पूर्वम्: २।१।४६
अनन्तरम्: २।१।४८
 
प्रथमावृत्तिः

सूत्रम्॥ पात्रेसंमितादयश्च॥ २।१।४७

पदच्छेदः॥ पात्रेसंमितादयः १।३ क्षेपे ७।१ ४६ सप्तमी १।१ ३९ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
पात्रेसमिताऽदयश् च २।१।४८

समुदाया एव निपात्यन्ते। पात्रेसमिताऽदयः शब्दस् तत्पुरुषसंज्ञा भवन्ति क्षेपे गम्यमाने। ये च अत्र क्तान्तेन सह समासाः, तेषां पूर्वेन एव सिद्धे पुनः पाठो युक्तारोह्यादिपरिग्रहार्थः, पूर्वपदाद्युदात्तत्वं यथा सयातिति। युक्तरोह्यादिषु हि पात्रेसमितादयश्च इति पठ्यते। पात्रेसमिताः। पात्रेबहुलाः। अवधारणेन क्षेपो गम्यते, पात्रे एव समिता न पुनः क्वचित् कार्ये इति। उदुम्बरमशकादषु उपमया क्षेपः। मातरिपुरुषः इति प्रतिषिद्धसेवनेन। पिण्डीषूरादिषु निरीहतया। अव्यक्तत्त्वाच्चाकृतिगणो ऽयम्। पात्रेसमिताः। पात्रेबहुलाः। उदुम्बरमशकाः। उदरकृमिः। कूपकच्छपः। कूपचूर्णकः। अवटकच्छपः। कूपमण्डूकः। कुम्भमण्डूकः। उदपानमःडूकः। नगरकाकः। नगरवायसः। मातरिषुरुषः। पिण्डीषूरः। पितरिषूरः। गेहेशूरः। गेहेनर्दी। गेहेक्ष्वेडी। गेहेविजिती। गेहेव्याडः। गेहेमेही। गेहेदाही। हेहेदृप्तः। गेहेधृष्टः। गर्भेतृप्तः। आखनिकबकः। गोष्ठेशूरः। गोष्ठे विजिती। गोष्ठेक्ष्वेडी। गोष्ठेपटुः। गोष्ठेपण्डितः। गोष्ठेप्रगल्भः। कर्णेटिट्टिभः। कर्णेटिरिटिरा। कर्णेचुरचुरा। चकारो ऽवधारणार्थः, तेन समासान्तरं न भवति, परमपात्रेसमिताः इति।
न्यासः
पात्रेसमितादयश्च। , २।१।४७

"युक्तारोह्राविपरिग्रहार्थः" इति। युक्तारोह्रादिषु युक्तारोह्रादिभिर्वा परिगर्होऽर्थः प्रयोजनं यस्य पाठस्य स तथोक्कतः। किमर्थं पुनर्युक्तारोह्रादिषु परिग्रहस्तेषामिष्यत इत्याह-- "पूर्वपदाद्युदात्तत्वं यथा स्यात्" इति युक्तारोह्रादीनां हि "युक्तारोह्रादयश्च" ६।२।८१ इत्यनेन पूरवपदाद्युदात्तत्वं विधीयते। तत्र यदि ये क्तान्तास्ते न पठ()एरन्, तदा तेषामाद्युदात्तत्वं न स्यात्। कथं पुनः पात्रेसमितादयो युक्तारोह्रादिग्रहणेन गृह्रन्ते; यतस्तेषां विधीयमानमाद्युदात्तत्वं पात्रेसमितादीनमपि भवतीत्याह-- "युक्तारोह्रादिषु हि" इत्यादि। "उदुम्बरमशकादिषूपमया क्षेपः" इति। यस्तत्रैवावरुद्धो न क्वचिद्()गच्छति तमव विशिष्टचं मन्यते-- नास्मात्परमस्तीति, सोऽदृष्टविस्तार उच्यत उदुम्बरमशक इति। एवमन्यत्राप्यपमानात् क्षेपः। "प्रतिषिद्धसेवनेन" इति। यः कश्चित् प्रतिषिद्धमाचरति स "मातरिपुरुषः" इत्युच्यते। "निरीहतया" इति। यो न किञ्चित् कर्तुं समर्थः स "पिण्डीशूरः" इत्येवमादिभिः पदैरभिधीयते। "चकारोऽवधारणार्थः" इति। पात्रेसमितादय एव यता स्युः, यदन्यत् समासान्तरं तेषां प्राप्नोति तन्मा भूदिति। तेन परमपात्रेसमिता इत#इ "सन्महत्" २।१।६० इत्यादिना समासान्तरं न भवति॥
बाल-मनोरमा
पात्रेसमितादयश्च ७१५, २।१।४७

पात्रेसमितादयश्च। निपात्यन्त इति। कृतसमासादिकार्या एते शब्दा निर्दिश्यन्त इत्यर्थः। पात्रेसमिता इति। इण् गतौ। संपूर्वात् "गत्यर्थाकर्मके"ति कर्तरि क्तः। निपातनात्सप्तम्या अलुक्। भोजनपात्रे निहिते सति सङ्गता इत्यर्थः। फलितमाह--भोजनेति। गेहेशूर इति। गेह एव प्रकटितशौर्यो, न तु युद्ध इत्यर्थः। गेहेनर्दीति। "नर्द शब्दे" "सुप्यजातौ" इति णिनिः। समासे सति निपातनादलुक्। गेह एव गर्जति, युद्धादौ तु न प्रवर्तत इत्यर्थः। अवधारणार्थ इति। ततश्च एते यथा गणे पठितास्तथैव भवन्तीत्यर्थः। ततः किमित्यत आह--तेनेति। ततश्च परमाश्च ते पात्रेसमिताश्चेत्यादौ समासो न भवति।

तत्त्व-बोधिनी
पात्रे समितादयश्च ६३३, २।१।४७

पात्रेसमितादयश्च। संपूर्वादिणः क्तः। गेहेनर्दीति। "नर्द शब्देq"इत्यस्मात् "सुप्यजातौ---"इति णिनिः। घटकतया प्रवेशो नेति। "परमाः पात्रेसमिताः"इति वाक्यमेव भवति, न तु "सन्मह"दित्यादिना समासान्तरमिति भावः। एतच्च शब्दकौस्तुभे स्थितम्। अन्ये तु "कवलाः पात्रेसमिताः"इति वाक्यमेव, न तु "पूर्वकालैके"त्यादिना समासान्तरमित्याहुः।