पूर्वम्: १।४।६२
अनन्तरम्: १।४।६४
 
प्रथमावृत्तिः

सूत्रम्॥ भूषणेऽलम्॥ १।४।६३

पदच्छेदः॥ भूषणे ७।१ अलम् गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
भूषने ऽलम् १।४।६४

अलम् इति प्रतिषेधे, सामर्थ्ये, पर्याप्तौ, भूषणे च इति विशेषनम् उपादीयते। भूवणे यो ऽलंशब्दः स गतिसंज्ञो भवति। अलङ्कृत्य। अलङ्कृतम्। यदलङ्करोति। भूषणे इति किम्? अलं भुक्त्वा ओदनं गतः।
न्यासः
भूषणेऽलम् , १।४।६३

"अलं कृत्वा" इति। पर्याप्ताविहालंशब्दो वत्र्तते।
बाल-मनोरमा
भूषणेऽलम्। ७५५, १।४।६३

भूषणेऽलम्। भूषणे विद्यमानमलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। अलंकृत्येति। कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः। भूषणे विद्यमानमलमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। अलंकृत्येति। कटकादिधारणेन परिष्कारं कृत्वेत्यर्थः। कृञ्विषयेति। कृञ्योग एव भवतीत्यर्थः। वस्तुतस्तु सङ्कोचे प्रमाणाऽभावाद्धात्वन्तरयोगेऽपि त्रिसूत्रीप्रवृत्तिर्युक्ता। अत एव "अलं भुक्त्वा ओदनं गत" इति वृत्तिकृता प्रत्युदाह्मतम्।