पूर्वम्: २।१।५९
अनन्तरम्: २।१।६१
 
प्रथमावृत्तिः

सूत्रम्॥ सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः॥ २।१।६०

पदच्छेदः॥ सन्महत्परमोत्तमोत्कृष्टाः १।३ पूज्यमानैः ३।३ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
सन्महत्परमौत्तमौत्कृष्टाः पूज्यमानैः २।१।६१

सत् महत् परम उत्तम उत्कृष्ट इत्येते पूज्यमानैः सह समस्यन्ते, तत्पुरुषश्च समासो भवति। पूज्यमानैः इति वचनात् पूजावचनाः सदादयो विज्ञायन्ते। सत्पुरुषः। महापुरुषः। परमपुरुषः। उत्तमपुरुषः। उत्कृष्टपुरुषः। पूज्यमानैः इति किम्? उत्कृष्टो गौः कदर्मात्।
बाल-मनोरमा
सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ७३०, २।१।६०

सन्महत्परम। "समानाधिकरणैः समस्यन्ते स तत्पुरुषः" इति शेषः। सद्वैद्य इति। सन्-वैद्य इति विग्रहः। चिकित्साशास्त्ररकूलङ्कषज्ञानवत्त्वं सत्त्वम्। तेन वैद्यस्य पूजा गम्यते। पूर्वनिपातनियमार्थं सूत्रम्। वक्ष्यमाणेनेति। महांश्चासौ वैयाकरणश्चेति विग्रहेऽनेन समासे सति महच्छब्दस्य "आन्महतः" इति वक्ष्यमाणेन आकारेऽन्तादेशे सवर्णदीर्घे "महावैयाकरण" इति भवतीत्यर्थः। ननूत्कृष्टो गौरित्यत्रोत्कृष्टशब्दस्याऽतिशयितवाचितया तेन गोः पूजावगमात्कथमिह समासो न भवतीत्यत आह--पङ्कादुद्धृत इत्यर्थ इति। उत्पूर्वकः कृषधातुरिहोद्धरणार्थक इति भावः। परमवैद्यः, उत्तमवैद्यः, उत्कृष्टवैद्यः। गुणक्रियाशब्दैः समासे सदादीनां पूर्वनिपातनियमार्थमिदं सूत्रम्।

तत्त्व-बोधिनी
सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ६४८, २।१।६०

सन्महत्। गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थं सूत्रम्। कतरकतमौ। जातिपरिप्रश्ने किम्()। कतरो देवदत्तः। "वा बहूनां जातिपरिप्रश्ने डतम"जिति व्युत्पादितकतमशब्दसाहचर्यातादृशास्यैव कतरशब्दस्यापि ग्रहणे सिद्धे जातिपरिप्रश्नग्रहणं ज्ञापयति "कतमश दोऽर्थान्तरेऽपिसाधुः"इति। तथा च प्रत्युदाह्मतं प्राचीनवृत्तिषु "कतरो भवतोर्देवदत्तः, कतमो भवतां देवदत्तः"इति।