पूर्वम्: २।१।२४
अनन्तरम्: २।१।२६
 
प्रथमावृत्तिः

सूत्रम्॥ खट्वा क्षेपे॥ २।१।२५

पदच्छेदः॥ खट्वा १।१ क्षेपे ७।१ क्तेन ३।१ २४ द्वितीया १।१ २३ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
खट्वा क्षेपे २।१।२६

खट्वाशब्दो द्वितीयान्तः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति। क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषा ऽधिकारे ऽपि नित्यसमास एव अयम्। न हि वक्येन क्षेपो गम्यते। खट्वारोहणं च इह विमार्गप्रस्थानस्य उपलक्षनम्। सर्व एव अविनीतः खट्वारूढः इत्युच्यते। खट्वारुढो जाल्मः। खट्वाप्लुतः। अपथप्रस्थितः इत्यर्थः। क्षेपे इति किम्? खट्वामारूढः।
न्यासः
खट्वा क्षेपे। , २।१।२५

"स च" इत्यादि। एवकारेण वाक्यार्थतां क्षेपस्य निरस्यति। स्यादेतत्-- वाक्यार्थोऽपि क्षेपः; तेन वाक्यमपि भविष्यतीत्याह-- "न हि" इत्यादि। वाक्येन हि क्रियाकारकसम्बन्धमात्रं गम्यते, न तु क्षेपः। "खट्वारोहणञ्च" इत्यादि। विरुद्धो मार्गः = विमार्गः,तेन प्रस्थानम् = गमनम्। अधीत्य स्नात्वा गुरुणाभ्यनुज्ञातेन खट्वाऽरोढव्या। यत्त्वन्यथा खट्वारोहणं तद्विमार्गप्रस्थनम्। न तु खट्वारोहणमेव। इह च "खट्वारूढः" इत्यादौ खट्वारोहणं विमार्गप्रस्थानस्योपलक्षणं वेदितव्यम्। किं पुनः कारणमेव विज्ञायत इत्याह-- "सर्व एव" इत्यादि। आरूढ इत्याङपूर्वस्य रुहेः क्तप्रत्यये ढत्वधत्वष्टुत्वढलोपदीर्घेषु कृतेषु रूपम्। जाल्म इत्ययुक्तकारीत्यर्थः।
बाल-मनोरमा
खट्वा क्षेपे ६७९, २।१।२५

खट्वा क्षेपे। क्तेनेत्यनुवर्तते। प्रत्ययग्रहणात्तदन्तविधिः। क्षेपो निन्दा। द्वितीयेति सुपेति चानुवर्तते। तदुभयमपि प्रत्ययग्रहणपरिभाषया तदन्तपरं सत्प्रकृतिप्रत्ययसमुदायपरम्। खट्वाशब्दस्य क्तान्तशब्दस्य च सुब्घटितसमुदायात्मकत्वाऽसंभवादत्र खट्वाशब्दः क्तप्रत्ययान्तशब्दश्च तत्प्रकृतिके लाक्षणिक इत्याह-खट्वाप्रकृतिकमिति। खट्वारूढौ जाल्म इति। "जाल्मोऽसमीक्ष्यकारी"त्यमरः। खट्वा अम्-आरूढ स् इत्यलौकिकविग्रहः। लौकिकविग्रहस्तु नास्तीत्याह-नित्यसमासोऽयमिति। तत्कुत इत्य आह--न हि वाक्येनेति। वृत्त्यर्थबोधकं वाक्यं-लौकिकविग्रहः। तत्र खट्वामारूढ इति वाक्यं हि गृहस्थाश्रमिणि निन्दां न गमयति। "खट्वा रूढ" इति समासस्तु रूढ()आ निन्दां गमयति। तथाच भाष्यम्--"अधीत्य रुआआत्वा गुर्वनुज्ञातेन खट्वा आरोढव्या। यस्तावदन्यथा करोति स "खट्वारूढोऽयं जाल्म"इत्युच्यते" इति। अत्र "जाल्य" इत्यनेनोद्वृत्तेऽयं शब्दो रूढः अवयवार्थे तु नाभिनिवेष्टव्यमिति सूचितम्।

तत्त्व-बोधिनी
खट्वा क्षेपे ६०१, २।१।२५

खट्वारूढ इति। "जाल्मोऽसमीक्ष्यकारी स्यात्" इत्यमरः। वेदं व्रतानि च समाप्य समावृत्तेन हि खट्वारोढव्या। ब्राहृचर्य एव भूमिशयमार्होऽपि यः खट्वामारोहति स जाल्मः। रूढश्चायम्। तेन खट्वामारोहतु मा त।]वा, निषिद्धानुष्ठानपरः सर्वोऽपि खट्वारूढ इत्युच्यते। अत एवाह--नित्येति।