पूर्वम्: २।१।६०
अनन्तरम्: २।१।६२
 
प्रथमावृत्तिः

सूत्रम्॥ वृन्दारकनागकुञ्जरैः पूज्यमानम्॥ २।१।६१

पदच्छेदः॥ वृन्दारकनागकुञ्जरैः ३।३ पूज्यमानम् १।१ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
वृन्दरकनागकुञ्जरैः पूज्यमानम् २।१।६२

वृन्दारक नाग कुञ्जर इत्येतैः सह पूज्यमानवाचि सुबन्तं समस्यते, तत्पुरुषश्च समासो भवति। पूज्यमानम् इति वचनात् पूजावचना वृन्दारकाऽदयो गृह्यन्ते। गोवृन्दारकः। अश्ववृन्दारकः। गोनागः। अश्वनागः। गोकुञ्जरः। अश्वकुञ्जरः। पूज्यमानम् इति किम्? सुषीमो नागः।
न्यासः
वन्दारकनागकुञ्जरैः पूज्यमानम्। , २।१।६१

वन्दारकादयो जातिशब्दाः। ते चोपमानत्वे सति पूजावचना भवन्ति। तत्र व्याघ्रादेराकृतिगणत्वात् "उपमितं व्याघ्रादिभिः" २।१।५५ इत्येवं सिद्धे समान्यप्रयोगगेऽपि यथा स्यादित्येवमर्थोऽयमारम्भः। ""पूज्यमानम्" इति वचनाद्वृन्दारकादयः पूजावनचना गृह्रन्ते" इति। न ह्रन्यथा पूज्यमानत्वमुपपद्यत इति भावः। "सुषीमो नागः" इति। ननु च विशेषणं विशेष्येणेति वत्र्तते। न च नागादन्यः सुषीमोऽस्ति, संज्ञा ह्रेषा नागस्यैव? एवं तर्हि प्रत्युदाहरणदिगियं वृत्तिकृता दर्शिता।इदन्त्वत्र प्रत्युदाहरणम्--देवदत्तो नागो यस्मान्मूर्ख इति॥
बाल-मनोरमा
वृन्दारकानागकुञ्जरैः पूज्यमानम् ७३१, २।१।६१

वृन्दारकनाग। "समानाधिकरणैः समस्यते" इति शेषः। विशेषणसमासेनैव सिद्धे विशेष्यस्य पूर्वनिपातनियमार्थं सूत्रम्। गोवृन्दारक इति। वृन्दारकशब्दो देवतावाची। "अमरा निर्जरा देवाः" इत्युपक्रम्यं, "वृन्दारका दैवतानी"त्यमरः। गौर्वृन्दारक इवेति विग्रहः। गौर्नाग इव गोनागः। गौः कुञ्जर इव गोकुञ्जरः। नागशब्दः कुञ्जरशब्दश्च गजवाची। अत्र गौर्वृन्दारादितुल्यत्वात् श्रैष्ठ()ं गम्यत इति पूज्यमानता। ननु व्याघ्रादेराकृतिगणत्वात् "उपमितं व्याघ्रादिभि"रित्येव सिद्धे किमर्थमिदमित्यत आह--व्याघ्रादेरिति। सामान्येति। गोकुञ्जरः श्रेष्ठ इत्यादिविति भावः।