पूर्वम्: १।४।२९
अनन्तरम्: १।४।३१
 
प्रथमावृत्तिः

सूत्रम्॥ जनिकर्त्तुः प्रकृतिः॥ १।४।३०

पदच्छेदः॥ जनिकर्त्तुः ६।१ ३१ प्रकृतिः १।१ अपादानम् १।१ २४ कारके ७।१ २३

समासः॥

जनेः कर्त्ता, जनिकर्त्ता, तस्य ॰ षष्ठीतत्पुरुषः।

अर्थः॥

जन-धातोः यः कर्त्ता, तस्य या प्रकृतिः, कारणं = हेतुः तस्य अपादानसंज्ञा भवति।

उदाहरणम्॥

शृङ्गात् शरो जायते। गोमयाद् वृश्चिको जायते।
काशिका-वृत्तिः
जनिकर्तुः प्रकृतिः १।४।३०

जनेः कर्ता जनिकर्ता। जन्यर्थस्य जन्मनः कर्ता जायमानः, तस्य या प्रकृतिः कारणम्, हेतुः, तत् कारकम् अपादानंज्ञम् भवति। शृङ्गाच्छरो जायते। गोमयाद् वृश्चिको जायते।
न्यासः
जनिकर्तुः प्रकृतिः। , १।४।३०

जनिशब्दोऽत्र साहचर्याज्जन्यर्थ वर्तते। अत एवाह-- "जन्यर्थस्य" इति। "जन्मनः" इति। एतेन जन्यर्थं दर्शयति। तथा हि-- "जनी प्रादुर्भावे" (धा।पा।११४९) इति पठ()ते। प्रादुर्भावो जन्म एव। कः पुनस्तस्य कत्र्तेत्यत आह-- "जायमानः" इति। "ज्ञाजनोर्जा" ७।३।७९ इति जादेशः। अथ प्रकृतिग्रहणं किमर्थम्? यावता ध्रुवमित्यनुवत्र्तते, ध्रुवञ्चावधिभुतमित्युक्तम्। जनिकर्त्तृश्चावधिः कारणमेव भवति; तत्रान्तरेणापि प्रकृतिग्रहणं प्रकृतेरेव भविष्यति, नैतदस्ति; पुत्रात् प्रमादो जायत इत्यादौ पुत्रादेरप्यपादानासंज्ञा यथा स्यादित्येवमर्थं प्रकृतिग्रहणम्। द्विविधं हि कारणम्-- उपादानकारणम्, सहकारिकारणञ्च। तत्र यत् कार्येणाभिन्नदेशं तदुपादानकारणम्, यथा- घटस्य मृत्पिण्डः। सहकारिकारणं यत् कार्येण भिन्नदेशम्, यथा-- तस्यैव दण्डचक्रादि। तत्रासति प्रकृतिग्रहणे प्रत्यासत्तेरुपादानकारणस्यैव स्यात्, नेतरस्य। प्रकृतिग्रहणे तु सति सर्वस्यैव कारणमात्रस्य भवति॥
बाल-मनोरमा
जनिकर्तुः प्रकृतिः ५८५, १।४।३०

जनिकर्तुः प्रकृतिः। जनिर्जननमुत्पत्तिः। "जनी प्रादुर्भावे"दैवादिकोऽकर्मकः। "इण्जादिभ्यः" इति भावे इण्। "जनिवध्योश्चे"ति निषेधान्नोपधावृद्धिः। जनेः कर्तेति विग्रहः। शेषषष्ठ()आ समासः। "तृजकाभ्यां कर्तरी"ति निषेधस्तु कारकषष्ठ()आ एवेति वक्ष्यते। जायमानस्येति। जनधातोः कर्तरि लटश्शानच्, श्यन्, "ज्ञाजनोर्जा" "आने मुक्"। उत्पत्त्याश्रयस्येत्यर्थः। प्रकृतिशब्दं व्याचष्टे-हेतुरिति। ब्राहृण इति। हिरण्यगर्भादित्यर्थः। घटादिषु कुलालादिवत्तस्य प्रजोत्पत्तौ निमित्तकारणत्वमिति भावः। वृत्तिकृन्मतमेतदयुक्तम्, संयोगविश्लेषसत्त्वेन "ध्रुवमपाये" इत्येव सिद्धत्वात्। अतोऽत्र मूले हेतुशब्द उपादानकारणपर एव। अत एव भाष्यकैयटयोः "गोमायाद्वृश्चिका जायन्ते" गोलोमाऽविलोमभ्यो दूर्वा जायन्ते" इत्युदाह्मत्य परिणामेषु प्रकृतिद्रव्यावयवानुस्यूतिसत्त्वेऽपि बुद्धिकृतविश्लेषसत्त्वात् "ध्रुवमपाये" इत्येव सिद्धमिति प्रत्याख्यानं सङ्गच्छते। एवं च "ब्राहृणः प्रजाः प्रजायन्ते" इत्यत्र ब्राहृशब्देन मायोपहितमी()आरचैतन्यमेव विवक्षितम्। तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः।

तत्त्व-बोधिनी
जनिकर्तुः प्रकृतिः ५२५, १।४।३०

जनिकर्तुः। जननं जनिः--उत्पत्तिः। "इञजादिभ्यः"इति जनेर्भावे इञ्। "जनिवध्योश्च"इति वृद्धिप्रतिषेधः। तस्याः कर्तेति शेषषष्ठ()आ समासो, न तु कारकषष्ठ()आ,"तृताभ्याम्---"इति यथा। तदेतदाह--जायमानस्येति। एतेन "इक्()श्तिपौ धातुनिर्देशे"इति इका निर्देशोऽयं जनिरित्याश्रित्य "गमहन---" इत्युपधालोपमर्थाऽसङ्गतिं समासानुपपतिं()त चोद्भाव्य व्याकरणाधिकरणे जरन्तो मीमांसकाः समाहिता इति भावः। इह प्रकृतिग्रहणं हेतुमात्रपरमिति वृत्तिकृन्मतम्, "पुत्रात् प्रमोदो जायते" इत्युदाहरणात्। उपादानमात्रपरमिति तु भाष्यकैयटमतं, तदुभयसाधारणमुदाहरणमाह--ब्राहृण इति। ब्राहृआ=हिरण्यगर्भ-। स च हेतुरेव न तूपादानम्। किंच मायोपहितं चैतन्यं ब्राहृ, तद्धि सर्वकार्योपादानमिति वेदान्तसिद्धान्तः।