पूर्वम्: १।४।५०
अनन्तरम्: १।४।५२
 
प्रथमावृत्तिः

सूत्रम्॥ अकथितं च॥ १।४।५१

पदच्छेदः॥ अकथितम् १।१ कर्म १।१ ४९ कारके ७।१ २३

समासः॥

न कथितम्, अकथितं, नञ्तत्पुरुषः।

अर्थः॥

अकथितम् अपादानादिकारकैः च अनुक्तं यत् कारकं, तत् कर्मसंज्ञं भवति॥
महाभाष्ये परिगणना -- दुहि-याचि-रुधि-प्रच्छि-भिक्षि-चिञाम् उपयोग-निमित्तम् अपूर्व-विधौ। ब्रुवि-शासि-गुणेन च यत् सचते तद् अकीर्त्तितम् आचरितं कविना॥ अर्थात्, दुह्, याच, रुध, प्रच्छ, भिक्ष्, तथा चिञ्, एतेषां धातूनां उपयोगनिमित्तं (उपयोगः दुग्धं यथा, निमित्तं गौ यथा), एतेषां पूर्वविधौ (अकथिते सत्यपि) कर्मसंज्ञं भवति। तथा ब्रूञ्, शास् धात्वोः क्रधानकर्मणः (धर्मं यथा) सम्बन्धितः (माणवकं यथा) कर्मसंज्ञं भवति।

उदाहरणम्॥

पाणिना कांस्यपात्र्यां गां दोग्धि पयः। पौरवं गां याचते। गाम् अवरुणद्धि व्रजम्। माणवकं पन्थानं पृच्छति। पौरवं गां भिक्षते। वृक्षम् अवचिनोति फलम्। माणवकं धर्मं ब्रूते। माणवकं धर्मम् अनुशास्ति।
काशिका-वृत्तिः
अकथितं च १।४।५१

अकथितं च यत् कारकं तत् कर्मसंज्ञं भवति। केन अकथितम्? अपादानादिविशेषकथाभिः। परिगणनं कर्तव्यम् दुहियाचिरुधिप्रच्छिभिक्षिचिञाम् उपयोगनिमित्तम् अपूर्वविधौ। ब्रुविशासिगुणेन च यत् सचते तदकीर्तितम् आचरितं कविना। उपयुज्यते इत्युपयोगः पयःप्रभृति। तस्य निमित्तं गवादि। तस्य उपयुज्यमानपयःप्रभृतिनिमित्तस्य गवादेः कर्मसंज्ञा विधीयते। पाणिना कांस्यपात्र्यां गां दोग्धि पयः। पाण्यादिकम् अप्युपयोगनिमित्तं, तस्य ८६ कस्मान् न भवति? न एतदस्ति। विहिता हि तत्र करणादिसंज्ञा। तदर्थम् आह अपूर्वविधौ इति। ब्रुविशासिगुणेन च यत् सचते। ब्रुविशास्योर् गुणः साधनम्, प्रधानं, प्रधानं कर्म, धर्मादिकम्, तेन यत् सम्बध्यते, तदकीर्तितम् आचरितं कविना, तदकथितम् औक्तं सूत्रकारेण। दुहि गां दोग्धि पयः। याचि पौरवं गां याचते। रुधि गामवरुणद्धि व्रजम्। प्रच्छि माणावकं पन्थानं पृच्छति। भिक्षि पौरवम् गां भिक्षते। चिञ् वृक्षमविचिनोति फलानि। ब्रुवि माणवकं धर्मं ब्रूते। शासि माणवकं धर्मम् अनुशास्ति।
लघु-सिद्धान्त-कौमुदी
अकथितं च ८९५, १।४।५१

अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात्। दुह्याच्पच्दण्ड् रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम्। कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम्॥ १॥गां दोग्धि पयः। बलिं याचते वसुधाम्। तण्डुलानोदनं पचति। गर्गान् शतं दण्डयति। व्रजमवरुणद्धि गाम्। माणवकं पन्थानं पृच्छति। वृक्षमवचिनोति फलानि। माणवकं धर्मं ब्रूते शास्ति वा। शतं जयति देवदत्तम्। सुधां क्षीरनिधिं मथ्नाति। देवदत्तं शतं मुष्णाति। ग्राममजां नयति हरति कर्षति वहति वा। अर्थनिबन्धनेयं संज्ञा। बलिं भिक्षते वसुधाम्। माणवकं धर्मं भाषते अभिवत्ते वक्तीत्यादि॥ इति द्वितीया।
न्यासः
अकथितञ्च। , १।४।५१

"{मुद्रित "काशिकावृत्तौ" तु "अपादानादिविशेषकथाभिः" इत्येवास्ति।}अपादानाधिभिर्विशेषकथाभिः" इति। कारकसामान्यकथाया व्यवच्छेदार्तमेतत्। यदि हि केनाप्यकथितस्य कर्मसंज्ञा स्यात्, तदा माणवकस्य पितरं पन्थानं पृच्छतीत्यत्राकारकस्यापि माणवकस्य कर्मसंज्ञा स्यात्। "परिगणनम्" इति। अनयधातुव्यवच्छेदार्थमेतत्। तेन "दुह प्रपूहरणे" (धा।पा।१०१४) इत्येवमादीनामेव धातूनां प्रयोगेऽकथितस्य कर्मसंज्ञा विधीयते, नान्येषाम्। "उपयुज्यत इत्युपयोगः" इति। कर्मसाधनो घञन्तः। "उपयज्यते" इति। इष्टार्थसिद्धौ व्यापार्यत इत्यर्थ-। "पयःप्रभृति" इति। प्रभृतिशब्दन भिक्षादीनां ग्रहणम्। "तस्य निमित्तं गवादि" इति। आत्राप्यादिशब्देन पौरवादेग्र्रहणम्। "तस्योपर्युज्यमानपयः प्रभृतनिमित्तस्य" इति। उपयुज्यमानञ्च तत् पयः प्रभृति चेति विशेषणसमासं कृत्वना उपयुज्यमानपयः प्रभृतेर्निमित्तमिति षष्ठीसमासः। "गवादेः" इति। आदिशब्देन पौरवादेग्र्रहणम्। ननु च पाण्यादिकमप्युपयोगनिमित्तमिति, तेन विनोपयोगस्य पयसोऽसम्भवात्। आदिशब्देन कांस्यपात्रादेग्र्रहणम्। "विहिता हि तत्र करणादि संज्ञा" इति। आदिशब्देनाधिकरणसंज्ञाया ग्रहणम्। "तदर्थम्" इति। करणादेः कर्मसंज्ञानिवृत्त्यर्थमित्यर्थः। अर्थशब्दस्य निवृत्तिवचन्तवात्। "अपूर्वविधौ" इति। पूर्वग्रहणमत्रान्यविधेरुपलक्षणार्थम्। एतदुक्तं भवति-- यस्यान्यो विधिर्नोक्तस्य कर्मसंज्ञेति। तेन यत्रापि वक्ष्यमाणे हेतुकर्त्तृसंज्ञे इति तत्राप्येषा संज्ञा न भवतीति दोग्धाप्युपयोगस्य निमित्तं तस्य कर्मसंज्ञा न भवति। सूत्रेऽपि "अकथितम्" इति कथमनिवृत्तपरायां चोदनायां भूतकालो न विवक्ष्यते; उपलक्षणत्वात्। तेन योऽपि कथयिष्यमाणो हेतुकर्त्तृसंज्ञाभ्याम्, तस्यापि कर्मसंज्ञा न भवतीत्युक्तं भवति। ब्राउविशासिगुणेन" इति। कः पुनर्गुण इत्याह-- "साधनम्" इति। साधनं हि क्रियया उपकारकम्। यच्चोपकारकं तदुपकार्यम् प्रधानमपेक्ष्य गुणो भवति। कतरत् पुनः साधनमित्याह-- "प्रधानं कर्म" इति। किं पुनस्तदित्याह-- "धर्मादिकम्" इति। आदिशब्देन पत्त्यादेग्र्रहणम्। प्रधानत्वन्तु धर्मादेस्तदर्थत्वाच्छिष्यादिप्रवृत्तेः। "सम्बध्यते" इति सचत इत्यस्यार्थकथनम्। तथा हि-- "षच समवाये" (धा।