पूर्वम्: १।४।१२
अनन्तरम्: १।४।१४
 
प्रथमावृत्तिः

सूत्रम्॥ यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्॥ १।४।१३

पदच्छेदः॥ यस्मात् ५।१ प्रतयविधिः १।१ तदादि १।१ प्रत्यये ७।१ अङ्गम् १।१

समासः॥

प्रत्ययस्य विधिः, प्रत्ययविधिः, षष्ठीतत्पुरुषः
तस्य आदिः, तदादिः, तदादिः आदिः यस्य तत् तदादि, बहुव्रीहिः

अर्थः॥

यस्मात् (धातोः वा प्रातिपदिकात् वा) प्रत्ययविधिः=प्रत्ययः विधीयते तस्य च तदादिशब्दरूपस्य च प्रत्यये परतः अङ्गसंज्ञा भवति

उदाहरणम्॥

कर्त्ता, हर्त्ता, औपगवः, कापटवः। करिष्यति, अकरिष्यत्, करिष्यावः, करिष्यामः
काशिका-वृत्तिः
यस्मात् प्रत्ययविधिस् तदादि प्रत्यये ऽङ्गम् १।४।१३

यस्मात् प्रत्ययो विधीयते धातोर् वा प्रातिपदिकाद् वा तदादि शब्दरूपं प्रत्यये परतो ऽङ्गसंज्ञं भवति। कर्ता। हर्ता। करिष्यति हरिष्यति। अकरिष्यत्। औपगवः। कापटवः। यस्मातिति संज्ञिनिर्देशार्थम्, तदादि इति सम्बन्धात्। प्रत्ययग्रहणं किम्? न्यविशत। व्यक्रीणीत। नेर् बिशः १।३।१७ इत्युपसर्गाद् विधिरस्ति, तदादेरङ्गसंज्ञा स्यात्। विधिग्रहणं किम्? प्रत्ययपरत्वम् आत्रे मा भूत्। स्त्री इयती। तदादिवचनं स्यादिनुम् अर्थम्। करिष्यावः। करिष्यामः। कुण्डानि। पुनः प्रत्ययग्रहणं किम् अर्थम्? लुप्तप्रत्यये मा भूत्। श्र्यर्थम्। भ्र्वर्थम्। अङ्गप्रदेशाः अङ्गस्य ६।४।१ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् १३३, १।४।१३

यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात्॥
न्यासः
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्। , १।४।१३

