पूर्वम्: २।१।६२
अनन्तरम्: २।१।६४
 
प्रथमावृत्तिः

सूत्रम्॥ किं क्षेपे॥ २।१।६३

पदच्छेदः॥ किं १।१ क्षेपे ७।१ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
किं क्षेपे २।१।६४

किम् इत्येतत् क्षेपे गम्यमाने सुपा सह समस्यते ततुरुषश्च समासो भवति। किंराजा, यो न रक्षति। किंसखा, यो ऽभिद्रुह्यति। किंगौः, यो न वहति। किमः क्षेपे ५।४।७० इति समासान्तो न भवति। क्षेपे इति किम्? को राजा पाटलिपुत्रे।
न्यासः
किं क्षेपे। , २।१।६३

"किंसखा" इति। "अनङ सौ" ७।१।९३ इत्यनङादेशः। अथ किंराजेत्यादौ "राजाहः सखिभ्यष्टच्" ५।४।९१ "गोरतद्धितलुकि" ५।४।९२ इति टच् समासान्तः कस्मान्न भवतीत्याह-- "किमः क्षेपे" इत्यादि। अत्र "न पूजनात्" ५।४।६९ इत्यतः "न" इत्यनुवत्र्तते॥
बाल-मनोरमा
किं क्षेपे ७३३, २।१।६३

किं क्षेपे। क्षेपो निन्दा। तत्रगम्ये किमित्यव्ययं समानाधिकरणेन समस्यते स तत्पुरुष इत्यर्थः। कुत्सितो राजेति। अस्वपदविग्रहोऽयम्। किम्पदस्थाने कुत्सिदपदमिति ज्ञेयम्, वाक्येन निन्दानवगमेन स्वपदलौकिकविग्रहाऽसम्भवात्। किंराजेति। "राजाहःसखिभ्यः" इति टच् तु न, "किमः क्षेपे" इति निषेधात्। ननु राज्ञो बहुसम्पत्तिशालिनः कथं कुत्सितत्वमित्यत आह--यो न रक्षतीति। स किराजेत्यन्वयः।

तत्त्व-बोधिनी
किं क्षेपे ६४९, २।१।६३

किं क्षेपे। किंराजेति। "किमः क्षेपे"इति समासान्तनिषेधः। क्षेपे किम्()। को राजा पाटलिपुत्रे। एवं "किंसखा यो दहति" "किंगौर्यो न वहति" इत्यप्युदाहरणं बोध्यम्।