पूर्वम्: १।४।३०
अनन्तरम्: १।४।३२
 
प्रथमावृत्तिः

सूत्रम्॥ भुवः प्रभवः॥ १।४।३१

पदच्छेदः॥ भुवः ६।१ प्रभवः १।१ कर्त्तुः ६।१ ३० अपादानम् १।१ २४ कारके ७।१ २३

अर्थः॥

भू-धातोः यः कर्त्ता, तस्य यः प्रभवः = उत्पत्तिस्थानं, तत् कारकम् अपादानसंज्ञं भवति।

उदाहरणम्॥

हिमवतो गङ्गा प्रभवति। कश्मीरेभ्यो वितस्ता प्रभवति।
काशिका-वृत्तिः
भुवः प्रभवः १।४।३१

कर्तुः इति वर्तते। भवनं भूः। प्रभवत्यस्मातिति प्रभाः। भूकर्तुः प्रभवो यः, तत् कारकम् अपादानसंज्ञम् भवति। हिमवतो गङ्गा प्रभवति। काश्मीरेभ्यो वितस्ता प्रभवति। प्रथमत उपलभ्यते इत्यर्थः।
न्यासः
भुवः प्रभवः। , १।४।३१

"भवनं भूः"इति। सम्पदादित्वात् क्विप्। प्रभव्तयस्मीदित प्रभव इत्यपादाने "ऋदोरप्"३।३।५७ इत्यप्। ननु च "हिमवतो गङ्गा प्रभवति" इत्येतत् पूर्वेणैव सिद्धम्। तथा ह्रयमत्रार्थः-- हिमवतो गङ्गा जायत इति, तत्किमर्थमिदमारभ्यत इत्याह-- "प्रथमत उपलभ्यते" इति। एष चार्थोऽनेकार्थत्वाद्धातूनां वेदितव्यः। जन्यर्थस्त्वत्र न सम्भवत्येव, न हि हिमवान् गङ्गायाः कारणम्, सा ह्रन्येभ्य एव कारणेभ्य उत्पन्ना। हिमवति तु केवलं प्रथमत उपलभ्यत इति॥
बाल-मनोरमा
भुवः प्रभवः ५८६, १।४।३१

भुवः प्रभवः। पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमेकदेशे स्वरितत्वप्रतिज्ञाबलादिहानुवर्तते। तदाह--भूकर्तुरिति। भवनं भूः। संपदादित्वात्क्विप्। भुवः कर्ता भूकर्ता, तस्येत्यर्थः। प्रभव इति। प्रभवति=प्रथमं प्रकाशतेऽस्मिन्निति प्रभवः। प्रथमप्रकाशस्थानमित्यर्थः। "प्रभवती"त्यस्य उत्पद्यते इत्यर्थे तु असङ्गतिः, गङ्गायस्तत्रानुत्पत्तेः। तदाह--प्रकाशते इत्यर्थ इति। प्रथमं प्रकाशते इति यावत्। अत एव "हिमवपि प्रकाशते" इत्यत्र न भवति। एतेन "जनिकर्तु"रित्यनेन "ध्रुवमपाये" इत्यनेन च गतार्थत्वं निरस्तम्। भाष्ये तु अपक्रामतीत्यर्थमाश्रित्य "ध्रुवमपाये" इत्यनेनैव सिद्धमिति स्थितम्।

ल्यब्लोपे इति। ल्यबन्तस्य लोपे= अदर्शने अप्रयोगे सति गम्यमानतदर्थं प्रति कर्मणि अधिकरणे च पञ्चमी वाच्येत्यर्थः। जिह्येतीति। लज्जते इत्यर्थः।

नन्वत्र ल्यबन्तस्य प्रयोगाऽभावात्कथं तदर्थं प्रति कर्माद्यवगतिरित्यत आह--गम्यमानापीति। प्रकरणादिनेत्यर्थः। "गम्यमानापी"त्यस्य प्रयोजनान्तरमाह--कस्मात्त्वमिति। "आगतोऽसी"ति गम्यमानक्रियापेक्षमपादानत्वगिति भावः। "नद्या" इत्युत्तरम्। "आगतोऽस्मी"ति गम्ययानक्रियापेक्षमपादानत्वमिति भावः।

यतश्चेति। "यत" इति तृतीयार्थे तसिः। येनावधिना अध्वनः कालस्य वा निमानं परिच्छेदः=इयत्ता गम्यते, ततः पञ्चमी वाच्येत्येकं वाक्यम्। "तत्र पञ्चमी"ति पाठेऽप्ययमेवार्थः।

तद्युक्तादिति। तेन=पञ्चम्यन्तेन युरक्तादन्वितात् अध्ववाचिनः प्रथमासप्तम्यौ वाच्ये" इति द्वितीयं वाक्यम्। "कालात्सप्तमी च वक्तव्या" इति वाक्यान्तरम्। तद्युक्तादित्यनुषज्यते। तेन=पञ्चम्यन्तेन अन्वितात्कालवाचिनः सप्तमी वक्तव्येत्यर्थः। वनादिति। अत्र योजनात्मकमध्वपरिमाणं वनेन पूर्वावधिना परिच्छिद्यते, कस्मादाभ्य योजनमित्याकाङ्क्षोत्थानात्। योजने योजनमिति प्रथमासप्तम्योरपि स्वोत्तराव्यवहितदेशवृत्तित्वमर्थः। वनात्मकपूर्वावधिकयोजनोत्तरदेशे ग्राम इत्यर्थः। अवधिसत्वसत्त्वेऽपि विश्लेषाऽप्रतीतेध्र्रुवमित्यपादानत्वाऽभावाद्वचनम्। कार्तिक्या इति। कार्तिक्या मासे आग्रहायणीत्यन्वयः। अत्र मासात्मकं कालपरिमाणं कार्तिक्या पूर्वावधिना परिच्छिद्यते, कस्मादारभ्य मास इत्याकाङ्क्षोत्थानात्। मासे इति सप्तम्यास्तु स्वोत्तराऽव्यवहितकालवृत्तित्वमर्थः। कार्तिकपौर्णमास्यात्मकपूर्वावधिकमासोत्तरकाले मार्गशीर्षपौर्णमासीत्यर्थः।

