पूर्वम्: १।४।३१
अनन्तरम्: १।४।३३
 
प्रथमावृत्तिः

सूत्रम्॥ कर्मणा यमभिप्रैति स सम्प्रदानम्॥ १।४।३२

पदच्छेदः॥ कर्मणा ३।१ यम् २।१ अभिप्रैति लट् प॰।१ सः १।१ सम्प्रदानम् १।१ ४१ कारके ७।१ २३

अर्थः॥

करणभूतेन कर्मणा यस्य अभिप्रायं साधयति (यम् उद्दिशति) तत्कारकम्, कारके = क्रियायां सत्यां सम्प्रदानसंज्ञकं भवति॥

उदाहरणम्॥

उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति॥
काशिका-वृत्तिः
कर्मणा यम् अभिप्रैति स सम्प्रदानम् १।४।३२

कर्मणा करणभूतेन कर्ता यम् अभिप्रैति तत् कारकं सम्प्रदानसंज्ञं भवति। अन्वर्थसंज्ञाविज्ञानाद् ददातिकर्मणा इति विज्ञायते। उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति। क्रियाग्रहणम् अपि कर्तव्यम्। क्रियया ऽपि यम् अभिप्रैति स सम्प्रदानम्। श्राद्धाय निगर्हते। युद्धाय सन्नह्यते। पत्ये शेते। सम्प्रदानप्रदेशाः चतुर्थी सम्प्रदाने २।३।१३ इत्येवम् आदयः। कर्मणः करणसंज्ञा वक्तव्या सम्प्रदानस्य च कर्मसंज्ञा। पशुना रुद्रं यजते। पशुं रुद्राय ददाति इत्यर्थः।
लघु-सिद्धान्त-कौमुदी
कर्मणा यमभिप्रैति स सम्प्रदानम् ८९९, १।४।३२

दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात्॥
न्यासः
कर्मणा यमभिप्रैति स सम्प्रदानम्। , १।४।३२

