पूर्वम्: १।३।५४
अनन्तरम्: १।३।५६
 
प्रथमावृत्तिः

सूत्रम्॥ दाणश्च सा चेच्चतुर्थ्यर्थे॥ १।३।५५

पदच्छेदः॥ दाणः ५।१ सा १।१ चेत् चतुर्थ्यर्थे ७।१ समः ५।१ ५४ तृतीयायुक्तात् ५।१ ५४ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
दाणश् च सा चेच् चतुर्थ्यर्थे १।३।५५

चाण् दाने परस्मैपदी। ततः सम्पूर्वात् तृतीयायुक्तातात्मनेपदं भवति, सा चेत् तृतीया चतुर्थ्यर्थे भवति। कथं पुनस् तृतीया चतुर्थ्यर्थे स्यात्? वक्तव्यम् एव एतत् अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवति इति वक्तव्यम्। दास्य संप्रयच्छते। वृषल्या संप्रयच्छते। कामुकः सन् दास्यै ददाति इत्यर्थः। चतुर्थ्यर्थे इति किम्? पाणिना सम्प्रयच्छति। समः प्रशब्देन व्यवधाने कथम् आत्मनेपदं भवति? समः इति विशेषणे षष्ठी, न पञ्चमी।
लघु-सिद्धान्त-कौमुदी
दाणश्च सा चेच्चतुर्थ्यर्थे ७४४, १।३।५५

सम्पूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे। दास्या संयच्छते कामी॥
न्यासः
दाणश्च सा चेच्चतुथ्र्यर्थे। , १।३।५५

कथं पुनस्तृतीया चतुथ्र्यर्थे स्यादिति? न कथञ्चिदित्यर्थः। तद्विधायिनः शास्त्रस्याभावादिति भावः। "वक्तवयमेवैतत्" इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- तदेव सम्प्रदानं यदा साधकतमत्वेन विवक्ष्यते तदा साधकतमत्वेन विवक्ष्यते तदा चतुर्थ्येऽपि तदा चतुर्थ्येऽपि तृतीया भवति, विवक्षातः कारकाणि भवन्तीति कृत्वा; न तु स्वभाववतः। सा च विवक्षा लौकिकी समाश्रीते, न तु प्रोयोगिकीति। लोके चाशिष्टव्यवहारे एव सा सम्भवति, नान्यत्र। लौकिकविवक्षात्र समाश्रीयत इति अस्यैवार्थस्य द्योतनाय चेच्छब्दः प्रयुक्तः। "दास्या मालां सम्प्रच्छते" इति। यो हि धर्मशास्त्रविरुद्धां दासीं कामयितुं तस्यै मालां ददाति तस्यासावशिष्टव्यवहारो भवतीत्यस्त्यत्राशिष्टव्यवहारः। सम्प्रयच्छत इति पाध्रादिसूत्रेण ७।३।७८ दाणो यच्छादेशः। कथमात्मनेपदं भवतीति। न कथञ्चिदित्यर्थः। "तस्मादित्युत्तरस्य" १।१।६६ इत्यत्र निर्दिष्टग्रहणस्यानन्तर्यार्थत्वादिति। एवं मन्यते-- "सम इति विशेषणे षष्ठी" इत्यादि। यदि "समः" इति पञ्चमी स्यान्न षष्ठी, तदा प्रशब्देन व्यवधानादात्मननेपदं न स्यात्; तस्मान्नेयं पञ्चमी, किं तर्हि? षष्ठी-- समो विशेषणस्य सम्बन्धी यो विशेष्यो दाणिति। ततश्च व्यवहितोऽपि विशेषणविशेष्यभावो भवतीति तेन व्यवधानेऽपि भवत्यात्मनेपदम्॥
बाल-मनोरमा
दाणश्च सा चेच्चतुथ्र्यर्थे ५५२, १।३।५५

दाणश्च सा। "समस्तृतीयायुक्ता"दित्यनुवर्तते। तदाह--संपूर्वादिति। उक्तं स्यादिति। आत्मनेपदमित्यर्थः। सा चेदिति। तच्छब्देन तृतीया परामृश्यते। तदाह--तृतीया चेदिति। दास्या संयच्छते इति। "अशिष्टव्यवहारे दाणः प्रयोगे चतुथ्र्यर्थे तृतीया वाच्या" इति तृतीया। ननु "रथेन समुदाचरते इत्यत्र "समस्तृतीयायुक्ता"दिति पूर्वसूत्रस्य न प्रवृत्तिः, आङा व्यवहितत्वेन सम्पूर्वकत्वाऽभावात् "त्समादित्युत्तरस्ये"ति परिभाषया सम इति पञ्चम्या चरेरव्यवहितपरत्वलाभात्। तथा "दास्या संप्रयच्छते" इत्यत्रापि "दाणश्च सा चे"दिति कथं प्रवर्तते, प्रशब्देन व्यवधानादित्यत आह-- पूर्वसूत्रे सम इति षष्ठीति। तथा च षष्ठ()आ पौर्वापर्यमेव गम्यते, न त्वव्यवहितत्वमिति भावः। तेनेति। षष्ठ()आश्रयणेनेत्यर्थः। सूत्रद्वयमिति। "समस्तृतीयायुक्ता"दिति पूर्वसूत्रस्थस्य षष्ठ()न्तस्यैव समः "दाणश्चे"ति सूत्रेऽप्यनुवृत्तेरिति भावः।