पूर्वम्: १।४।११
अनन्तरम्: १।४।१३
 
प्रथमावृत्तिः

सूत्रम्॥ दीर्घं च॥ १।४।१२

पदच्छेदः॥ दीर्घम् १।१ गुरु १।१ ११

अर्थः॥

दीर्घं च अक्षरं गुरुसंयकं भवति।

उदाहरणम्॥

ईहाञ्चके। ऊहाञ्चके।
काशिका-वृत्तिः
दीर्घं च १।४।१२

संयोगे इति न अनुवर्तते। सामान्येन संज्ञाविधान। दीर्घं च अक्षरं गुरुसंज्ञं भवति। ईहाञ्चक्रे। ईक्षाञ्चक्रे।
लघु-सिद्धान्त-कौमुदी
दीर्घं च ४५२, १।४।१२

गुरु स्यात्॥
न्यासः
दीर्घञ्च। , १।४।१२

"ईहाञ्चक्रे, उहाञ्चक्रे" इति। "आम्प्रत्ययवत्" १।३।६३ इत्यादौ सूत्र एते व्यत्पादिते। गुरुसंज्ञायां त्वत्र कार्यम्- "इजादेश्च गुरुमतोऽनुच्छः ३।१।३६ इत्यात्मप्रत्ययः॥
बाल-मनोरमा
दीर्घं च ४३४, १।४।१२

दीर्घं च। संयोग इति नानुवर्तते। दीर्घमपि गुरुसंज्ञकमित्यर्थः। इति संज्ञाप्रकरणमिति। सन्धिकार्योपयोगिप्रथमाध्यायस्थसंज्ञानिरूपणं समाप्तमित्यर्थः।

इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां संज्ञाप्रकरणं समाप्तम्॥

********************

अथ सन्नन्तप्रक्रिया।

अथ सन्प्रक्रिया निरूप्यन्ते।