पूर्वम्: २।१।६९
अनन्तरम्: २।१।७१
 
प्रथमावृत्तिः

सूत्रम्॥ चतुष्पादो गर्भिण्या॥ २।१।७०

पदच्छेदः॥ चतुष्पादः १।३ गर्भिण्या ३।१ समानाधिकरणेन ३।१ ४८ तत्पुरुषः १।१ २१ विभाषा १।१ ११ सह सुपा ३।१ समासः १।१ सुप् १।१

काशिका-वृत्तिः
चतुष्पादो गर्भिण्या २।१।७१

चतुष्पाद्वाचिनः सुबन्ता गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति। गोगर्भिणी। अजागर्भिणी। चतुष्पाज्जातिरिति वक्तव्यम्। इह मा भूत् कालाक्षी गर्भणी, स्वस्तिमती गर्भिणी। चतुष्पादः इति किम्? ब्राह्मणी गर्भिणी।
न्यासः
चतुष्पादो गर्भिण्या। , २।१।७०

"चतुष्पादः" इति। चत्वारः पादा यासां ताश्चतुष्पादः। "पादस्य लोपोऽहस्त्यादिभ्यः" ५।४।१३८ इत्यन्तस्य लोपः। "चतुष्पाज्जातिरिति वक्तव्यम्" इति। चतुष्पादो जातिवचना एव गर्भिण्या समस्यन्त इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- पोटादि२।१।६४ सूत्रादिह जातिग्रहणमनुत्र्तते। तेन चतुष्पज्जातिवाच्येव गर्भिण्या समस्यते, नान्यदिति॥
बाल-मनोरमा
चतुष्पादो गर्भिण्या ७४३, २।१।७०

चतुष्पादो गर्भिण्या। "जातिग्रहणं कर्तव्य"मिति वार्तिकमभिप्रेत्याह--चुत्ष्पाज्जातीति। गोगर्भिणीति। गर्भिणी चासौ गौश्चेति विग्रहः। विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रम्। जातिरिति किम्?। कालाक्षी गर्भिणी।

तत्त्व-बोधिनी
चतुष्पादो गभिण्या ६५८, २।१।७०

चतुष्पादो। मण्डूकप्लुत्याऽत्र "जाति"रित्यनुवर्तत इत्याह---जातिवाचीति। जातिः किम्()। "कालाक्षी गभिणी"। चतुष्पात्किम्()। ब्राआहृणी गर्भिणी। प्रत्युदाहरणे "विशेषण्"मिति समासः स्यादेव। गर्भिणीकालाक्षीत्यादिपूर्वनिपाते विशेषः।