पूर्वम्: १।३।५५
अनन्तरम्: १।३।५७
 
प्रथमावृत्तिः

सूत्रम्॥ उपाद्यमः स्वकरणे॥ १।३।५६

पदच्छेदः॥ उपात् ५।१ यमः ५।१ स्वकरणे ७।१ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
उपाद् यमः स्वकरने १।३।५६

शेषात् कर्तरि परस्मैपदे प्राप्ते उपपूर्वात् यमः स्वकरणे वर्तमानादात्मनेपदं भवति। पाणिग्रहणविशिष्टम् इह स्वकरनम् गृह्यते, न स्वकरणमात्रम्। भार्याम् उपयच्छते। स्वकरणे इति किम्? देवदत्तो यज्ञदत्तस्य भार्याम् उपयच्छति।
न्यासः
उपाद्यमः स्वकरणे। , १।३।५६

यदि स्वकरणमात्र आत्मनेपदं भवति शाकटकादिस्वीकारेऽपि स्यादिति चोद्यमपाकर्त्तुमाह-- "पाणिग्रहणम्" इत्यादि। एवं मन्यते-- प्रतिनियतविषया हि शब्दशक्तयो भवन्ति, यस्मादुपपूर्वो यमिरात्मनेपदान्त एवंविध एव स्वीकारे वर्तते; न तु सर्वस्मिन्। तस्मात् पाणिग्रहणात्मकमेव स्वीकरणं गृह्रते। उपयच्छत इति पूर्ववद्यच्छादेशः॥
बाल-मनोरमा
उपाद्यमः स्वकरणे ५५३, १।३।५६

उपाद्यमः। "आत्मनेपद"मिति शेषः। ननु "स्वं वरुआमुत्पादयती"त्यर्थे "वस्त्रमुपयच्छती"त्यत्राप्यात्मनेपदं स्यादित्यत आह--स्वकरणं स्वीकार इति। अस्वस्य सतः स्वत्वेन परिग्रहः स्वकरणशब्देन विवक्षित इत्यर्थः। च्विप्रत्ययस्तु वैकल्पिकः, "समर्थानां प्रथमाद्वे"त्युक्तेरिति भाष्ये स्पष्टम्।

तत्त्व-बोधिनी
उपाद्यमः स्वकरणे ४६०, १।३।५६

स्वकरणं स्वीकार इति। स्वकरणमित्यत्र च्विर्न भवति, "समर्थानां प्रथमाद्वे"ति विकल्पात्। स्वकरणशब्देन भार्यास्वीकारो गृह्रते इति वृत्तिकृत्। भट्टिस्तु स्वीकारमात्रेऽपि प्रायुङ्क्त "उपायंस्त महाऽस्त्राणी"ति।