पूर्वम्: १।४।३६
अनन्तरम्: १।४।३८
 
प्रथमावृत्तिः

सूत्रम्॥ क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः॥ १।४।३७

पदच्छेदः॥ कुध-द्रुह-ईर्ष्य-असूयार्थानाम् ६।३ यम् १।२ ३८ प्रति ३८ कोपः १।१ ३८ सम्प्रदानम् १।१ ३२ कारके ७।१ २३

समासः॥

क्रुधश्च द्रुहश्च ईर्ष्यश्च असूयश्च, क्रुधद्रुहेर्ष्यासूयाः, तेषाम् अर्थाः क्रुध॰सूयार्थाः। क्रुध॰सूयार्थानाम् इव अर्थाः येषां ते क्रुध॰सूयार्थाः, तेषां ॰, द्वन्द्वगर्भः बहुव्रीहिः।

अर्थः॥

क्रुधार्थानां द्रुहार्थानां ईर्ष्यार्थानां असूयार्थानां च धातूनां प्रयोगे यं प्रति कोपः, तत् कारकं संप्रदानसंज्ञकं भवति।

उदाहरणम्॥

देवदत्ताय क्रुध्यति। देवदत्ताय द्रुह्यति। देवदत्ताय ईर्ष्यति। देवदत्ताय असूयति॥
काशिका-वृत्तिः
क्रुधद्रुहैइर्ष्यासूयार्थानां यं प्रति कोपः १।४।३७

अमर्षः क्रोधः। अपकारो द्रोहः। अक्षमा ईर्ष्या। गुणेषु दोषाविष्करनम् असूया। क्रुधाद्यर्थानाम् प्रयोगे यं प्रति कोपः, तत् कारकं सम्प्रदानसंज्ञम् भवति। क्रोधस्तावत् कोप एव। द्रोहादयो ऽपि कोपप्रभवा एव गृह्यन्ते। तस्मात् सामान्येन विशेसणम् यं प्रति कोपः इति। देवदत्ताय क्रुध्यति। देवदत्ताय द्रुह्यति। देवदत्ताय ईर्ष्यति। देवदत्ताय असूयति। यम् प्रति कोपः इति किम्? भार्याम् ईर्ष्यति, मा एनाम् अन्यो द्राक्षीतिति।
न्यासः
क्रुधद्रुहेष्र्यासूयार्थानां यं प्रति कोपः। , १।४।३७

क्रुधद्रुहावकर्मकौ, तत्र षष्ठ()आं प्राप्तायामयमारम्भः, इतरौ सकर्मकौ। तत्र द्वितीयायां प्राप्तायाम्। कथं पुनरेषां भिन्नार्थत्वे सति "यं प्रति कोपः" इति सामान्येन तद्विशेषणमुपपद्यत इत्याह-- "क्रोधस्तावत्" इत्यादि। सुगमम्। "क्रुद्ध्यति, द्रुह्रति" इति। "क्रुध कोपे"(धा।पा।११८९), "द्रुह जिघांसायाम्" (धा।पा।११९७) दैवादकौ। "ईष्र्यति" इति। "{ईक्ष्यं, सूक्ष्यं-धा।पा।}ईक्र्ष, सूक्र्ष, ईष्र्य ईष्र्यार्थाः" (धा।पा।५१०,५०९,५११)। "असूयति" इति। असूयशब्दः कण्()?डवादियगन्तः। "भार्यामीष्र्यति"इति। अस्ति भार्यायामीष्र्या, न तु तां प्रति कोपः। केवलं परैर्दृश्यमानां तां न क्षमते। अथास्मिन् द्वेष्टीत्यत्र कथं न भवति सम्प्रदानसंज्ञा? द्विषेरक्रोधाद्ययर्थत्वात्। अप्रीतौ ह्रेनं स्मरन्ति; तथा चाचेतनेष्वपि प्रयुज्यते-- औषदं द्()वेष्टीति। नाभिनन्दतीति गम्यते॥
बाल-मनोरमा
क्रुधद्रुहेष्र्याऽसूयार्थानां यं प्रति कोपः ५६७, १।४।३७

