पूर्वम्: १।३।७५
अनन्तरम्: १।३।७७
 
प्रथमावृत्तिः

सूत्रम्॥ अनुपसर्गाज्ज्ञः॥ १।३।७६

पदच्छेदः॥ अनुपसर्गात् ५।१ ज्ञः ५।१ कर्त्रभिप्राये ७।१ ७२ क्रियाफले ७।१ ७२ आत्मनेपदम् १।१ १२

समासः॥

अनुपसर्गात् इत्यत्र नञ्तत्पुरुषः।

अर्थः॥

अनुपसर्गात् ज्ञाधातोः आत्मनेपदं भवति, कत्रभिप्राये क्रियाफले।

उदाहरणम्॥

गां जानीते। अश्वं जानीते।
काशिका-वृत्तिः
अनुपसर्गाज् ज्ञः १।३।७६

कर्त्रभिप्राय इति वर्तते। अनुपसर्गाज् जानातेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति। गां जानीते। अश्वं जाणीते। अनुपसर्गातिति किम्? स्वर्गं लोकं न प्रजानाति मूढः। कर्त्रभिप्राये इत्येव, देवदत्तस्य गं जानाति।
न्यासः
अनुपसर्गाज्ज्ञः। , १।३।७६

नास्योपसर्गाः सन्तीति बहुव्रीहिः। कतसकर्मकार्थेञ्चेदम्। "अकर्मकाच्च" १।३।४५ इत्येवं सिद्धत्वात्॥
बाल-मनोरमा
अनुपसर्गाज्ज्ञः ५६७, १।३।७६

अनुपसर्गाज्ज्ञः। अनुपसर्गाज्ज्ञादातोरात्नेपदमित्यर्थः। "अकर्मकाच्चे"त्येव सिद्धे सकर्मकार्थमिदम्। तदाह--गां जानीते इति। कथमिति। अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपूर्वकतया प्रकृतसूत्रस्याऽप्रवृत्तेः सकर्मकतया "अकर्मकाच्चे"त्यस्याप्यप्रवृत्तेरनुजज्ञे इतिकथमात्मनेपदमित्यर्थः। समाधत्ते-- कर्मणि लिडिति। तथा च "भावकर्मणोटरित्यात्मनेपदमिति भावः। सुतस्य गमनमनुज्ञातमित्यर्थः फलति। नन्वेवं सति "नृप" इति प्रथमान्तरस्य कथमिहान्वय इत्यत आह-- नृपेणेति विपरिणाम इति। अवालुलोचे इत्यत्रान्वितं नृप इति प्रथमान्तरं तृतीयया विपरिणमितमत्रानुषज्यते इत्यर्थः।

तत्त्व-बोधिनी
अनुपसर्गाज्ज्ञः ४६९, १।३।७६

अनुपसर्गाज्ज्ञः। अकर्मकाच्चेत्येव सिद्धे सकर्मकार्थ आरम्भः।