पा।९९७) इति पठ()ते, समवायश्च सम्बन्ध एव। सचते = तेन गुणेन सम्बन्धमुपैति। यच्च तेन सम्बन्धमुषैति तत्तेन सम्बध्यते। "उक्तम्" इति आचरितमित्यस्य विवरणम्। सूत्राकारेणेत्येतदपि "कविना" इत्यस्य। "गां दोग्धि पयः" इति। "दुह प्रपूरणे" (धा।पा।१०१४) आदादिकः। "दादेर्धातोर्घः" ८।२।३२, "झषस्तथोर्धोऽधः" ८।२।४०, "झलां जश् झशि" ८।४।५२ इति जश्त्वम्। ननु चात्र विहिताऽपादान संज्ञा, अस्ति ह्रत्रापायः-- गोः दुहेः क्षरणार्थत्वात्, क्षरति गौओः क्षीरम्, तद्()गोर्दोग्धा क्षारयति, एवञ्च तत् क्षार्यमाणं ततोऽपक्रामतीति स्पष्ट एवापायः, ततो नेदमुदाहरणमुपपद्यते? नैतदेवम्; सत्यपि ह्रपाये नात्र गोरवधित्वं विवक्षितम्, किं तर्हि? क्षीरं प्रति निमित्तभावमात्रम्। यद्येवम्, गोः कारकत्वं न स्यात्, यथा -- वृक्षस्य पर्णं पततीत्यत्र वृक्षस्य न; क्षरणक्रियां प्रति निमित्तभावेनाविवक्षितत्वात्, नैतत्; अवधित्वं ह्रत्र गोर्न विवक्षितम्। क्षरणं प्रति निमित्तभावस्तु विवक्षित एव। वृक्षस्य पर्णं पततीत्यत्र तु पतनं प्रति वृक्षस्य निमित्तभावमात्रमपि न विवक्षितम्, न केवलमवधिभाव इत्यसमानम्। "पौरवं गां याचते" इति। ननु चात्र कथितापादानादिसंज्ञा , अस्ति ह्रसौ। पौरवाद्गामादत्त इति अस्त्येववापायः? नैतदस्ति; न हि याचनादेवापायो भवति , किं तर्हि? अवरोधनक्रियां प्रति निमित्तबावमात्रम्। अस्याञ्चावस्थायां वा विवक्ष्यते; न चैतदिह विवक्षितम्, हेतुना गामवस्थापयतीत्ययमत्रार्थो वेदितव्यः, न तु क्वावस्थापयतीत्येतदिह चिन्त्यत एव। "माणवकं पन्थानं पृच्छति" इति। "प्रच्छ ज्ञीप्सायाम्" (धा।पा। १४१३), तुदादिः, ग्रहिज्यादिसूत्रेण ६।१।१६ सम्प्रसारणम्। ननु च कथितात्रापादानसंज्ञा, अस्ति ह्रत्रापायः-- सहि तस्मादुपदेशमादित्सते, नैतदस्ति; न हि प्रश्नमात्रेणापायो भवति, किं तर्हि? पृष्टः सन् यद्यसावाचष्टे तदापायेन युज्यते। सत्यप्यपाये नात्र माणवकोऽवधिभावेन विवक्षितः, किं तर्हि? प्रश्नक्रियां प्रति निमित्तभावमात्रेण। "पौरवं गां भिक्षते" इति। "भिक्ष याच्ञायाम्" (धा।पा।