पूर्वम्: १।३।६३
अनन्तरम्: १।३।६५
 
प्रथमावृत्तिः

सूत्रम्॥ प्रोपाभ्यां युजेरयज्ञपात्रेषु॥ १।३।६४

पदच्छेदः॥ प्रोपाभ्याम् ५।२ युजेः ५।१ अयज्ञपात्रेषु ७।३ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
प्रौपाभ्यां युजेरयज्ञपात्रेषु १।३।६४

युजिर् योगे स्वरितेत्। तस्य कर्त्रभिप्राये क्रियाफले सिद्धम् एव आत्मनेपदम्। अकर्त्रभिप्रायार्थो ऽयमारम्भः। प्र उप इत्येवं पूर्वात् युजेरयज्ञपात्रप्रयोगविषयादात्मनेपदं भवति। प्रयुङ्क्ते। उपयुङ्क्ते। अयज्ञपात्रेषु इति किम्? द्वन्द्वं न्यञ्च पात्राणि प्रयुनक्ति {देवसंयुक्तानि}। स्वराध्यन्तोपसृष्टादिति वक्तव्यम्। उद्युङ्क्ते। नियुङ्क्ते। स्वराद्यन्तौपसृष्तातिति किम्? संयुनक्ति।
न्यासः
प्रोपाभ्यां युजेरयज्ञपात्रेषु। , १।३।६४

"युज समाधौ"(धा।पा।११७७) इत्यस्यानुदात्तेत्त्वात् सिद्धमात्मनेपदमित्यतस्तस्येह ग्रहणमयुक्तमित्यभिप्रायेणाह-- "युजिर् योगे" इति। "प्रयुङ्कते" इति। रुधादित्वात् "श्नसोरल्लोपः" ६।४।१११ इत्यकारलोपः। "चोः कुः" ८।२।३० इति कुत्वम् = जकारस्य गकारः, "खरि च" ८।४।५४ इति चत्त्र्वम् = ककारः, "नश्च" ८।३।२४ इत्यादिनाऽनुस्वारः, "अनुस्वारस्य ययि परसवर्णः" ८।४।५७ इति ङकारः। "स्वराद्यन्तोपसृष्टाविति वक्तव्यम्" इति। स्वरोऽज् आदिरन्तो वा यस्य स स्वराद्यन्तः, तदुपसृष्टात् = तत्सम्बन्धाद्युजेरात्मनेपदं भवति-- इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्- इह सूत्रे प्रशब्दोऽजन्तोपसर्गलक्षणार्थः, उपशब्दोजाद्युपलक्षणार्थः, उपशब्दोऽजाद्युपलक्षणार्थः, तेन सर्वेणाजन्तेनाजादिना चोपसर्गेण चयुक्ताज्युजेरात्मनेपदं भवतीति। स्वराद्यन्तोपसृष्टादिति किम्? निर्युनक्ति॥
बाल-मनोरमा
प्रोपाभ्यां युजेरयज्ञपात्रेषु ५५९, १।३।६४

प्रोपाभ्यां। "आत्मनेपद"मिति शेषः। स्वरेति। स्वरौ अचौ आद्यन्तौ यस्य सः स्वराद्यन्तः। तथाभूतोपसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः। द्वन्द्वमिति। द्वन्द्वं द्विशः, न्यञ्चि-- अधोबिलानीत्यर्थ-।