पूर्वम्: १।४।१
अनन्तरम्: १।४।३
 
प्रथमावृत्तिः

सूत्रम्॥ विप्रतिषेधे परं कार्यम्॥ १।४।२

पदच्छेदः॥ विप्रतिषेधे ७।१ परम् १।१ कार्यम् १।१

अर्थः॥

विप्रतिषेधः = तुल्यबलविरोधः, तस्मिन् सति परं कार्यं भवति।

उदाहरणम्॥

वृक्षेभ्यः, प्लक्षेभ्यः।
काशिका-वृत्तिः
विप्रतिषेधे परं कार्यम् १।४।२

तुल्यबलविरोधो विप्रतिषेधः। यत्र द्वौ प्रसङ्गावन्यार्थवेकस्मिन् युगपत् प्राप्नुतः, स तुल्यबलविरोधो विप्रतिषेधः। तस्मिन् विप्रतिषेधे परं कार्यं भवति। उत्सर्गापवादनित्यानित्यान्तरङ्गवहिरङ्गेषु तुल्यबलता न अस्ति इति न अयम् अस्य योगस्य विषयः। बलवतैव तत्र भवितव्यम्। अप्रवृत्तौ, पर्यायेण वा प्रवृत्तौ प्राप्तायां वचनम् आरभ्यते। अतो दीर्घो यञि ७।३।१०१, सुपि च ७।३।१०२ इत्यस्य अवकाशः वृक्षाभ्याम्, प्लक्षाभ्याम्। वहुवचने झल्येत् ७।३।१०३ इत्यस्य अवकाशः वृक्षेषु, प्लक्षेषु। इह उभयं प्राप्नोति वृक्षेभ्यः, प्लक्षेभ्यः इति। परं भवति विप्रतिषेधेन।
लघु-सिद्धान्त-कौमुदी
विप्रतिषेधे परं कार्यम् ११३, १।४।२

तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥
न्यासः
विप्रतिषेधे परं कार्यम्। , १।४।२