तत्त्व-बोधिनी
भुवः प्रभवः ५२६, १।४।३१

भुवः। भुवनं भूरिति। संपदादित्वाद्भावे क्विप्। पूर्वसूत्रे समासनिर्द्दिष्टमपि कर्तृग्रहणमनुवर्तते, स्वरितत्वादित्याह---भूकर्तुरिति। प्रभवत्यस्मादिति प्रभवः, "अकर्तारि च कारके" इत्यधिकारादपादानार्थे "ॠदोरप्"। जनिकर्तुरित्येव सिद्धे निरर्थकमिदमित्याशङ्कां परिहरन्नाह--तत्र प्रकाशत इति। प्रथमं दृश्यत इत्यर्थः। एष चाऽर्थो धातूनामनेकार्थत्वाल्लभ्यते। तथा चाऽभूतप्रादुर्भावो जनिः। अन्यतः सिद्धस्य प्रथममुपलम्भः प्रभव इत्यर्थभेदोऽस्तीति भावः। "भीत्रार्थानाम्---" इत्यारभ्येयं सप्तसूत्री भाष्ये प्रत्याख्याता। तत्रेत्थमुपपत्तिसंभवः---चौरेभ्यो बिभेति, भयान्निवर्तत इत्यर्थः। त्रायते=रक्षणेन चौरेभ्यो निवत्र्तयतीत्यर्थः। पराजयते=ग्लान्या निवर्तत इत्यर्थः। वारयति। प्रवृतिं()त प्रतिबन्धन्निवर्तयतीत्यर्थः। निलीयते=निलयनेन निवर्तत इत्यर्थः। अधीते=उपध्यायान्निः सरन्तं शब्दं गृङ्णातीत्यर्थः। ब्राहृणः प्रपञ्चो जायत इत्यत्रापि ततोऽपकामति। निर्गच्छतीत्यर्थः। प्रभवतीत्यत्रापि भवनपूर्वकं निःसरणमर्थः। तथा च "ध्रुवमपाये---" इत्येनेनैवेष्टेरूपसिद्धिरिति। वस्तुतस्तु निवृत्तिनिस्सरणादिधात्वन्तरार्थविशिष्टे स्व#आर्थे वृत्तिमाश्रित्य यथाकथंचुदिक्तप्रयागाणां समर्थनेऽपि मुख्यार्थपुरस्कारेण षष्ठीप्रयोगो दुर्वारः,--नटस्य श्रृणोतीतिवत्। न ह्रुपध्यायनटयोः क्रियानुकूलव्यापाराशे विशेषो वक्तुं शक्यः। अनभिधानब्राहृआस्त्रमाश्रित्य प्रत्याख्यानं तु नाऽतीव मनोरमम्। एवं "जुगुप्साविरामे"त्यादिवार्तिकमप्यारम्भणीयम्। तथा च सूत्रवार्त्तिकमतमेवेह प्रबलम्। तथा "ध्रुवं" "भयहेतुः" "असोढः" इत्यादिसंज्ञिनिर्देशोऽपि सार्थकः। परत्वात्तत्तत्संज्ञाप्राप्तावपि शेषत्वविवक्षायां "न भाषाणामश्रीयात्" इत्यादाविव षष्ठ()आ इष्टतया तत्रापादानसंज्ञाया वारणीयत्वात्। एतच्च शब्दकौस्तुभे स्पष्टम्।

ल्यब्लोपे कर्मण्यधिकरणे च। ल्यब्लोप इति। ल्यबन्तस्य गम्यमानार्थत्वलादप्रयोग इत्यर्थः। ल्यब्ग्रहणमिह ल्यबर्थपरम्। तेन क्त्वोऽपि लोपे सिध्यति। आसने स्थित्वा प्रेक्षते,----आसनात्प्रेक्षते,---आसनात्प्रेक्षते इति।

यतश्चाऽध्वकालनिर्माणं तत्र पञ्चमी॥ यतश्चेति। यदवधित्वेनाश्रित्याद्वनः कालस्य वा निर्माणं=परिच्छेदः प्रतिपाद्यते ततः पञ्चमीत्यर्थः। तेन पञ्चम्यन्तार्थेनार्थद्वारा युक्तान्निर्मीयमाणाध्ववाचिनः प्रथमासप्तम्यौ स्तः।

कालात्सप्तमी च वक्तव्या। कालादिति। इहापि तद्युक्तादित्यपेक्ष्यते। आग्रहायणीति। अग्रे हायनमस्याः सा। प्रज्ञादेराकृतिगणत्वात्स्वार्थिकोऽण्। "पूर्वपदात्संज्ञायाम्" इति णत्वम्। अन्यारा। अर्थग्रहणमिति। व्याख्यानादिति भावः। प्रपञ्चार्थमिति। न च "इतरस्त्वन्यनीचयोः" इत्यमरोक्तेर्नीचार्थस्येदं ग्रहणमस्तीति वाच्यम्, "अस्मात्तारो मन्द्रो वा" इतिवत् "पञ्चमी विभक्ते" इत्यनेनैव सिद्धत्वात्।