"कत्र्ता" इति लुट्। "करिष्यति,अकरिष्यत्" इति। लुट्लृङौ। अङ्गसंज्ञायाः कार्यमत्र "सार्वधातुकार्धधातुकयोः" ७।३।८४ इति गुणः, "ऋद्धनोः स्ये" ७।२।७० इतीडागमो यथायोगम्। "यस्मादिति संज्ञिनिर्देशार्थम्" इति। संज्ञिनो निर्देशः, सोऽर्थः प्रयोजनं यस्य तत् तथोक्तम्। ननु च तदादीत्यनेनात्र संज्ञीनिर्दिष्टः, तत्कथं संज्ञिनिर्देशार्थमिति पर्यनुयोगमाशङ्क्य येन हेतुना यस्मादित्यस्य संज्ञिनिर्देशार्थत्वं भवति,तं दर्शयितुमाह-- "तदादिसम्बन्धात्" इति। यस्मादित्येतस्मिन् सत्यनेन प्रकृतेन तदादीत्यस्य सम्बन्धो भवति। यस्मात् प्रत्ययो विधीयते स आदिर्यस्य तत् तदादीति। अनुच्यमाने ह्रेत()स्मस्तदित्यनेन सर्वनाम्ना प्रकृतप्रत्यवमर्शिना किं सम्बध्येतेति, असदेतत्; एवं हि सति प्रत्ययादेः प्रत्यये परतोऽङ्गसंज्ञा स्यात्, ततश्च करिष्यावः, करिष्याम इत्यत्र धातोर्गुणो न स्यात्। तस्माद्विशिष्टस्य संज्ञिनो निर्देशार्थ तस्मादिति वक्तव्यम्। अनेन हि सम्बन्धे सति तदादीत्यनेन योऽत्र विशिष्टः संज्ञी विवक्षितः स शक्यते निर्द्देष्टुम्; नान्यथा। "नेर्विशः" १।३।१७ इत्युपसर्गाद्विधिरस्तीति नियमस्य, न तु प्रत्ययस्य; तस्य लक्षण#आन्तणरे विहितत्वात्। "नेर्विशः" १।३।१७ इत्युपलक्षणमात्रम्। "परिव्यवेभ्यः क्रियः" १।३।१८ इत्येतदपीहोपात्तं द्रष्टव्यम्। तदादेरङ्गसंज्ञा स्यात्, ततश्चोपसर्गात् प्रागडागमः स्यादिति भावः। "स्त्री इयती" इति। इदं परिमाणमस्या इति "किमिदम्भ्यां वो घः" (५।२४०) इति वतुप्। वस्य च घत्वम्, इयादेशः, "इदम्किमोरीश्की" ६।३।८९ इतीदम ईश, "यस्येति च" ६।४।१४८इतीकारलोपः। "उगितश्च" ४।१।६ इति ङीप्- इयती। स्त्रीशब्दात् सुः, तस्य हलङ्यादिना ६।१।६६ लोपः, स्त्री इयती इति स्थिते यदि विधिग्रहणं न क्रियेत, तदेयच्छब्दे प्रत्यये परतः स्त्रीशब्दस्याङ्गसंज्ञा स्यात्; ततश्च "यस्येति च" ६।४।१४८) इतीकारलोपः प्रसज्येत। ननु च"असिद्धवदत्राभात्" ६।४।