"विरोधो विप्रतिषेधः " इत। विप्रतिषेधशब्दस्य लोके विरोधवाचित्वेन प्रसिद्धत्वात्। तथा हि-- विरुद्धेऽभिहिते वक्तारो वदन्ति-- "विप्रतिषिद्धमिदमुच्यते" इति, विरुद्धमिति गम्यते। तस्य विप्रतिषेधस्य विषयं दर्शयितुमाह-- "यत्र" इत्यादि। प्रसज्येते विधीयेते इति प्रसङ्गौ = विधी। "अन्यार्थौ" इति। अन्यत्र विषयेऽर्थः प्रयोजनं ययोस्तौ तथोक्तौ। अन्यत्र विषयान्तरे कृतार्थावित्यर्थः। "एकस्मिन्" इति। अभिन्ने। युगपत् = एककलाम्। स इत्यस्य विप्रतिषेध इत्यने सम्बन्धः। स विप्रतिषेधो विप्रतिषिद्धः, विप्रतिषेधस्य विषय इत्यर्थः। विप्रतिषेधविषयत्वाद्विप्रतिषेदविषयो ह्रत्र विप्रतिषेधशब्देनोक्तो विषयिणा विषयं दर्शयितुम्। यस्मान्न प्रसङ्गो विप्रतिषेध उपपद्यते, नापि तदाधारः। "तुल्यबलविरोधः" इति। तुल्यबलयोर्विरोधोऽस्मिन्निति बहुव्रीहिः। इदं जातिपक्षमाश्रित्य विवरणं कृतम्। द्रव्यपदार्थपक्षे त्वयं विशेषः-- अन्यः= भिन्नोऽर्थः = प्रयोजनं यतोस्तावन्यार्थाविति। शेषं समानम्। "विप्रतिषेधे" इति च सती सप्तमीयम्। "उत्सर्गापवाद" इत्यादि। विप्रतिषेधो यत्रास्ति, सोऽय योगस्यावकाशः। विप्रतिषेधञ्च तुल्यबलयोरेव भवतीति नातुल्यबलयोः। एतत्तु "यत्र हि प्रसङ्गावन्यार्थौ"इत्यादिग्रन्थेन तस्य विषयं दर्शयता व्याख्यातम्। न चोत्सर्गापवादादिषु तुल्यबलतास्तीति, ततो नासावुत्सर्गापवादादिरस्य योगस्य विषयः। तेन बलवानेव तत्र भवति; तत्र सामान्येनोत्सर्गः प्रवत्र्तते; यथा--"आर्धधातुकस्येड्वलादेः" ७।२।३५ इति, वलादिसामान्यस्येड्विधानात्। विशेषोऽपवादः, यथा-- नेड वशि कृति" ७।२।८ इतीट्प्रतिषेधस्य वलादिविशेषे वशादौ कृति विधानात्। यस्य च विशेषे विधिः, स बलवान् भवति; तथा हि-- ब्राआहृणेभ्यो दधि दीयताम्, तक्रं कौण्()डिन्यायेति विशेषविहितं तक्रदानं सामान्यविहितस्य दधिदानस्यैव बाधकं भविष्यति। तस्माद्वशादौ कृति परेऽपीडागमो न भवति, प्रतिषेध एव भवति-- "स्थेशभासपिसकसो वरच" ३।२।१७५ ई()आर इति। नित्यानित्ययोर्नित्यं बलवत् यथा- "भिस ऐस्" ७।१।९ इत्यैत्वम्। तद्धि "बहुवचने झल्येत्" ७।३।१०३ इत्येत्त्वे कृते प्राप्नोति। अकृतेऽपि-- भूतपूर्वगत्याश्रयणादकारान्तादङ्गद्भिस ऐस् विहित इति कृत्वा। यश्च कृताकृतप्रशङ्गी विधिः स नित्य इति। तथा च तत्र ७।१।९ वक्ष्यति-- एत्त्वं भिसि परत्वाच्चेदत ऐस् क्व भविष्यति। कृतेऽप्येत्त्वे भौतपूव्र्यादैस्तु नित्यस्तथा सति॥ इति स नित्यः। ऐस्त्वे एत्त्वं न प्राप्नोति; निमित्तस्य झलादेर्विहितत्वात्। वृक्षेष्व्तयादादेत्त्वस्यावकाशः, अ()स्मश्च सति भूतपूर्वगत्याश्रयणस्यायुक्तत्वात्। तस्मात् तदनित्यम्। यच्चानित्यं तत् परस्य भावाभावमपेक्षत इति दुर्बलम्। विपर्ययात् तु नित्यं बलवत्। तेन वृक्षैरिति परमप्येत्त्वं न भवति। ऐस्भाव एव तु भवति। अन्तरङ्गबहिरङ्गयोरन्तरङ्गं बलवदिति लोकत एव दृष्टत्वात्। लोको हि प्रातरुत्थायान्तरङ्गाणि मुखप्रक्षालनादीनि कार्याणि करोति, पश्चद्बहिरङ्गाणि राजगृहगमनादीनि कार्याणि कर्त्तुमारभते। शास्त्रेऽप्येवं वेदितव्यम्। दिवि कामोऽस्य द्युकामः, तस्यापत्यम् "अत इञ्" ४।१।९५ द्यौकामिः। यद्यपि द्युकामशब्दादिञ् विहितः, तथापि "अकृतव्यूहाः पाणिनीयाः" (व्या।प।८४) कृतमपि शास्त्रं निवत्र्तयन्तीति,प्रविभ्जायन्वाख्याने दिव् काम इञिति स्थिते "दिव् उत्" ६।१।१२७ इत्युत्त्वे कृते यणादेशः प्राप्नोति, "तद्धितेष्वचामादेः" (७।२।११७) इति परत्वात् वृद्धिः प्राप्नोति? अन्तरङ्गत्वाद्यणादेशः पूर्वो विधिः क्रियते, पश्चाद्()वृद्धिरुकारस्य। अन्तरङ्गत्वन्तु यणादेशस्य वर्णाश्रयत्वात्। वृद्धेस्तु बाह्रतद्धिताश्रयाद्बहिरङ्गत्वम्। "वार्णादाङ्गं बलीयः" (व्या।प।३९) इत्येतदिह न प्रवर्तते; व्याश्रयत्वात्। "अप्रवृत्तौ" इत्यादि। यदा "आकृतिः पदार्थः"इत्येष पक्ष, तदाऽन्यत्र कृतार्थत्वाच्छास्त्रयोर्विप्रतिषेधे सति परस्परप्रतिबन्धादप्रवृत्तिरेव प्राप्नोति; यथा-- यदिह द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति, तौ च युगपत् प्रेषयतः, नानादिक्षु तयोः कार्ये भवतः। ततो यद्यसावविरोधार्थी भवति तदोभयोरपि कार्ये न प्रवर्तते। द्रव्ये पदार्थे तु प्रतिव्यक्ति लक्षणं प्रवत्र्त इत्यकृतार्थत्वल्लक्षणयोः पर्यायेण प्रवृत्तिः प्राप्नोति, यथा-- ब्राआहृणक्षत्रियादीनामसहभुजामेकस्मिन् भाजने भुजक्रियायां पर्यायः स्यात्। तत्र जातौ पदार्थे कृतार्थत्वाद्()वृत्तौ प्राप्तयां विध्यर्थमिदमारभ्यते-- विप्रतिषेधे सति परं कार्यं भवतीति। तत्र कृते यदि पूर्वमपि प्राप्नोति, तदपि भवत्येव। तत्रेदमुच्यते-- पुनः प्रसङ्गविज्ञानात् सिद्धमिति। व्यक्तौ तु पदार्थेऽकृतार्थत्वात् शास्त्रयोः पर्यायेण प्रवृत्तौ प्राप्तयां नियमार्थमिदम्-- विप्रतिषेधे परमेव भवति न पूर्वमिति। तत्रेदमुच्यते-- "सकृद्()गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेव" (व्या।प।४०) इति।
बाल-मनोरमा
विप्रतिषेधे परं कार्यम् १७४, १।४।२

