पूर्वम्: १।४।१०
अनन्तरम्: १।४।१२
 
प्रथमावृत्तिः

सूत्रम्॥ संयोगे गुरु॥ १।४।११

पदच्छेदः॥ संयोगे ७।१ गुरु १।१ १२

अर्थः॥

संयोगे परतः ह्रस्वम् अक्षरं गुरुसंज्ञकं भवति।

उदाहरणम्॥

कुण्डा। हुण्डा। शिक्षा। भिक्षा।
काशिका-वृत्तिः
संयोगे गुरु १।४।११

ह्रस्वम् इति वर्तते। पूर्वेण लघुसंज्ञायां प्राप्तायां गुरुसंज्ञा विधीयते। संयोगे प्रतो ह्रस्वम् अक्षरं गुरुसंज्ञं भवति। कुण्डा। हुण्डा। शिक्षा भिक्षा। गुरुप्रदेशाः गुरोश्च हलः ३।३।१०३ इत्येवम् आदयः।
लघु-सिद्धान्त-कौमुदी
संयोगे गरु ४५१, १।४।११

संयोगे परे ह्रस्वं गुरु स्यात्॥
न्यासः
संयोगे गुरु। , १।४।११

"कुण्डा, हुण्()डा" इति। "कुडि दाहे" (धा।पा।२७०), "हुडि सङ्घाते" (धा।पा।२६९), नुम्विधावुपदेशिवद्वचनादुपदेशावस्तायामेव नुम्। "शिक्षा, भिक्षा" इति। "शिक्ष विद्योपादाने" ३।३।१०३ इत्यकारप्रत्ययः, "अजाद्यतष्टाप" ४।१।४
बाल-मनोरमा
संयोगे गुरुः ३४, १।४।११

संयोगे गुरु। "ह्यस्व"मित्यनुवर्तते। तदाह--संयोगे पर इत्यादिना।