पूर्वम्: १।४।७६
अनन्तरम्: १।४।७८
 
प्रथमावृत्तिः

सूत्रम्॥ प्राध्वं बन्धने॥ १।४।७७

पदच्छेदः॥ प्राध्वम् बन्धने ७।१ नित्यम् १।१ ? कृञि ७।१ ७१ गतिः १।१ ५९ क्रियायोगे ७।१ ५८ निपाताः १।३ ४६

काशिका-वृत्तिः
प्राध्वं वन्धने १।४।७८

कृञि इति वर्तते। प्राध्वम् इति मकारान्तम् अव्ययमानुकूल्ये वर्तते। तदानुकूल्यं वन्धनहेतुकं यदा भवति तदा प्राध्वंशब्दः कृञि नित्यं गतिसंज्ञो भवति। प्राध्वंक्र्त्य। बन्ध्ने इति किम्? प्राध्वं कृत्वा शकटं गतः।
न्यासः
प्राध्वं बन्धने , १।४।७७

"बन्धने" इति निमित्तसप्तमीयम्। प्राध्वंशब्दस्यानुकूल्यवृत्तित्वात् "बन्धने" इत्यस्य विशेषणं नोपपद्यत इति सामथ्र्यात् तदर्थस्य विशेषणं विज्ञायत इत्यत आह-- "तदानुकूल्यम्" इत्यादि। बन्धनं हेतुर्यस्य तत्तथोक्तम्। "प्राध्वंकृत्य" इति। बन्धनेन निमित्तेनानुकूल्यं कृत्वेत्यर्थः। "प्राध्वं कृत्वा" इति। समर्थमध्वगमने शकटम्, अध्वाभिमुखं कृत्वेति गम्यते। "उपसर्गादध्वनः" ५।४।८५ इत्यच् समासान्तः। "नस्तद्धिते" ६।४।१४४ इति टुलोपः। प्रगतमध्वानमिति प्रादिसमासः। लक्षमप्रतिपदोक्तपरिभाषयैवात्र (व्या।पा।३) प्राप्तौ सिद्धायां लाक्षणिकोऽपि प्राध्वंशब्दो यत्र बन्धनेनाभिसम्बध्यते, तत्रापि गतिसंज्ञा भवतीति ज्ञापनार्थं बन्धनग्रहणम्। तेन यदा बन्धनेनैव शकटस्याध्वनि सामथ्र्यादध्वाभिमुखता विवक्ष्यते, तदा प्राध्वंकृत्य शकटं गतमित्येतदपि सिद्धं भवति॥
बाल-मनोरमा
प्राध्वं बन्धने ७६९, १।४।७७

प्राध्वं बन्धने। प्राध्वमिति न द्वितीयान्तमित्याह--प्राध्वमित्यव्ययमिति। बन्धने गम्ये प्राध्वमित्यव्ययं गतिसंज्ञकं स्यादित्यर्थः। प्राध्वङ्कृत्येति। गतिसमासे क्त्वे ल्यप्। अत्र प्राध्वमिति मान्तमव्ययं बन्धनेन आनुकूल्ये वर्तते। तदाह--बन्धनेनेति। बन्धनग्रहणस्य प्रयोजनमाह--प्रार्थनादिनेति।