पूर्वम्: १।३।४४
अनन्तरम्: १।३।४६
 
प्रथमावृत्तिः

सूत्रम्॥ अकर्मकाच्च॥ १।३।४५

पदच्छेदः॥ अकर्मकात् ५।१ ज्ञः ५।१ ४४ आत्मनेपदम् १।१ १२

काशिका-वृत्तिः
अकर्मकाच् च १।३।४५

अकर्त्रभिप्रायार्थम् इदम्। कर्त्रभिप्राये हि अनुपसर्गाज् ज्ञः १।३।७६ इति वक्ष्यति। जानातेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। सर्पिशो जानीते। मधुनो जानीते। कथं च अयम् अकर्मकः? न अत्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्। किं तर्हि? ज्ञानपूर्विकायां प्रवृत्तौ करणत्वेन। तथा च ज्ञो ऽविदर्थस्य करणे २।३।५१ इति षष्ठी विधीयते सर्पिषो जानीते, मधुनो जानीते। सर्पिशा उपायेन प्रवर्तते इत्यर्थः। अकर्मकातिति किम्? स्वरेण पुत्रं जानाति।
लघु-सिद्धान्त-कौमुदी
अकर्मकाच्च ७४१, १।३।४५

सर्पिषो जानीते। सर्पिषोपायेन प्रवर्तत इत्यर्थः॥
न्यासः
अकर्मकाच्च। , १।३।४५

"कथञ्चायमकर्मकः" इति। एवं मन्यते-- सर्पिरादि ज्ञेयत्वेन विवक्षितं कर्म, अतस्तेन कर्मणा सकर्मक एवायमित्यभिप्रायः। "कथम्" इति। न कथञ्चिदित्यर्थः। तथा चेत्यादिना "नात्र सर्पिरादि कर्मत्वेन, अपि तु करणत्वेन विवक्षितम् इत्यत्र युक्तिमाह-- "सर्पिषोपायेन" इत्यादि। यस्य सर्पिःष्वभिष्वङगो विना तेन भुजिक्रियायामभिलाषो न भवति तस्य भोजने प्रवृतिं()त प्रति सर्पिरुपायभावं प्रतिपद्यत इति तेनोपायेन स प्रवर्तत इति। "अकर्मकादिति किम्" इति। "नात्र सर्पिरादि ज्ञेयत्वेन विवक्षितम्। किं तर्हि? करणत्वेन" इति ब्राउवता वृत्तिकृता साक्षाच्छब्दोपात्तेन करणेन सकरणादात्मनेपदं भवतीत्युक्तं भवति। एवञ्च सकरणादित्येवं वाच्यम्, किमकर्मकग्रहणेनेति भावः। एवमुच्यमाने करणयुक्तात् सकर्मकादपि स्यादिति दर्शयितुमाह--- "स्वरेण पुत्रं जानाति" इति॥
बाल-मनोरमा
अकर्मकाच्च ५४२, १।३।४५

अकर्मकाच्च। "ज्ञ आत्मनेपदटमिति शेषः। सर्पिषो जानीते इति। अत्र ज्ञाधातुः प्रवृत्तौ वर्तते। "ज्ञोऽविदर्थस्य करणे" इति तृतीयार्थे षष्ठी। तदाह-- सर्पिषोपायेन प्रवर्तते इति। "अनुपसर्गाज्ज्ञः" इति वक्ष्यमाणेनैव सिद्धे सोपसर्गार्थमिदम्। सर्पिषोऽनुजानीते।

तत्त्व-बोधिनी
अकर्मकाच्च ४५६, १।३।४५

अकर्मकाच्च। "अनुपसर्गाज्ज्ञः" इत्यनेनैव सिद्धे "सर्पिषोऽनुजानीते" इत्यादिसोपसर्गार्थमिदं सूत्रम्।