६०६) अनुदात्तेत्। अत किमर्थ याचिभिक्ष्योद्र्वयोरुपादानम्, यावताऽनयोरर्थभेदो नास्ति? न चेयं संज्ञा श्बदाश्रया, किं तर्हि? अथश्रिया। तथा हि- याचिना समानार्थस्यान्यस्यापि ग्रहणं भवति-- देवदत्तं शतं प्रार्थयते, देवदत्तं शतं मृगयत इति। तस्मात् सत्यपि शब्देभेदे न युक्तं तयोः पृथग्ग्रहणम्। एवं तर्हि याचिरत्रानुनये वत्र्तते-- तन क्रुद्धं याचते, अविनीतं याचत इति, तदर्थं पृथग्ग्रहणं स्यात्। "वृक्षमवचिनोति फलानि" इति। ननु चात्र विहिताऽपादानसंज्ञा तथा हि-- वृक्षात् फलान्यादत इत्यपायोऽत्रार्थः,नैतदस्ति; न ह्रत्र वृक्षोऽवधित्वन विवक्षितः। किन्तर्हि? फलावचयनस्य हेतुभावमात्रेण। वृक्षेण हेतुना फलावचयनं करोत्यर्थः। तस्य वृक्षस्य हेतुभावः किमवधिभूतस्य? अधिकरणभूतस्य वा? इत्येवमादिका चिन्ता न कृता। एवं "माणवकं धर्मं ब्राऊते, माणवकं धर्ममनुशास्ति" इति। "ब्राऊञ् व्यक्तायां वाचि" (धा।पा।१०४४), "शासु अनुशिष्टौ" (धा।पा।१०७५) अदादी। ननु च कथितात्र सम्प्रदानसंज्ञा, अस्ति ह्रत्र सम्प्रदानत्वम्, सम्प्रदेयेन धर्मेणाभिप्रेयमाणत्वात्, नैतदस्ति; ददातिकर्मणाभिप्रेयमाणस्य सम्प्रदानसंज्ञा विहिता, न चात्र धर्मो ददातिकर्म; ब्राउविशास्योरदानार्थत्वात्। अथापि दानार्थता स्यात्? एवमपि माणवेकन निमित्तेन धर्मं ददातीत्ययमर्थः स्यात्। माणवकस्य सम्प्रदानत्वनाविवक्षितत्वात्; धर्मदाननिमित्तत्वेन विवक्षितत्वात्। ब्राउविशासिगुणेन चेति चकारोऽनुक्तसमुच्चयार्थः। तेन नयतिप्रभृतीनां प्रयोगेऽप्यकथितस्य कर्मसंज्ञेष्यते।तथा चोक्तम्-- नीवह्रोहरतेश्चैव गत्यर्थानां तथैव च। द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः॥ इति। अत्रापि श्लोके चकारो जयतिप्रभृतीनां प्रयोगेऽकथितस्य समुच्चयार्थः। किमुदाहरणम्? अजां नयति ग्रामं देवदत्तः। अजां वहति ग्रामं देवदत्तः। अजां हरति ग्रामं देवदत्तः। शतं जयति देवदत्तं यज्ञदत्तः। शतं गर्गान् दण्()डयतीति। ननु चोभयेषामपि "कर्त्तुरीप्सिततमं कर्म" १।४।४९ इत्यनेनैव कर्मसंज्ञा सिद्धा। यदि तह्र्रजादीनामीप्सिततमत्वं विवक्ष्यते, न ग्रामादीनाम्, तदा कथं कर्मसंज्ञा? तथापि "तथायुक्तम्" १।४।५० इत्यनेन सिद्धा। यदा तर्हि ग्रामादीनामीप्सितत्वं प्रकर्षरहितं विवक्ष्यते, तदा न सिद्ध्यति। अकर्मकाणाञ्च धातूनां कालभावाध्नगन्तव्यदेशानां कर्मसंज्ञेष्यते। तथा चोक्तम्-- कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्रकर्मणाम्। दशाश्चाकर्मकाणाञ्च कर्मसंज्ञा भवन्ति च॥ इति वक्तव्यम् (म।भा।१।३३६) इति। तस्मात् तदर्थोऽनुक्तसमुच्चयार्थश्चकारः कृतः कालः -- मासमास्ते मासं स्वपितीति। भावः-- गोदोहमास्ते, गोदोहं कस्वपितीति। अध्वा गन्तव्यः-- क्रोशमास्ते, क्रोशं स्वपितीति। अध्वा चासौ गन्तव्यश्चेति विशेषमसमासः। "कडाराः कर्मधारय" २।२।३८ इति विशेष्यस्य पूर्वनिपातः। देशः कुरूनास्ते, कुरून् स्वपितीति। सर्वं एते कालादयोऽकथिताः; पूर्वविधेः कस्यचिद्()प्रवृत्तत्वात्॥
तत्त्व-बोधिनी
अकथितं च ४७८, १।४।५१

