नकारास्य मकारस्य च अपदान्तस्य अनुस्वारादेशो भवति झलि परतः। पयांसि। यशांसि। सर्पींषि। मकारस्य आक्रंस्यते। आचिक्रंस्यते। अधिजिगांसते। अपदान्तस्य इति किम्? राजत् भुङ्क्ष्व। झलि इति किम्? रम्यते। गम्यते।
"हलि" इति निवृत्तम्(), झल्ग्रहणात्()। चकारो मकारानुकर्षणार्थः। असति हि तस्मिन्निकारस्यापदान्तस्य कार्यिण इह ग्रहणान्मकारो निवृत्त इत्याशङ्का स्यात्()। "पयांसि" इति। "जश्शसोः शिः"
७।१।२०, "नपुंसकस्य झलचः"
७।१।७२ इति नुम्(), "सान्तमहतः संयोगस्य"
६।४।१० इति दीर्घः। "आक्रंस्यते" इति।
आङ्पूर्वात्? क्रमेर्लृट्(),
"आङ्? उद्यमने"
१।३।४० इत्यात्मनेपदम्()। "आचिक्रंसते" इति। "पूर्ववत्सनः"
१।३।६२ इत्यात्मनेपदम्()। एवं "अथिजिगांसते" इत्यत्रापि। इङः सनि "इङश्च"
२।४।४८ इति गमिरादेशः; "अज्झनगमां सनि"
६।४।१६ इति दीर्घः; द्विर्वचनम्(), अभ्यासकार्यम्()।
"राजन्()" इति।
राजतेः शत्रान्तात्? सम्बुद्धिः, तस्या हल्ङ्यादिना
६।१।६६ लोपः॥