२२) इत्यसिद्धत्वादीकारलोप एवासिद्धः, तत् कुतोऽयं लोपप्रसङ्गः? प्राग्भाधिकारादसिद्धत्वमित्यभिप्रायः, नैषोऽस्त्यभिप्रायः; वक्ष्यति हि तत्र वृत्तिकारः-- र"असिद्धवदित्यधिकारोऽयम्, यदित ऊध्र्वमनुक्रिमिष्याम आअध्यायपरिसमाप्तेस्तदसिद्धवद्भवति" इति, तथा ह्रा भादित्यभिविधावाङ,तेन भाधिकारेऽप्यसिद्धत्वं भवतीति? एवं तर्हि विधिग्रहणेनैतज्ज्ञाप्यते-- भाधिकारीयमसिद्धत्वमनित्यत्वमिति; तेन "वुग्युटाववङ्यणोः सिद्धौ वाच्यौ" (वा।७७६) इत्येतन्न वक्तव्यं भवतीति। वुक्-- बभूव, युट्-- उपदिदीय इति। नन्वेवम् "अचः परस्मिन् पूर्वविधौ" १।१।५६ इतीकारलोपस्य स्थानिवत्त्वात् स्त्रीशब्देकारलोपाप्रसङ्ग एव, नैतदस्ति; यो ह्रनादिषाटदचः पूर्वस्तस्य पूर्वस्तस्यविधिं प्रति स्थानिवद्भवतीत्यादिष्टदचः पूर्वः स्त्रीशब्देकारः प्राक् संस्कृतस्य सत इयीतशब्द्योत्तरकालं स्त्रीशब्देन सम्बध्यते। अथ क्रियमाणेऽपि विधिग्रहणे कस्मादेवाङ्गसंज्ञा न भवति, यावता स्त्रीशब्दाद्विभक्तेः प्रत्ययस्य विधिरस्त्येव, प्रत्ययोऽपि चास्मात् पर इयच्छब्दो विद्यत एव? नैष दोषः; विधिग्रहणे सति यस्मात्प्रत्ययो विधीयते प्रत्यासत्तेस्तस्मिन् परतोऽङ्गसंज्ञा विधीयते। इह तु यः स्त्रीशब्दाद्विहितः प्रत्ययो नासौ परः, लुप्तत्वात्; यश्च पर इयच्छब्दो विहितः, नासौ ततो विहितः। अथ तदादिग्रहणं किमर्थम्? यावाता विनाऽपि तेन "यस्मात् प्रत्ययविधिः प्रत्ययेऽङ्गम्" इत्येतावत्युच्यमाने यत्तदोर्नित्याभिसम्बन्धाद्यस्मात्प्रत्ययो विधीयते तत्प्रत्यये परतोऽङ्गसंज्ञा भवतीत्येषोऽर्थो लभ्यत इत्यत आह-- "तदादिवनचम्" इत्यादि। असति तदादीत्येतस्मिन् यस्मादेव प्रत्ययो विधीयते तस्यैवाङ्गत्वं स्यात्, न तु सर्वस्य सहस्यादेः, नापि सनुम्कस्य समुदायस्य; ततः प्रत्ययस्यादिविहितत्वत्। तदादिग्रहणे सति यस्मात् प्रत्ययो विधीयते स आदिर्यस्य शब्दरूपस्य तत् तदादीति बहुव्रीहिराश्रितो भवति, तेन सर्वस्य सहस्यादेः सनुम्कस्य समुदायस्याङ्गसंज्ञा सिद्ध्यति-- इति तदादिवचनं स्यादिनुमर्थम्। आदिग्रहणेन प्रकृतिप्रत्ययस्य मध्यवर्तिनां प्रत्ययागमानां ग्रहणम्; नुम आगमोपलक्षणत्वात्। "करिष्यावः" इत्यत्र यस्मात् प्रत्ययो विहितस्तदादेः सहस्य प्रत्ययस्य समुदायस्याङ्गसंज्ञायां सत्याम् "अतो दीर्घो यञि"७।