क्रुधद्रुह। क्रुधाद्यर्थानामिति। "क्रुध क्रोधे" "द्रुह द्रोहे" श्यन्विकरणौ। "ईष्र्य ईष्र्यायां" शब्विकरणः। "असूञ् उपतापे" कण्ड्वादिः। एषामर्था एवार्था येषामिति विग्रहः। हरये क्रुध्यतीति। "रावणादि"रिति शेषः। हरिविषयकं कोपं करोतीत्यर्थः। घातेच्चासमनियतश्चित्तवृत्तिविशेषः कोपः। अकर्मकत्वात्षष्ठी प्राप्ता। द्रुह्रतीति। कोपाद्धरिविषयकमपकारं करोतीत्यर्थः। अकर्मकत्वात्षष्ठी प्राप्ता। अपकारो दुःखजनिका क्रिया। धात्वर्थोपसङ्ग्रहादकर्मकः। ईष्र्यतीति। ईष्र्या असहनम्। हरिं कोपान्न सहत इत्यर्थः। कर्मणि द्वितीया प्राप्ता। असूयति वेति। असूया गुणेषु दोषारोपः। यथाविहितकर्माचारे दम्भादिकृत्वारोपणम्। इहग कोपाद्धरिं दुर्गुणं मन्यत इत्यर्थः। मैनामिति। एनां भार्यामन्यो न पश्येदित्येतदर्थं भार्यागुणेषु दोषारोपणं करोतीत्यर्थः। नात्र भार्यां प्रति कोपः, किन्तु परेण दृश्यमानां तां न सहत इत्येव विवक्षितमिति बोध्यम्। एवंच क्रोधद्रोहेष्र्यासूयानां कोपमूलकत्वएवेदमिति भाष्ये स्थितम्। तथाच कुप्यति कस्मै चिदित्याद्यसाध्वेव, कोपमूलकत्वाऽभावात्क्रुधार्थकत्वाऽभावाच्च। प्ररूढकोप एव हि क्रोधः, "नह्रकुपतः क्रुध्यति" इति भाष्यात्।

तत्त्व-बोधिनी
क्रुधद्रुहेष्र्याऽसूयार्थानां यं प्रति कोपः ५११, १।४।३७

क्रुधद्रुह। "क्रुधे क्रोधे", द्रुह जिघांसायाम्", "ईष्र्य ईष्र्यायाम्", असूयतिः कण्ड्वादियगन्तः, एषामर्थ इवार्थे येषां धातूनामित्यर्थः। द्रोहोऽपकार इति। द्रुह द्रोहे"इति पाठाभिप्रायेणोक्तं, जिघांसाद्रोह एवेत्यर्थतोऽनुभाषणं वा। अक्षमेति। परसंपत्त्यसहनमित्यर्थः। क्रुधद्रुहोरकर्मकत्वात्तद्योगे षष्ठी प्राप्ता, अन्ययोस्तु सकर्मकत्वाद्द्वितीया प्राप्ता। ननु चित्तदोषार्थानामित्येवास्तु, किं क्रोधादीनां विशिष्योपादानेनेति चेत्(त्राहुः--द्विषादावतिप्रसङ्गवारणाय विशिष्योपादानम्। तेन "योऽस्मान्द्वेष्टि यं च वयं द्वि ष्मः" इत्यत्र चतुर्थी न भवति। तत्र ह्रनभनन्दनं द्विषेरर्थः। अत एवाऽचेतनेषु न प्रयुज्यते "--औषधं द्वेष्टि देवदत्त"मिति। कोपप्रभवा एवेति। कथं तर्हि "कुप्यसि कस्मैचित्िति। न हि कोपः कोपप्रभवः। अत्र व्याचख्युः--कुपिरत्र द्रोहार्थ इति। पत्ये शेते इतिवत् "क्रिययायम्---" इत्येव सिद्धे क्रुधद्रुहोग्र्रहणं चिन्त्यप्रयोजनमित्याहुः।