"कर्मणा करणभूतेन" इति। ननु च कथं कर्म करणं भवति? क्रियाभेदसम्बन्धात्। तथा हि ददातिक्रिययाऽ‌ऽस्तुमिष्टतमत्वात् तस्याः कर्मत्वम्, अभिप्रयाणक्रियां प्रतितस्य साधकतमत्वात् करणत्वम्। "अभिप्रैति" इति। अभिसम्बध्नातीत्यर्थः। यदि कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञो भवति, एवमजां नयति ग्राममित्यजादिभिर्नयनक्रियाकर्मभिः सम्बध्यमानस्य ग्रामस्य सम्प्रदानसंज्ञा प्रसज्येतेत्यत आह-- "अन्यर्थसंज्ञाविज्ञानात्" इत्यादि। सम्प्रदानमिति। तेन ददातेः कर्मणा यमभिप्रैति तत् सम्प्रदानमिति विज्ञायते। नन्वेवमपि रजकस्य वस्त्रं ददाति, घ्नतः पृष्ठं ददातीत्यतत्र प्राप्नोति, नैतदस्ति; दानं हि नाम पूजानुग्रहकाम्यया स्वकीयद्रव्यपरित्यागः परस्वत्वापत्तिः, तच्चेह नास्ति, अतो न भविष्यति। कर्मणेति किमर्थम्? " यमभिप्रैति स सम्प्रदानम्" इत्युच्यमाने यमभिप्रैति तस्य कर्मण एव सम्प्रदानसंज्ञत्रा स्यात्। कर्मसंज्ञायास्तु ददातिकर्मणोऽन्यत्रावकाशः स्यात्-- ओदनं पचतीति। "यं स" ग्रहणं किमर्थम्? "कर्मणाभिप्रैति सम्प्रदानम्" इत्युच्यमाने कयोऽभिप्रैति तस्य सम्प्रदानसंज्ञा स्यात्। ततश्च कर्तुः सम्प्रदानसंज्ञा स्यात्, कर्तसंज्ञायास्तु यत्र कर्मसम्बन्धो नास्ति, सोऽवकाशः स्यात्--आस्ते, शेते इति। अथाभिप्रग्रहण किमर्थम्? "कर्मणा यमेति स सम्प्रदानाम्" इत्युच्यमाने कालविशेषविक्षा स्यात्, वर्तमान एव स्यात्। ततश्चोपाध्यायस्य गामदात्, उपाध्यायायं गां दास्तीत्यत्र न स्यात्, अभिग्रहणे तु सति भवति। अभिराभिमुख्ये वत्र्तते तच्चाप्यतीतेऽप्यस्ति। प्रशब्द आदिकर्मणि, प्रारम्भे। स चासन्निहितायां भाविन्यामपि क्रियायां सम्भवतीति सर्वत्र संज्ञा सिद्धा भवति। नैतदभिप्रग्रहस्य प्रयोजनमुपपद्यते। यथैव कर्मणेत्यत्रैकत्वसंख्याया विवक्षा न भवति; यता च "यं" "सः" इत्यत्र लिङ्गसंख्योर्विवक्षा न भवति तथा कालस्यापि न भविष्यति। किं कारणम्? उपलक्षणार्थत्वात्। यथा-- "सोऽर्थो योऽनर्थ बाधते" इत्युक्ते योऽपि बाधितवान्, योऽपि बाधिष्यते सोऽप्यर्थ एव। एवं तर्हि ग्रन्थाधिक्यादर्थाधिक्यं यथा स्यादित्यवमर्थमभिप्रग्रहणम्। एतेन क्रिययापि यमभिप्रैति तस्यापि सम्प्रदानसंज्ञा सिद्धा भवति; अन्यथा हि यद्यपि क्रिया प्रार्थनाध्यवसानाभ्यां व्याप्तुमिष्टतमत्वात् कर्म, तथापि ददातिकर्मसम्बन्धाभावान्न सिद्ध्येत्। कथं पुनरेतदवसितम्-- क्रियया यमभिप्रैतिस सम्प्रदावमित्ययमर्थोऽत्र प्रतिपादयितुमिष्टतम् इति? अभिप्रग्रहणात्। अस्ति ह्रत्राचार्यस्य कश्चिदर्थोऽधिकोऽभिमतः, यस्यावभासनायाधिकं शब्दान्तरं प्रयुक्तमिति गम्यते, न त्वर्थविशेषः। न हि तत् तस्य वाचकम्। यद्यप्यवाचकं स्यात्, तथापि लक्ष्यदर्शनवशादविच्छिन्नाचार्यपारम्पर्योपदेशाच्च विशेषावगतिर्भविष्यतीत्यद्वेष्यमेतत्। "क्रियाग्रहणमपि कत्र्तव्यम्" इति। क्रियया ग्रहणं क्रियाग्रहणम्। येन क्रिया गृह्रते, तद्वयाख्यानं कत्र्तव्यम्। किं पुनस्तद्व्याख्यानम्? तच्चास्माभिरभिग्रहण्सय प्रयोजनं वर्णयद्भिः कृतमेव। का पुनरिह क्रिया, ययाभिप्रेयमाणस्य सम्प्रदानसंज्ञेष्यते? सा विवक्षिता। अत आह-- "क्रिययापि यमभिप्रैति" इत्यादि। "निगल्हते" इति। "गर्ह गल्ह कुत्सायाम्" (धा।पा।६३६,६३७) अनुदात्तेत्। "युद्धाय सन्नह्रते" इति। "नह बन्धने" (धा।पा।११६६) दिवादौ स्वरितेत्। स चेह निश्चये वत्र्तते, युद्धे निश्चयं करोतीत्यर्थः। "पत्ये शेते" इति। शीङत्रोपसर्पणपूर्वके शयन वत्र्तते। पतिमुपसृत्य शेते इत्यर्थः। "कर्मणः करणसंज्ञा" इत्यादि। एतत् "पशुना रुद्रं यजते" इत्येतद्विषयमेव वेदितव्यम्। यजिः स्वरितेत्। एतच्च "व्यत्ययो बहुलम्" (३।१।८५) इति सुव्यत्ययेन सिद्धमेवेति न वक्तव्यम्
बाल-मनोरमा
कर्मणा यमभिप्रैति स संप्रदानम् ५६१, १।४।३२

अथ चतुर्थी। कर्मणा यमभि। कर्मसंज्केन गवादिद्रव्येण यमभिप्रैति शेषित्वेनऽध्यवस्यति स संप्रदानमित्यर्थः। शेषित्वं-भोक्तृत्वम्। संप्रदीयते यस्मै तत्संप्रदानमित्यन्वर्थसंज्ञैषा। ततश्च कस्याः क्रियायाः कर्मणेत्याकाङ्क्षायां दानस्येति गम्यते। तदाह--दानस्येत्यादिना। देयद्रव्योद्देश्यं संप्रदानमिति फलितम्। दानस्येति किम्? पयो नयति देवदत्तस्य। अत्र देवदत्तस्य पयोनयनोद्देश्यत्वेऽपि न संप्रदानत्वं, पयसो दानकर्मत्वाऽभावात्।