अकथितञ्च। केनाऽकथितमित्याकाङ्क्षायामाह---अपादानादिविशेषैरिति। अपादानं सम्प्रदानम् अधिकरणं कर्म करणं कर्ता हेतुरित्येतैर्विशेषैरित्यर्थः। अविवक्षितमिति। अपादानादिविशेषविवक्षायां तु--गोर्दोग्धि पयः। बलेर्याचते वसुधाम्। व्रजेऽवरुणद्धि गाम्--इत्येवं पञ्चम्यादय एव भवन्तीति भावः। एतेन "पाणिना कांस्यापात्र्यां दोग्धी"त्यत्र करणाधिकरणयोरतिप्रसङ्गः। तयोस्तु दण्डेन करोति, कटे तिष्ठतीत्यादिरवाकाशो दुहादिपरिगणना"दित्याक्षेपो निरस्तः। करणाधिकरणसञ्ज्ञयोरिह विवक्षितत्वात्। यदि तु सूत्रेऽकथितशब्दोऽप्रधानपर्यया न त्वनुक्तपर्यय इत्यभ्युपगम्येत, तदा स्यादेवाऽयमाक्षेपो न त्वन्यथा। कारकमिति। ततश्च "ब्राआहृणस्य पुत्रपृच्छती"त्यत्र नातिप्रसङ्गः। दुह्राजिति। "दण्ड दण्जनिपातने"चुरादिः। इह तु दण्डिग्र्रहणार्थो न तु निग्रहार्थः। प्रच्छीत्यागन्तुकेनेकारेण निर्देशो न त्विका, "ग्रहिज्ये"ति सम्प्रसारणप्रसङ्गात्। कर्मुयुगिति। कर्मणा युज्यते कर्मयुक्। "सत्सूद्विषे"त्यादिना क्विपे। कर्मणा यद्युज्यत इति। मुख्यकर्मणा सह क्रियया सम्बध्यमानं कारकमेवाऽपादानादिविसेषैरकथितं सत्कर्मसञ्ज्ञक भवतीत्यर्थः। एतेन दुहादीनां द्विकर्मकत्वं स्फोरितम्। अन्ये त्वाहुः---"कर्मयु"गित्यत्र कर्मशब्देन क्रियोच्यत इति। तेन क्रियान्वयीत्यर्थः। परिगणनमिति। तेन "नटस्य श्रणोति गाथा"मित्यादौ नातिप्रसङ्ग इति भावः। इह हि गाथाकर्मकं नटसम्बन्धि श्रवणं वाक्यार्थः। तेन क्रियान्वयित्वान्नटस्य कारकत्वमस्त्येव। गां दोग्धीति। पयःकर्मकं गोसम्बन्धि दोहनमर्थः। पयोऽत्र मुख्यं कर्म, कर्तुरूप्सिततमत्वात्। गौस्तु पयसो निमित्ततामात्रेणोपात्ता, न तु वस्तुसताऽप्यवधिभावेनेत्यपादानसञ्ज्ञाया अप्रवृत्तेरनेन कर्मसञ्ज्ञिका भवति। तदुक्तं हरदत्तेन---"यद्यपि गोरवधिभावो विद्यते, तथाप्यविवक्षिते तस्मिन्निमित्त मात्रविवक्षायामुदाहरणोपपत्ति"रिति। एतेनाऽवधित्वविवक्षायां गोरिति पञ्चम्येवेति स्पष्टम्। यदा तु गौरित्येतत्पयसा सम्बध्यते तदा गोशब्दात्षष्ठ()एव भवतीत्यपि बोध्यम। यत्तु प्राचा--दुह्राच्यर्थरुधिप्रच्छिचिब्राऊशासुजिकर्मयुक्। नीह्मकृष्मन्थवह्दण्डग्रहमुष्पचिकर्मभाक्िति पठितं, तत्र ग्रहेः पाठोऽप्रामाणिकः। इतरेषां तु द्विकर्मकत्वं यद्यपि प्रामाणिकं, तथापि सन्दर्भाऽशुद्धिः। तथाहि दुह्रादीन्न्यादीश्च द्वैराश्येन पठित्वा भावकर्मप्रकियाशेषे "लकृत्यक्तखलर्थाः किं द्विकर्मकेभ्यो मुख्ये कर्मणि स्युर्गौणे वा"इत्याशङ्कायां स्वयमेव