ननु परत्वाद्रेफलोप एव स्यादिति शङ्कितुमाह--विप्रतिषेधे। विप्रतिपूर्वात्सेधतेर्घञि उपसर्गवशात्परस्परविरोधे विप्रतिषेधशब्दः। विरोधश्च तुल्यबलयोरेव लोकसिद्धः। नहि मशकसिंहयोर्विरोध इत्यस्ति। तदाह--तुल्यबलेति। द्वयोः शास्त्रयोः क्वचिल्लब्धावकाशयोरेकत्र लक्ष्ये युगपत्सम्भवस्तुल्यबलविरोधः। कार्यस्य परत्वञ्च-परसास्त्रविहितत्वमेव। इति लोपे च प्राप्त इति। "हशि चे"त्यस्यावकाशः-शिवो वन्द्य इति। रेफलोपस्यावकाशः-पुना रमते इति। तत्र हि रोरित्युकारानुबन्धग्रहणाद्धसिचेत्यप्रसक्तम्। ततश्च तयोस्तुल्यबलयोः उत्वरेफलोपयोर्मनोरथ इत्यत्र युगपत्सम्भवादन्यतरस्मिन् बाधनीये सति परत्वादुत्वं बाधित्वा रेफलोपे प्राप्ते इत्यर्थः।

तामिमां रेफलोपशङ्कां परिहरति-पूर्वत्रेति। अत्र रेफलोपस्यासिद्धत्वादित्यनुक्त्वा रो रीत्यस्यासिद्धत्वादिति ब्राउवन् पूर्वत्रासिद्धमित्य्तर शास्त्रासिद्धत्वमेवाभ्युपैति, नतु कार्यासिद्धत्वम्। तथा सति हि अतिदेशस्यारोपरूपत्वादऽसिद्धत्वोरोपान्निरधिष्ठानारोपाऽसम्भवेन सूत्रोदाहरणसम्पत्त्यै परत्वाल्लक्ष्ये कार्यप्रवृत्तेरावश्यकतया परत्वात्त्रैपादिके कार्ये जाते तत्राऽभावप्रतियोगित्वारोपेऽपि देवदत्तस्य न पुनरुन्मज्जनमिति न्यायेन स्थानीबूतरोरभावाद्धशि चेत्यस्य प्राप्तिर्न स्यात्। शास्त्राऽसिद्धत्वे तु यद्यत्रैपादिकं शास्त्रं प्रवृत्त्युन्मुखं तत्त्च्चास्त्र एवासिद्धत्वारोपात्पूर्वशास्त्रप्रतिबन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सत्यां "विप्रतिषेधे परं कार्य"मिति न प्रवर्तते। तदुक्तं--"पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये"ति ततश्च स्थानिनो निवृत्त्यभावात्पूर्वशास्त्रप्रवृत्तिर्निर्बाधा। एतच्च पूर्वत्रासिद्धमित्यत्र, अचः परस्मिन्नित्यत्र, षत्वतुकोरसिद्ध इत्यत्र च भाष्ये स्पष्टम्। न च तौ सदित्यादिनिर्देशाद्देवदत्तहन्तृन्यायो न सार्वत्रिक इति वाच्यं, "हते सति देवदत्ते तद्धन्तरि हतेऽपि देवदत्तस्य न पुनरुन्मेषः। हन्तृहन्तरि हतत्वारोपे तु सुतरां नोन्मेषः। देवदत्तं हन्तुमुद्युक्तस्य हनने तु देवदत्तस्य जीवनमस्त्येवे"ति न्यायशरीरम्। तावित्यादौ च वृद्धिहन्तुः पूर्वसवर्णदीर्घस्य हननोद्यमसजातीयं प्रसङ्गमात्रम्। न तु हननस्थानीया लक्ष्ये कार्यप्रवृत्तिरावश्यकी। ततस्च प्रवृत्तस्य रेफलोपस्याऽसिद्धत्वेऽपि देवदत्तहन्तृहतन्यायेन रोरुन्मेषा।ञभावादुत्वं न भवतीति शब्दरत्ने प्रपञ्चितम्। न च उत्वकार्यासिद्धत्वपक्षे।ञपि मनोरथसिद्धिरस्त्येव, दर्शनाऽभावरूपरेफलोपस्याभावरूपा।ञसिद्धत्व सति रोरुन्मेषावश्यकत्वात्, अभावाभावस्य प्रतियोगिरूपत्वादिति वाच्यं, एवमपि कार्यासिद्धत्वे अमू अमी इत्याद्यसिद्धेः। यता चैतत्तथा अदस्()शब्दनिरूपणावसरे प्रपञ्चयिष्यते।

