ५।१ प्रतिज्ञाने ७।१ ग्रः ५।१ ५१ आत्मनेपदम् १।१ १२
काशिका-वृत्तिः
समः प्रतिज्ञाने १।३।५२
ग्रः इति वर्तते। संपूर्वात् गिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं भवति। प्रतिज्ञानम् अभ्युपगमः। शतं संगिरते। निर्यं शब्दं संगिरते। प्रतिज्ञाने इति किम्? सङ्गिरति ग्रासम्।
न्यासः
समः प्रतिज्ञाने। , १।३।५२
बाल-मनोरमा
समः प्रतिज्ञाने ५४९, १।३।५२
समः प्रतिज्ञाने। गिरतेरात्मनेपदमित्यर्थः। प्रतिज्ञानम् - अभ्युपगमः। सङ्गिरति ग्रासमिति। भक्षयतीत्यर्थः।