पठितं---" न्यादयो ण्यन्तनिष्कर्मगत्यर्था मुख्यकर्मणि। प्रत्ययं यान्ति दुह्रादिर्गौणेऽन्ये तु यथारुचि"इति। एवञ्च दण्डिमन्थिभ्यामपि मुख्ये स्यात्। न चेष्टापत्तिः। "गर्गाः शतं दण्ड()न्ता"मिति भाष्यविरोधात्। शतं ह्रत्र प्रधानां न तु गर्गाः, "अर्थिनश्च राजानो हिरण्येन भवन्ति"इति वाक्यशेषात्। दण्डिरत्र ग्रहणार्थो न तु निग्रहार्थ इत्युक्तम्। अतएवाऽत्र समुदाये वाक्यपरिसमाप्तिः, गुणानुरोधेन प्रधानवृत्तेरसम्भवात्। तथा मन्थेरपि प्रधाने स्यात्, इष्यते तु गौणे। तथा च भारविः---"येनापविद्धिसलिलस्फुटनागसद्मा देवासुरैरमृतमम्बुनिधर्ममन्थे"इति। अत्राऽमृतं मुख्यम्--उद्देश्यत्वात्, अम्बुनिधिस्तु गौणः। बलिं याचत इति। अत्र प्रार्थनार्थस्य याचेर्वसुधा मुख्यं कर्म, तेन युक्तो बलिर्वस्तुतोऽवधिरपि तदविवक्षायामनेन कर्म भवति। अविनीतमिति। अनुनयार्थस्य याचेरविनीतो मुख्यं कर्म, अविनीतं विनयायाऽनुनयतीत्यर्थः। विनयस्य तादथ्र्याविवक्षायाम् "अकथितञ्चे"ति कर्मसञ्ज्ञा। तण्डुलानिति। निर्वर्तनार्थस्य पचेरोदनो मुख्यं कर्म, ओदनं निर्वर्तयतीत्यर्थः। तण्डुलास्तु करणत्वाऽविवक्षायामकथितं कर्म। अन्ये त्वाहुः---"द्यर्थः पचिः"इति भाष्यापर्यालोचनया "तण्डुनोदनं पचती"त्यस्य तण्डुलान्विक्लेदयन्नोदनं निर्वर्तयतीत्यर्थः। दुह्रादिषु पचेः परिगणनमप्रामाणिकं, भाष्यकैयटयोरनुक्तत्वादिति। गर्गानिति। ग्रहणार्थस्य दण्डेः शतं कर्म, गर्गास्त्वपादानत्वाऽविवक्षायामकथितं कर्म। व्रजमिति। अत्र गौर्मुख्यं कर्म, व्रजं त्वधिकरणत्वाऽविवक्षायाम् "अकथितञ्च"इति कर्म भवति। एवमग्रेऽप्यूह्रम्। अर्थनिबन्धनेति। न तु स्वरूपाश्रया, "अहमपीदमचोद्यं चोद्ये"इति "तद्राज"सूत्रभाष्ये पृ()च्छिपर्यायस्य चुदेरपि द्विकर्मकत्वदर्शमादिति भावः। अएतएव "स्थातुं रणे स्मेरमुखो जगाद मारीचमुच्चैर्वचनं महार्थ"मिति भट्टिः प्रायुङ्क्ता। एवच्च नाथत्यादयो बहवो द्विकर्मका ज्ञेयाः। स्यादेतत्----यद्यर्थनिबन्धनेयं सञ्ज्ञा तर्हि नीवहियोरन्यतरो न पठनीयः, उभयोरप्येकार्थत्वादिति चेत्सत्यम्। भारं वहति, भारं नयतीत्यत्र यदि विलक्षणोऽर्थोऽनुभूयते, तदा द्वयमपि पठनीयमेव, यदि तु नानुभूयते तह्र्रन्यतरो न पठनीयः, उभयथापि लक्ष्यस्य निर्बाधत्वात्। अत्र वदन्ति---"जग्राह द्युतरु शक्रम्ित्युदाहरणमप्ययुक्तमिति मनोरमोक्तं चिन्त्यमेव। सञ्ज्ञाया अर्थनिबन्धनत्वाद्दण्डेग्र्रहणार्थत्वाच्चेति। बलिं भिक्षत इति। "भिक्ष मिक्षायामलाभे लाभे च"। भिक्षते याचत इत्यर्थः।

अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्बा च कर्मसञ्ज्ञक इति वाच्यम्। देश इति। कुरुपञ्चालादिरेवेह गृह्रते, तेन "अधिसीङ्स्थासां क्रम"इत्यस्य न वैयथ्र्यम्, अधिपूर्वाणामेवाषामाधारः कर्मेति नियमार्थत्वाभ्युपगमेऽपि वैकुण्ठे वर्तते इत्यादिष्वतिप्रसङ्गः स्यादेवेत्याशयेन तथैवोदाहरति--कुरूनिति। गोदोहमिति। न चेह कालत्वात्सिद्धिः, लोके कालत्वेन प्रसिद्धस्य मासादेरेव कालशब्देन ग्रहणात्। तेन "घटमास्ते" इत्यादि न भवति, जन्यमात्रं कालोपाधिरिति घटादेरपि कालत्वात्। यत्तु प्राचा "अकर्मकधातु भिर्योगे देशकालाध्वभावेभ्यो द्वितीयेति केचि"दित्युक्त्वा "नदीमास्त" इत्युदाह्मतम्। तदसङ्गतम्। "ग्रामसमूहः कुर्वादिरेव देशो गृह्रते, न तु प्रदेश मात्रम्, तेन ग्रामं स्वपितीति न भवति"त्याकरात्। अध्वेति च न्यनम्, अध्वानं स्वपिती"त्यस्यापि प्रसङ्गात्। अतएव आकरेऽध्वा गन्तव्यत्वेन विशेषितः। गन्तव्यत्वेन प्रसिद्धो नियतपरिमाणः क्रोशादिरिति च व्याख्यातम्। द्वितीयेत्यप्यसङ्गतम्, कर्मसञ्ज्ञाया अव्ह्तत्वात्कर्मणि लादयो न स्युरित्यास्यते मास इत्यीदिप्रयोगाऽभावप्रसङ्गात्। "केचि"दित्युक्तिस्तन्मतदौर्बल्यसूचनायेति कथञ्च#इद्()व्याख्याय पूर्वोक्तदोषपरिहारेऽपि नदीमास्त इत्युदाहरणस्याऽसाङ्गत्यदोषस्तदवस्थ एवेति ध्ययम्।