पूर्वम्: १।४।३७
अनन्तरम्: १।४।३९
 
प्रथमावृत्तिः

सूत्रम्॥ क्रुधद्रुहोरुपसृष्टयोः कर्म॥ १।४।३८

पदच्छेदः॥ कुर्ध-द्रुहोः ६।२ उपसृष्टयोः ६।२ कर्म १।१ यम् १।२ ३७ प्रति ३७ कोपः १।१ ३७ कारके ७।१ २३

समासः॥

क्रुध-द्रुहोः इत्यत्र इतरेतरद्वन्द्वः।

अर्थः॥

उपसृष्टयोः = उपसर्गपूर्वकयोः क्रुध-द्रुहोः प्रयोगे, यं प्रति कोपः तत्कारकं कर्मसंज्ञकं भवति। पूर्वेण सम्प्रदानसंज्ञा प्राप्ता कर्मसंज्ञा विधीयते॥

उदाहरणम्॥

देवदत्तम् अभिक्रुध्यति। देवदत्तम् अभिद्रुह्यति॥
काशिका-वृत्तिः
क्रुधद्रुहोरुपसृष्ठयोः कर्म १।४।३८

पूर्वेण सम्प्रदानसञ्ञायाम् प्राप्तायाम् कर्मसंज्ञा विधीयते। क्रुधद्रुहोरुपसृष्टयोरुपसर्गसम्बद्धयोः यं प्रति कोपः, तत् कारकं कर्मसंज्ञं भवति। देवदत्तम् अभिक्रुध्यति। देवदत्तम् अभिद्रुह्यति। उपसऋष्टयोः इति किम्? देवदत्ताय क्रुध्यति। यज्ञदत्ताय द्रुह्यति।
न्यासः
क्रुधद्रुहोरुपसृष्टयोः कर्म। , १।४।३८

बाल-मनोरमा
क्रुधद्रुहोरुपसृष्टयोः कर्म ५६८, १।४।३८

क्रुधद्रुहोः। "उपसृष्टयो"रित्येतद्व्याचष्टे--सोपसर्गयोरिति। पूर्वसूत्रापवादोऽयम्। हरेः क्रोधद्रोहोद्देश्यत्वाऽभावात् "क्रियया यमभिप्रैती"ति संप्रदानत्वस्य न प्रसक्तिः। नापि तादथ्र्यचतुर्थ्याः। क्रुधद्रुहोरकर्मकत्वान्नहरेः कर्मत्वम्। अतः शेषषष्ठ()आं प्राप्ताया वाचनिकां कर्मत्वम्।