तत्त्व-बोधिनी
विप्रतिषेधे परं कार्यम् १४४, १।४।२

विप्रतिषेधे। विप्रतिपूर्वात् "षिधू शास्त्रे माङ्गल्ये च"षिधं गत्या"मित्यस्माद्वा धातोर्घञ्। "उपसर्गात्सुनोती"ति षत्वम्। उपसर्गवशाच्च विरोधार्थकत्वम्। कार्यमिति। "अर्हे कृत्यतृचश्चे"त्यर्हार्थे कृत्यप्रत्ययः। तेन तुल्यबलविरोध इति पर्यवसानादतुल्यबलेषूत्सर्गापवादनित्यानित्यान्तरङ्गबहिरङ्गविधिषु नेदं प्रवर्तते। नह्रपवादादीनां संनिधावुत्सर्गादीनां कृत्यर्हत्वं, तैर्बाधितत्वात्। तत्र नित्यमावश्यकत्वाद्बाधकम्, अन्तरङ्गं तु लाघवात्, अपवादस्तु वचनप्रामाण्यात्। तद्भिन्नस्तु प्रकृतसूत्रस्य विषयः। अतएव "परनित्यान्तरङ्गपवादानामुत्तरोत्तरं बलीयः" इत्युक्तम्। यद्यतुल्यबलेप्वपि परमेव स्यात्तन्नोपपद्येताऽतो व्याचष्टे-तुल्यबलविरोध इति। जातौ पदार्थे विध्यर्थमिदं सूत्रम्। "वृक्षेषु" "वृक्षाभ्यां" मित्यत्र हि लब्धावकासयोरेत्वदीर्घत्वशास्त्रयोर्वृक्षेभ्य इत्यत्र युगपत्प्रसङ्गे विनिगमकाऽभावादप्रतिपत्तिरेव स्यात्। तदुक्तम्-"अप्रतिपत्तिर्वा उभयोस्तुल्यबलत्वा"दिति। तत्रास्माद्वचनात्परस्मिन् कृते यदि पूर्वस्यापि निमित्तमस्ति तर्हि तदपि भवति, यथा "भिन्धकी"त्यत्र परत्वाद्धिभावे कृतेऽ[प्य]कच्। तदुच्यते-"पुनः प्रसङ्गविज्ञानात्सिद्ध"मिति। ब्यक्तौ तु पदार्थे तत्तव्द्यक्तिविषययोर्लक्षणयोरन्यत्र चरितार्थत्वाऽसम्भवात्तव्यानीयरामिव पर्यायेण प्रवृत्तौ नियमार्थमिदं सूत्रं "विप्रतिषेधे परमेव स्यान्न तु पूर्व"मिति। एतल्लक्षणारम्भाच्च तत्र तत्र पूर्वस्यानारम्भोऽनुमीयते। तथाच "जुहुतात्त्व"मित्यत्र परत्वात्तातङि कृते स्थानिवद्भावेन "हुझल्भ्यः"-इति धित्वं न भवति। तदुच्यते-"सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्बाधितमेवे "ति। लक्ष्यानुरोधाव्द्यवस्थाप्यमेतद्दूयमपि। तत्र विधिपक्षे तूत्त्वे रेफलोपे वा प्राप्ते इति पाठ()म्। नियमार्थमिति पक्षे "परमेव कार्यं स्या"दित्येवकारोऽध्याहर्तव्यो वृत्तौ। उत्वमेवेति। सिद्धासिद्धयोरतुल्यबलत्वेन "विप्रतिषेधे पर"मित्यस्याऽप्रवृत्तौ निष्प्रतिपक्षत्वादुत्वमेव भवतीत्यर्थः। तदुक्तम्--"पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्ये"ति। एतेन विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे" इति वक्ष्यमाणग्रन्थो व्याख्यात।