पूर्वम्: १।४।६३
अनन्तरम्: १।४।६५
 
प्रथमावृत्तिः

सूत्रम्॥ अन्तरपरिग्रहे॥ १।४।६४

पदच्छेदः॥ अन्तः अपरिग्रहे ७।१ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
अन्तरपरिग्रहे १।४।६५

अन्तःशब्दो ऽपरिग्रहे ऽर्थे गतिसंज्ञो भवति। परिग्रहः स्वीकरणम्। तदभावे गतिसंज्ञा विधीयते। अन्तर्हत्य। अन्तर्हतम्। यदन्तर्हन्ति। अपरिग्रहे इति किम्? अन्तर्हत्वा भूषिकाम् श्येनो गतः। परिगृह्य गतः इत्यर्थः। अन्तःशब्दस्य अङ्किविधिणत्वेषु उपसर्गसंज्ञा वक्तव्या। अन्तर्धा। अन्तर्धिः। अन्तर्णयति।
न्यासः
अन्तरपरिग्रहे , १।४।६४

अन्तःशब्दोऽयं मध्येऽधिकरणभूते वर्तते; परिग्रहे च। तत्र परिग्रहप्रतिषेधादिरत्र संज्ञा विधीयते।यस्त्वस्य स्वरादिषु पाठः, स परिग्रहेऽप्यव्ययसंज्ञार्थः। "अन्तर्हस्य" इति। मध्ये हत्वेत्यर्थः। "वा ल्यपि" ६।४।३८, इत्यनुनासिकलोपः। वक्तव्य इति व्याख्येय इत्यर्थः। व्याख्यानं तु पूर्वमेव कृतम्। "अन्तर्धा" इति। आतश्चोपसर्ग" ३।३।१०६ इत्यङ। "अन्तर्द्धिः" इति। "उपसर्गे घोः किः" ३।३।९२ इति किप्रत्ययः। "अन्तर्णयति" इति। "उपसर्गादसमासेऽपि" ८।४।१४ इति णत्वम्॥
बाल-मनोरमा
अन्तरपरिग्रहे ७५६, १।४।६४

अन्तरपरि। अपरिग्रहे वर्तमानमन्तरित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। हतं परिगृह्रेति। हत्वा गमनं हतमपरिगृह्र परिगृह्र वा भवति। तत्र आद्यमुदाहरणं, द्वितीयं प्रत्युदाहरणमित्यर्थः। अपरिग्रह इति प्रयोगोपाधिरेव, न तु वाच्यकोटिप्रविष्टम्।

तत्त्व-बोधिनी
अन्तरपरिग्रहे ६६७, १।४।६४

हतं परिगृह्रति। हत्वा गमनं द्विधा, हतं त्यच्त्वा परिगृह्र चेति। आद्यमुदाहरणं, द्वितीयं तु प्रत्युदाहरणम्।"अपरिग्रहे"इति च प्रयोगोपाधिः, नतु वाच्यकोटिनिविष्टमिति भावः।