पूर्वम्: १।४।६६
अनन्तरम्: १।४।६८
 
प्रथमावृत्तिः

सूत्रम्॥ अस्तं च॥ १।४।६७

पदच्छेदः॥ अस्तम् अव्ययम् १।१ ६६ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
अस्तं च १।४।६८

अस्तंशब्दो मकारान्तो ऽव्ययम् अनुपलब्धौ वर्तते। स गतिसंज्ञओ भवति। अस्तंगत्य सविता पुनरुदेति। अस्तंगतानि धनानि। यदस्तं गच्छति। अव्ययम् इत्येव, अस्तं काण्डम्। क्षिपतम् इत्यर्थः।
न्यासः
अस्तं च , १।४।६७

"अस्तंशब्दो मकारान्तोऽव्ययम्" इति। अव्ययमित्यत एव विशेषणोपादानससामथ्र्याददव्ययत्वं विज्ञेयम्। चादेशकृतिगणत्वाद्वा। "अस्तं कृत्वा काण्डं गतः" इति। "असु क्षेपणे" (धा।पा।१२०९), निष्ठा, पूर्ववदिट्प्रतिषेधः। चकारः "अव्ययम्" (१।४।क६७) इत्यस्यानुकर्षणार्थः। यद्येवम्,चानुकृष्टत्वादुत्तरत्र तस्यानुवृत्तिर्न स्यात्? उत्तरत्रापि चकारस्तदनुकर्षणार्थोऽनुवर्तिष्यत इत्यदोषः॥
बाल-मनोरमा
अस्तं च ७५९, १।४।६७

अस्तं च। पूर्वसूत्रादव्ययमित्यनुवर्तत इत्याह--मान्मव्ययमिति। अस्तङ्गत्येति। तिरोधानं प्राप्येत्यर्थः। अव्ययं किं?। काण्डमस्तं कृत्वा। प्रक्षिप्तं कृत्वेत्यर्थः। अच्छ गत्यर्थ। गत्यर्थधातुषु, वदधातौ च प्रयुज्यमानेषु अच्छेत्यव्ययं गतिसंज्ञं स्यात्।