तत्त्व-बोधिनी
कर्मणा यमभिप्रैति स संप्रदानम् ५०६, १।४।३२

कर्मणा। महासंज्ञाकरणमन्वर्थसंज्ञाविधानार्थम्। सम्यक् प्रदीयतेऽस्मै तत्संप्रदानमिति। अत एवाह---दानस्येति। दानक्रियाकर्मणा कर्ता यमभिप्रैति सम्बन्ध्नाति, सम्बन्द्धुमीप्सति वा तस्कारकं सम्प्रदानसंज्ञकमित्यर्थः। तेन "अजां नयति ग्रामं" "हस्तं निदधाति वृक्षे" इत्यादौ नाऽतिप्रसङ्गः। दानं चाऽनुपुनग्र्रहणाय स्वस्वत्विनिवृत्तिपूर्वकं परस्वत्वोत्पादनम्। अतएव "रजकस्य वस्त्रं ददाती"त्यादौ न भवति। तत्र हि ददातिर्भाक्तः। एतच्च वृत्तिमतम्। भाष्यमते तु नाऽन्वर्थतायामाग्रहः "खण्डिकोपाध्यायः शिष्याय चपेटां ददाति" इत्यादिप्रयोगात्। "राजकस्य ददाती"ति प्रयोगस्तु शेषत्वविवक्षायां भविष्यति। न चैवमजां नयति ग्राममित्यादावतिप्रसङ्गः शङ्क्यः, अजां प्रति ग्रामस्य शेषित्वाऽभावात्। "यमभिप्रैती"त्युक्त्या हि यमिति निर्दिष्टस्य शेषित्वं, कर्मणश्च शेषत्वं लभ्यते, गां प्रति तु विप्रस्य शेषित्वमस्तीति भवति तस्य संप्रदामसंज्ञा। अत्र अभि प्र एतीत्येतत्पदत्रयं, न तु समासः।" उदात्तवता गातिमता च तिङा गतेः समासो वक्तव्यः" इति वार्तिकस्य छन्दोविषयत्वादिति हरदत्तः। भाषाविषयत्वे तु "यत्प्रकुरुते" इत्यादौ समासत्वात्सोर#उत्पत्तिः स्यात्। लिङ्गसर्वनाम नपुंसकतामभ्युपेत्य "स्वमोर्नपुंसकात्" इति लुकि कृतेऽपि "ह्यस्वो नपुंसके---" इति ह्यस्वः स्यात्,"यत्प्रकुर्वीर"न्नित्यत्र तु नलोपः स्यात्(), तस्मादुक्तवार्तिकस्य छन्दोविषयत्वंयुक्तमेव। दानीय इति। बाहुलकात्संप्रदाने अनीयरि। क्रिययेति। क्रियायाः कृत्रिमाकर्मत्वाऽभावात्तया अभिप्रेयमाणस्य सूत्रेण संज्ञा न प्राप्नोतीति वचनम्। एतच्च "क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इत्यनेन सिद्धम्। "पत्ये शेते" इत्यादौ पतिमनुकूलयितुं शेते इत्याद्यर्थाभ्युपगमे वाधकाऽभावात्। भाष्यकारमते तु "कर्मणा यमभिप्रैति" इति सूत्रेणैव सिद्धम्, "संदर्शनप्रार्थनाऽध्यवसायैराप्यमाणत्वात्क्रियापि कृतिं()रमं कर्म" इति तैरुक्तत्वात्। नचैवमपि ददातिकर्मत्वाऽभावात् "क्रियया यमभिप्रैति" इत्येतद्वचनं कर्तव्यमेवेति वाच्यम्, भाष्येऽन्वर्थसंज्ञात्बस्वोकारात्। नन्वेनं कटं करोति, ओदनं पचतीत्यादावपि संप्रदानत्वप्रसङ्गस्तथा च वचनद्वयबलात्कर्मसंप्रदानयोः पर्यायत्वे "कटाय करोती"त्याद्यनिष्टप्रयोगोऽपि स्यादिति चेत्()। अत्राहुः--"पत्ये शेते" इत्यकर्मकस्थले सावकाशायाः संप्रदानसंज्ञायाः निरवकाशया कर्मसंज्ञया बाधितत्वान्नैवाऽनिष्टप्रसक्तिः। न चैवं "गत्यर्थकर्मणि द्वितीयाचतुथ्र्यौ---" इति सूत्रमावश्यकमेवेति तत्प्रत्याख्यानं भाष्यस्थं न सङ्गच्छत इति वाच्यम्। भाष्ये तत्प्रत्याख्यानस्य प्रौढिवादमात्रत्वादिति दिक्। स्यादेतत्---दानस्य तदर्थत्वात्तादर्थ्ये चतुर्थी सिद्धैव किमनया संप्रदानसंज्ञया?। मैवम्। दानक्रियार्थं हि संप्रदानं न तु दानक्रिया तदर्था। कारकाणां क्रियार्थत्वात्।

कर्मणः करणसंज्ञा संप्रदानस्य च कर्मसंज्ञा। कर्मणः करणसंज्ञेत्यादि। छन्दसमेतत्। अत एवेदं सुब्व्यत्यत्येन सिद्धत्वादिति प्रत्याख्यायते।