३।१०१ इति दीर्घत्वं भवति; अन्यथा क्व तर्हि स्यात्? "वावावः, वावामः" इत्यादौ। "अय वय मय पय तय चय णय गतौ" (धा।पा।४७४-४८०), यङलुक्, अभ्यासस्य "दीर्घोऽकितः"७।४।८३ इति दीर्घत्वम्; वस्मसोः "लोपो व्योर्वलि" ६।१।६४ इति यलोपः-- इह विना विकरणेन धातोदीर्घत्वम्; विकरणस्य शपः "अदिप्रभृतिभायः शपः" २।४।७२ इति लुप्तत्वात्। अदादित्वम् "चर्करीतञ्च" (धा।पा।१०८१) इत्यादिषु पाठात्। "चर्करीतम्" इति यङलुकः पूर्वाचार्यसंज्ञा। "कुण्डानि" इति। जसि "जश्शसोः शिः" ७।१।२० इति शिभावः। "नपुंसकस्य झलचः" ७।१।७२ इति नुम्। तदायं नुम् परादिरिति पक्षः, तदा "सुपि च" ७।३।१०२ इति दीर्घत्वं विनापि सनुम्कस्याङ्गसंज्ञया सिद्धम्। यदापि पूर्वान्तः, तदाप्यङ्गकदेशत्वात् "नोपधायाः" ६।४।७ इत्यनुवत्र्तमाने "सर्वनामस्थाने चासम्बुद्धौ" ६।४।८ इति दीर्घत्वं सिद्धम्। यदा त्वभक्तः, तदाङ्स्यानेकदेशत्वान्न सिद्ध्यति। अभक्तश्चायं नुमिति सूत्रकारस्य पक्षः। तेन नुमर्थमपि तदादिवचनं कृतम्। "श्रयर्थम्, भ्व्यर्थम्" इति। श्रिय इदं भ्रुव इदमिति-- "चतुर्थी तदर्थार्थ" २।१।३५ इत्यादिना समासः; अस्त्यत्र चतुर्थ्यैकवचनस्य विधिरिति। असति हि पुनः प्रत्ययग्रहणे श्रीभ्रूशब्दयोरर्थशब्दे परतोऽङ्गसंज्ञा स्यात्, ततश्चेयङुवङौ स्याताम्। सप्तमीनिर्दिष्टे तु पुनः प्रत्ययग्रहणे श्रीभ्रूशब्दयोरर्थशब्दे परतोऽङ्गसंज्ञा स्यात्, ततश्चेयङुवङौ स्याताम्ा। सप्तमीनिर्दिष्टे तु पुनः प्रत्ययग्रहणे सति न दोष इति। तथा हि-- ततो विहिते प्रत्यये परत इत्येवं विज्ञायते। यश्चातो विहितः प्रत्ययः स लुप्तः। यद्यपि लुप्तेऽपि तस्मिन् प्रत्ययलक्षणेनाङ्गसंज्ञा लभ्यते, कार्यं तु न लभ्यते; "न लुमताङ्गस्य" १।१।६२ इति प्रत्ययलक्षमप्रतिषेधात्॥
बाल-मनोरमा
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् १९८, १।४।१३

