पूर्वम्: २।१।२६
अनन्तरम्: २।१।२८
 
प्रथमावृत्तिः

सूत्रम्॥ कालाः॥ २।१।२७

पदच्छेदः॥ कालाः १।३ २८ क्तेन ३।१ २४ द्वितीया १।१ २३ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
कालाः २।१।२८

द्वितीया क्तेन इति वर्तते। कालवाचिनः शब्दाः द्वितीयान्ताः क्तान्तेन सह समस्यन्ते विभाष, तत्पुरुषश्च समासो भवति। अन्त्यन्तसम्योगार्थं वचनम्। कालाः इति न स्वरूपविधिः। षण्मुहूर्ताश्चराचराः, ते कदाचितहर्गच्छन्ति कदाचित् रात्रिम्। अहरतिसृता मुहूर्ताः अहःसङ्क्रान्ताः। रात्र्यतिसृता मुहूर्ताः रात्रिसङ्क्रान्ताः। मासप्रमितश्चन्द्रमाः। मासं प्रमातुमारब्धः प्रतिपच्चन्द्रमाः इत्यर्थः।
न्यासः
कालाः। , २।१।२७

"चराचराः" इति। अनत्यन्तसंयोगप्रतिपादनार्थम्। चरन्ति भ्रमन्तीति चराचराः, अनवस्थिता इत्यर्थः। "चरिचलिपतिवदीनमच्याक्चाभ्यासस्य" (वा।६५८) इति चरेः पचाद्यचि द्विर्वचनमभ्यासस्याक्चागमश्च। "कदाचिदहर्गच्छन्ति" इत्युत्तरायणे। "कदाचिद्रात्रिम्" इति दक्षिणायने। एतेन तदेवानवस्थितत्वं व्यक्तीकुर्वन्नह्नो रात्रेश्च तैर्मुहूर्तैरनत्यन्तसंयोगमाचष्टे। "अहरतिसृताः" इति। "रोऽसुपि" ८।२।६९ इत्यह्नो नकारस्य रेफः। "अहः संक्रान्ताः" इति। "क्रमु पादविक्षेपे" (धा।पा।४७३),पूर्वपदिट्प्रतिषेधः। "अनुनासिकस्य क्विझलोः" ६।४।१५ इति दीर्घः। "मासप्रमितः" इति। "माङ माने" (धा।१०८८), "आदिकर्मणि कत्र्तरि च" ३।४।७१ इति कत्र्तरि निष्ठा। "द्यतिस्यति" ७।४।४० इत्यादिनेत्त्वम्। "मासं प्रमातुमारब्धः" इति। मासस्यैकदेशस्य प्रतिपदश्चन्द्रमसा योगं दर्शयन् मासस्य तेनात्यन्तसंयोगमाचष्टे। कालस्य हि कृत्स्नस्य स्वेन सम्बन्धिना व्याप्तिः = अत्यन्तसंयोगः। न च प्रतिपच्चन्द्रमा मासस्येह व्याप्तिः = संयोगोऽस्तीति नेहात्यन्तसंयोगः।
बाल-मनोरमा
कालाः ६८१, २।१।२७

कालाः। क्तेनेत्येवेति। क्तेनेत्यनुवर्तत एवेत्यर्थः। कालवाचिप्रकृतिकद्वितीयान्ताः क्तप्रत्ययान्तप्रकृतिकसुबन्तेन वा समस्यन्त इत्यर्थः। ननु "अत्यन्तसंयोगे चे"त्युत्तरसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह--अनत्यन्तेति। मासप्रमिति इति। मासं प्रमित इति विग्रहः। प्रपूर्वकान्माधातोरादिकर्मणि क्तः कर्तरि चेति कर्तरि क्तः। तदाह--मासं परिच्छेत्तुमिति। इह प्रतिपच्चन्द्रेण मासस्य नात्यन्तसंयोग इति भावः।

तत्त्व-बोधिनी
कालाः ६०३, २।१।२७

कालाः। बहुवचननिर्देशः स्वरूपनिरासार्थः। "कालवाचिनो द्वितीयान्ताः क्तान्तेन सह वा समस्यन्त" इति सूत्रार्थः। ननु "काला अत्यन्तसंयोगे"इत्येवास्तु क्तेनेति निवृत्तम्, नार्थो योगविभागेनेत्यत आह--अनत्यन्तेति। मासप्रमति इति। "माङ्माने"। आदिकर्मणि क्तः कर्तरि। इह प्रतिपञ्चन्द्रेण नास्त्यत्यन्तसंयोगः।