पूर्वम्: २।१।२१
अनन्तरम्: २।१।२३
 
प्रथमावृत्तिः

सूत्रम्॥ द्विगुश्च॥ २।१।२२

पदच्छेदः॥ द्विगुः १।१ तत्पुरुषः १।१ २१

काशिका-वृत्तिः
द्विगुश् च २।१।२३

द्विगुश्च समासः तत्पुरुशसज्ज्ञो भवति। द्विगोस् तत्पुरुशत्वे समासान्ताः प्रयोजनम्। पञ्चराजम्। दशराजम्। द्व्यहः। त्र्यहः। पङ्चगवम्। दशगवम्।
लघु-सिद्धान्त-कौमुदी
द्विगुश्च ९२६, २।१।२२

द्विगुरपि तत्पुरुषसंज्ञकः स्यात्॥
न्यासः
द्विगुश्च। , २।१।२२

"समासान्ताः प्रयोजनम्" इति। "तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः" ५।४।८६ इत्यतस्तत्पुरुष इत्यनुवत्र्तमाने "राजाहःसखिभ्यष्टच्" ५।४।९१ "गोरतद्धितलुकि" ५।४।९२ इति च द्विगोरपि यथा स्यात्। "पञ्चराजी" इति। पञ्चानां राज्ञां समाहार इति "तद्धितार्थोत्तरपदसमाहारे च" २।१।५० इति समासः। "संख्यापूर्वो द्विगुः" २।१।५१ इति द्विगुसंज्ञा, टच्, "नस्तद्धिते" ६।४।१४४ इति टिलोपः "अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते" (वा।१५६) इति स्त्रीलिङ्गता, "द्विगोः" ४।१।२१ इति ङीप्। "द्वह्रहः, त्र्यहः" इति। "अह्नष्टखोरेव" ६।४।१४५ इति टिलोप), "रात्रह्नाहाः पुंसि"२।४।२९ इति पुंस्त्वम्। "पञ्चगवम्" इति। "स नपुंसकम्" २।४।१७ इति नपुंसकत्वम्। सत्यप्यकारान्तत्वे स्त्रीत्वं न भवति; "पात्रादीनां प्रतिषेधो वक्तव्यः" (वा।१।५।९) इति वचनात्॥
बाल-मनोरमा
द्विगुश्च ६७७, २।१।२२

द्विगुश्च। द्विगुरपीति। "तद्धितार्थोत्तरपदसमाहारे च" इति वक्ष्यमाणसमासस्य "संख्यापूर्वो द्विगु"रिति द्विगुसंज्ञा विधास्यते। स द्विगुसमासोऽपि तत्पुरुषसंज्ञक इति यावत्। एतत्सूत्राऽभावे एकसंज्ञाधिकाराद्द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेति भावः। इदमिति। "द्विगुश्चे"त्येतदित्यर्थः। तर्हि द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्यत आह--संख्येति। "संख्यापूर्वोद्विगु"रिति द्विगुसंज्ञाविधायकं सूत्रम्। तत्र चकारः पठनीयः। ततश्च संख्यापूर्वसमासो द्विगुसंज्ञकस्तत्पुरुषसंज्ञकश्च स्यादिति लभ्यते। एवञ्च चकारेण लघुना तत्पुरुषसंज्ञासमुच्चयलाभा"द्द्विगुश्चे"ति गुरुभूतं सूत्रं न कर्तव्यमित्यर्थः। ननु मास्तु द्विगोस्तत्पुरुषत्वमित्यत आह--समासान्तः प्रयोजनमिति। तदुदाह्मत्य दर्शयति - पञ्चराजमिति। पञ्चानां राज्ञां समाहार इति विग्रहे "तद्धितार्थे"ति द्विगुः। तस्य तत्पुरुषत्वाद्राजाहःसखिभ्यष्टजि"ति टच्। "स नपुंसक"मिति नपुंसकत्वम्। "अकारान्तोत्तरपदो द्विगुः स्त्रिया"मिति तु न भवति, समासान्तस्य टचः समुदायावयवत्वेन उत्तरपदावयवत्वाऽभावात्। न च "संख्यापूर्वोद्विगुश्चे"ति पाठे द्विगुतत्पुरुषसंज्ञयोः पर्यायेण प्रवृत्तिः स्यात्, अतः समुच्चयार्थं "द्विगुश्चे"ति पृथक्सूत्रमस्त्विति वाच्यम्, "सङ्ख्यापूर्व" इति, "द्विगु"रिति च योगौ विभज्य पूर्वेण सङ्ख्यापूर्वस्य तत्पुरुषसंज्ञाविधिः, द्विगुरित्यनेन द्विगुसंज्ञाविदिरित्याश्रयणे सति, चकारमन्तरेणापि पर्यायेण प्रवृत्तिसिद्ध्या चकारस्य समुच्चयार्थत्वोपपत्तेः।

तत्त्व-बोधिनी
द्विगुश्च ५९८, २।१।२२

चकारबलेन संज्ञाद्वयसमावेशस्येति। न चैवं द्विगुतत्पुरुषयोः पर्यायता स्यादिति शङ्क्यम्। योगं विभज्य संख्यापूर्स्य तत्पुरुषसंज्ञां विधाय पश्चद्द्विगुसंज्ञाविधाने चकारपठनमन्तरेणापि पर्यायत्वसिद्धेः। नापि द्वौ अन्यौ यस्य "द्य्वन्य" इत्यत्रातिप्रसङ्गः शङ्क्यः, "तद्धितार्थोत्तरपदे"ति सूत्रमनुवर्त्त्य "तद्धितार्थेत्यत्रोक्तस्त्रिविधः सङ्ख्यापूर्व" इति व्याख्यानात्। द्विगोस्तत्पुरुषत्वे फलमाह---समासान्त इति। टजचावित्यर्थः। अचि तूदाहरणं--"तत्पुरुषत]स्याङ्गुले"रित्यचि व्द्यङ्गुलमिति बोध्यम्। पञ्चराजमिति। समाहारद्विगौ "राजहःसखिभ्यः"इति टच्। समास स्यैवायमन्तावयव इति उत्तरपदस्याऽनकारान्तत्वात् स्त्रीत्वाऽभावः। "समासार्थोत्त्रपदान्ताः समासान्ता" इति पक्षे तु अकारान्तोत्तरपदत्वेऽपि पात्रादित्वान्नेति बोध्यम्। काशिकायां तु पञ्चराजीत्युदाह्मतम्। स क्वाचित्कोऽपपाठ इति हरद्त्तः। अत्र केचित्--पात्रादित्वकल्पने मानाऽभावात्पञ्चराजीति काशिकोक्तोदाहरणमपि सम्यगेवेत्याहुः।