राम-आ इति स्थिते अङ्गकार्यं वलिधास्यन्नङ्गसंज्ञामाह - यस्मात्प्रत्ययविधि। यस्मादिति। प्रकृतिभूतादित्यर्थः। यः प्रत्यय इति। यच्छब्दान्तराध्याहारस्तु प्रत्यासत्तिलभ्यः। स च यस्माद्यस्य प्रत्ययस्य विधिस्तस्मिन्प्रत्यये तदादेरङ्गसंत्रेत्यर्थलाभाय। तत्प्रकृतिरूपमादिर्यस्य तत्--तदादि। नपुंसकवाशाच्छब्दरूपमित्यध्याहार्यम्। तदाह--तदादि शब्दस्वरूपमिति। प्रकृते च रामशब्दस्य प्रकृतिमात्रस्य तदादित्वं व्यभूधातोर्लट्। मिप्। कर्तरि शवबिति विकरणसंज्ञः शप्। गुणावादेशौ अतो दीर्घो यञीति भवेत्यङ्गस्य दीर्घः। भवामीति रूपम्। तथा भूधातोर्लृट् मिप्। "स्यातासी लृलुटोः" इति विकरणसंज्ञः स्यः। इट् गुणावादेशौ। षत्वम्। "अतो दीर्घो यञी"ति "भविष्य" इत्यङ्गस्य दीर्घः। " भविष्यामी"ति रूपम्। अत्र आदिग्रहणाऽभावे मिप्प्रत्यये परतो भू इति प्रकृतिमात्रस्य अङ्गसंज्ञा स्यात्, भूशब्दादेव मिप्प्रत्ययविधेः, नतु "भव" इत्यस्य, "भविष्य" इत्यस्य च विकरणविशिष्टस्य, ततो मिप्प्रत्ययविधेरभावात्। ततश्च "अतो दीर्घो यञी"ति मिप्प्रत्यये परतो दीर्घो न स्यात्। अत आदिग्रहणमित्यर्थः। विधिरिति किमिति। यस्माद्यः प्रत्यय#ः। परत्वेन श्रूयते तदादि शब्दरूपं तस्मिन् प्रत्यये अङ्गसंज्ञामित्येतावतैव सिद्धे विधिग्रहणं किमर्थमिति प्रश्नः। स्त्री इयतीति। इदं परिमाणमस्या इत्यर्थे इदंशब्दात् "किमिदंभ्यां वो घः" इति वतुप्, वस्य घश्च। तस्य इयादेशः। "इदंकिमोः" इति इदम् ईश्। शित्त्वात्सर्वादेशः। ई-इयत् इति स्थिते "यस्येति च" इतीकारलोपः। इयदिति प्रत्ययमात्रमवशिष्यते। "उगितश्चे"ति ङीपि इयतीति रूपम्। अत्र विधिग्रहणाऽभावे स्त्री-इयतीत्यत्र रेफादीकारस्य "स्त्रियाः" इत्यङ्गकार्यमियङ् स्यात्। स्त्रीशब्दात्परत्वेन इयदिति प्रत्ययस्य श्रूयमाणत्वात्। न च यस्येति लोपस्याभीयत्वेना।ञसिद्धत्वादजादिप्रत्ययपरकत्वाऽभावान्नात्र इयङः प्राप्तिरिति वाच्यम्, अन्यूनानतिरिक्तसमानाश्रये कार्ये कर्तव्य एव आभीया।ञसिद्धत्वस्य प्रवृत्तेः। अस्ति च यस्येति चेति शास्त्रापेक्षया "स्त्रिया" इति सूत्रे अधिकस्य स्त्रीशब्दस्यापेक्षा। कृते तु विधिग्रहणे इयङत्र न भवति, बतुप् इदम एवात्र विहितत्वेन तस्मिन् परे स्त्रीशब्दस्याङ्गत्वाऽभावात्। न च यस्येति लोपस्य इयङि कर्तव्ये अचः परस्मिन्निति स्थानिवद्भावः शङ्क्यः, पदान्तविधौ तन्निषेधात्। स्त्रीशब्दस्य सुनिरूपिताङ्गत्वेऽपि नेयङ्, प्रत्यासत्त्या अजादिप्रत्ययनिरूपिताङ्गत्वे तत्प्रवृत्तेः। प्रत्यये किमिति। "यस्मात्प्रत्ययविधिस्तदाद्यङ्ग"मित्येतावदेवास्त्वित्यर्थः। प्रत्ययविशिष्यस्य ततो।ञप्यधिकस्य वा मा भूदिति। तदादि शब्दरूपं कियदित्यपेक्षायामविशेषात्प्रत्ययविशिष्टं वा, ततोऽप्यधिकं वा निरवधिकमङ्गं स्यात्। नच यस्मात्प्रत्ययेति प्रत्ययस्य श्रुतत्वात्प्रत्ययावध्येवाङ्गत्वं भविष्यतीति वाच्यम्, यस्मात्प्रत्ययविधिस्तदादीत्यर्थसमर्पणेन तस्य प्रत्ययग्रहणस्य चरितार्थत्वात्। ततश्च प्रत्ययविशिष्टस्याङ्गत्वे वव्रश्चेत्यत्र प्रत्ययविशिष्टस्याङ्गत्वेन उरदित्यादेशस्य परनिमित्तत्वाऽलाभादचः परस्मिन्निति स्थानिवत्त्वाऽप्रवृत्त्या "न सम्प्रसारण" इति सम्प्रसारणनिषेधो न स्यात्। अधिकस्याङ्गत्वे च "देवदत्त् ओदनमापाक्षी"दित्यादौ देवदत्तादिशब्दोत्तरं सुपं निमित्तीकृत्य लुङ्पर्यन्तमङ्गत्वात्तस्य लुङ्परत्वेन देवदत्तादिशब्दात्पूर्वमप्यडापत्तिः, अङ्गसंज्ञायाः प्रत्ययनिमित्तत्वाऽभावेन लुङादिनिरूपिताङ्गस्येत्यर्थस्य दुर्लभत्वात्।"प्रत्यये" इत्युक्तौ तु न कोऽपि दोष इत्यलम्।

