पूर्वम्: २।१।६८
अनन्तरम्: २।१।७०
 
प्रथमावृत्तिः

सूत्रम्॥ कुमारः श्रमणाऽ‌ऽदिभिः॥ २।१।६९

पदच्छेदः॥ कुमारः १।१ श्रमणाऽ‌ऽदिभिः ३।३ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
कुमारः श्रमणाऽअदिभिः २।१।७०

कुमारशब्दः श्रमणाऽअदिभिः सह समस्यते, तत्पुरुषश्च समासो भवति। ये ऽत्र स्त्रीलिङ्गाः पठ्यन्ते, श्रमणा, प्रव्रजिता, कुलटा इत्येवम् आदयः, तैः सह स्त्रीलिङ्गः एव कुमारशब्दः समस्यते। ये तु पुंलिङ्गाः, अध्यापकः, अभिरूपकः, पण्डितः इति, तैरुभयथा, प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् इति। कुमारी श्रमणा कुमारश्रमणा। श्रमना। प्रव्रजिता। कुलटा। गर्भिणी। तापसी। दासी। बन्धकी। अध्यापक। अभिरूपक। पण्डित। पटु। मृदु। कुशल। चपल। निपुण।
न्यासः
कुमारः श्रमणादिभिः। , २।१।६९

"तैः सह स्त्रीलिङ्ग एव कुमारीशब्दः समस्यते" इति। न तु पुंल्लिङ्ग इत्यवधारणेन दर्शयति। न हि पुंल्लिङ्गस्य स्त्रीलिङ्गेन सामानाधिकरण्यमुपपद्यत इति भावः। "तैरुपभयथा" इति। स्त्रीलिङ्गः, पुंल्लिङश्च। कथं पुनः पुंल्लिङ्गैः समास उच्यमानः स्त्रीलिङ्गैः स्यादित्यत आह-- "प्रातिपदिकग्रहणे" इति। गतार्थम्॥
तत्त्व-बोधिनी
कुमारः श्रमणादिमिः ६५७, २।१।६९

एतदेवेत्। एलकारः स्फुटसिद्धतच्वद्योतनार्थो, न त्ववधारणार्थः, "युवा खलती"ति सूत्रे जरतीग्रहणस्यापि ज्ञापकत्वसंभवात्। न हि युवन्शब्दस्य पुंस्त्वं जरतीसामानाधिकरण्यं सङ्गच्छते।