तत्त्व-बोधिनी
यस्मात्प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् १६६, १।४।१३

यस्मात्। तदादीति। तत्प्रकृतिरूपमादिर्यस्य शब्दस्वरूपस्येति बहुव्रीहिः।

ननु "यस्मात्प्रत्ययविधिस्तदङ्ग"मित्येवास्तु किमादिग्रहणेनेत्यत आह-भवामीत्यादि। प्रकृतिमात्रस्य तु व्यपदेशिवद्भवेन तदादित्वादङ्गत्वम्, तेन "कर्ता" "कारक" इत्याद्यपि सिध्यतीति भावः। अङ्गसंज्ञार्थमिति। अन्यथा "अतो दीर्घो यञी"ति दीर्घो न स्यादिति भावः। नचारम्भसामथ्र्यादेव दीर्घः स्यादिति वाच्यम्। "पय गतौ" "वय गतौ" आभ्यां यङ्लुकि पापामि पापावः, वावामि वावाव इत्यादौ चरितार्थत्वात्। स्त्रीइयतीति। इदमः परिमाणे वतुप्। "किमिदभ्यां वो घ" इति घः। तस्य इयादेशः। "इदंकिमो"रिति ईश्। "यस्येति च" इति ईशो लोपः। "उगितश्च" इति ङीप्। सत्यां संज्ञायां स्त्रीशब्दस्य "यस्येति च" इति लोपः स्यात्। न चेशो लोपस्य "असिद्धवदत्राभा"दित्यसिद्धत्वान्नातिप्रसङ्ग इति वाच्यम्, "प्राग्भादसिद्धत्व"मिति पक्षाभ्युपगमादनित्यत्वाद्वेति व्याख्यातारः। नव्यास्तु-"स्त्री अंपश्यती"त्यत्र स्त्रीशब्दस्य "स्त्रियाः" इति इयङ् स्यात्। अकारादमि कृते "अमि पूर्वः" इत्येकादेशस्य परादिवद्भावेन प्रत्ययत्वात्। अततेर्डप्रत्यये टिलोपे च सत्यकारस्य स्वत एव प्रत्ययत्वाच्च। विधिग्रहणे कृते तु नायं दोषः प्रसज्यते। अम्प्रत्ययस्य अकाराड्डप्रत्ययस्य चाततेर्विहितत्वेऽपि स्त्रीशब्दादविधानात्। स्यादेतत्। वतुपोऽम्प्रत्ययस्य च स्त्रीशब्दादविधानेऽपि सोर्विधिरस्त्येवेति तद्दोषतावदवस्थ्यमिति चेन्मैवम्, संनिधानबलेन "यस्माद्यः प्रत्ययो विहितस्तस्मिस्तदङ्ग"-मिति व्याख्यानात्। प्रत्यये किमिति। "तदादिरूपं किय"दित्यपेक्षयां यस्मात्प्रत्यय इति प्रत्ययस्य श्रुतत्वात्प्रत्ययपर्यन्तमेवाङ्गं भविष्यतीति मत्वा प्रश्नः। प्रत्ययस्य श्रुतत्वेऽपि प्रत्ययविशिष्टं, ततोऽप्याधिकं वा निरवधिकमङ्गं स्यात्, तदादीत्यस्यार्थनिर्णये प्रत्ययश्रवणस्योपक्षयादित्याशयेन व्याचष्टे--प्रत्ययविशिष्टस्येत्यादिना। प्रत्ययविशिष्टस्येति किम्?। वव्रश्च। अत्र विशिष्टस्याङ्गसंज्ञायाम् "उरत्" इत्यादेशस्य परनिमित्तत्वाऽलाभात् "अचः परस्मिन्नि"ति स्थानिवत्त्वाऽप्रवृत्त्या "न संप्रसारणे--" इति निषेधाऽभावादभ्यासस्य पुनरपि संप्रसारणं प्रवर्तेत। तथा "श्यर्थं" भ्र्वर्थमित्यत्र "अचि श्नुधातुभ्रुवाम्-,"इति इयुङुवङौ स्याताम्, उक्तरीत्या अचीप्यनेनाजादौ प्रत्यये इत्यलाभात्। ततोऽधिकस्याङ्गसञ्ज्ञायान्तु "देवदत्त ओदनमपाक्षी"दित्यत्र देवदत्तशब्दात्प्रागडागमः स्यात्, देवदत्तशब्दासुत्प्रत्ययस्य विहितत्वेन लुडः प्राग्वर्तिसमुदायस्याऽङ्गत्वात्। द्वितीयप्रत्ययग्रहणे कृते तु न कोऽपि दोषः प्रसज्यते। अन्ये तु यस्माल्लुङादिविधिः प्रत्यासत्त्या तस्यैवाङ्गस्याडागमः स्यादिति ततोऽप्यधिकस्येत्येतदनास्थयोक्तं, किंतु एतस्यापि प्रत्ययविशिष्टस्याङ्गत्वे यद्दूषणं तदेवेत्यहुः।