पूर्वम्: २।२।१
अनन्तरम्: २।२।३
 
प्रथमावृत्तिः

सूत्रम्॥ अर्धं नपुंसकम्॥ २।२।२

पदच्छेदः॥ अर्धं १।१ नपुंसकम् १।१ एकदेशिना ३।१ एकाधिकरणे ७।१ तत्पुरुषः १।१ २।१।२१ विभाषा १।१ २।१।११ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
अर्धं नपुंसकम् २।२।२

एकदेशिना एकाधिकरणे इति वर्तते। समप्रविभागे ऽर्धशब्दो नपुंसकम् आविष्टलिङ्गः, तस्य इदं ग्रहनम्। अर्धम् इत्येतद् नपुंसकम् एकदेशिनाएकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति। षष्ठीसमासापवादो ऽयम् योगः। अर्धं पिप्पल्याः अर्धपिप्पली। अर्धकोशातकी। नपुंसकम् इति किम्? ग्रामार्धः। नगरार्धः। एकदेशिना इत्येव, अर्धं पसोर् देवदत्तस्य। देवदत्तेन सह समसो न भवति। एकाधिकरणे इत्येव, अर्धं पिप्पलीनाम्।
लघु-सिद्धान्त-कौमुदी
अर्धं नपुंसकम् ९३६, २।२।२

समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत्। अर्धं पिप्पल्याः अर्धपिप्पली।
न्यासः
अर्द्धं नुपंसकम्। , २।२।२

"समप्रविभागे त्वद्र्धशब्दो नपुंसकमाविष्टलिङ्गस्तस्येदं ग्रहणम्" इति। यद्येवम्, समग्रहणमेव कत्र्तव्यम्? नैवं शक्यम्, अनेकार्थत्वात् समशब्दस्य। तथा हि--स निम्नोन्नतादिरहितेऽपि देशे वत्र्तते-- यथा--समे यजेतेति, निम्नोन्नतादिरहिते देशे यजेतेत्यर्थः। अथापि समप्रविभाग इच्युच्यते, एवमपि गुरुत्वं स्यात्, तस्मान्नपुंसकग्रहणं कत्र्तव्यम्? न कत्र्तव्यम्; अद्र्धमिति नपुंसकलिङ्गेन निर्देशादेव हि नपुंसकस्य ग्रहणं भविष्यति, नैतदस्ति; असति हि नपुंसकग्रहणं शब्दरूपापेक्षया नपुंसकनिर्देश इति विज्ञायेत, यथा-- "स्वमज्ञातिधनाख्यायाम्" १।१।३४, "बन्थुनि बहुव्रीहौ" ६।१।१४ इति च; ततश्चाद्र्धशब्दस्य नपुंसकलिङ्गत्वताऽनाश्रिता स्यात्। एवमनुपंसकलिङ्गोऽपि समस्येत। तस्मादद्र्धशब्दस्य नपुंसकलिङ्गत्वमाश्रयितुं नपुंसकमिति वक्तव्यम्। "अद्र्धपिप्तली" इति। "परवलिङ्गम्" २।४।२६ इति स्त्रीलिङ्गता। अथात्र "गोस्त्रियोरुपसर्जनस्य" (१।२।४८) इति ह्यस्वत्वं कस्मान्न भवति? अनुपसर्जनत्वात्। उपसर्जनत्वं तु "एकविभक्ति च" १।२।४४ इति। अत्र "विभाषा छन्दसि" १।२।३६ इत्यतो विभाषाग्रहणमनुवत्र्तते। सा च व्यवस्थितविभाषा प्रतिपादिता। "ग्रामार्द्धः" इति। ग्रामस्यैकदेश इत्यर्थः। "अद्र्ध पशोर्दैवदत्तस्य" इति। देवदत्तशब्देन सह समासो न भवति। अनेकदेशित्वाद्देवदत्तस्य। न ह्रसावेकदेशः, किन्तर्हि? स्वामी। यस्त्वेकदेशी पशुशब्दः, तेन सह भवत्येव समासः। सत्यपि पशुशब्दस्य सापेक्षत्वे पशोः प्राधान्यात् समासो भवत्येव-- अद्र्धपशुर्देवदत्तस्येति॥
बाल-मनोरमा
अर्द्धं नपुंसकम् ७०४, २।२।२

अर्धं नपुंसकम्। अर्धमिति नपुंसकलिङ्गनिर्देशादेव नपुंसकत्वे लब्धे पुनर्नपुंसकग्रहणं नित्यनपुंसकलिङ्गस्य ग्रहणार्थमित्यभिप्रेत्याह--समांशवाच्यर्धशब्दो नित्यं क्लीबे इति। "वर्तते" इति शेषः। "वा पुंस्यर्धोऽर्धं समेंऽशके" इति कोशादिति भावः। अंशसामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति। समे त्वंशे अर्धशब्दो नपुंसकलिङ्ग एवेत्यर्थः। भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः, अंशसामान्यवाची तु पुंलिङ्ग इत्युक्तम्। स प्राग्वदिति। स नित्यनपुंसकलिङ्गोऽर्धशब्दोऽवयविवाचिना समस्यत इत्यर्थः।

अर्धशब्दस्य पूर्वाद्यनन्तर्भावात्पूर्वेण न प्राप्तिः। नन्वर्धं पिप्पल्या अर्धपिप्पलीत्युदाहरणं वक्ष्यति। तत्र अर्धं पिप्पल्याः अर्धपिप्पली, अर्धेन पिप्पल्या अर्धपिप्पल्या, अर्धाय पिप्पल्याः अर्धपिप्पल्यै, अर्धात्पिप्पल्याः, अर्धस्य पिप्पल्याः अर्धपिप्पल्याः, अर्धे पिप्पल्याः अर्धपिप्पल्यामिति विग्रहेषु पिप्पलीशब्दस्य नियतविभक्तिकतया "एकविभक्ति चापूर्वनिपाते"इत्युपसर्जनत्वात् "गोस्त्रियोः" इति ह्यस्वः स्यादित्यत आह--एकविभक्ताविति। "एकविभक्ति चापूर्वनिपाते" इति सूत्रे "अषष्ठ()न्त"मिति वक्तव्यमित्यर्थः। ततश्च पिप्पलीशब्दस्य षष्ठ्न्यतत्वान्नोपसर्जनत्वमिति न ह्यस्व इत्यर्थः। नन्वेवं सति पञ्चानां खट्वानां समाहारः समाहारं समाहारेणेत्यादिविग्रहेषु खट्वाशब्दस्य नियतविभक्तिकत्वेऽपि षष्ठ()न्तत्वादनुपसर्जनत्वात् "गोस्त्रियो"रिति ह्यस्वाऽभावेऽदन्तत्वाऽभावेन "द्विगो"रिति ङीबभावे पञ्चखट्वेति स्यात्, पञ्चखट्वीति न स्यादित्यत आह--एकदेशिसमासेति। "अपथं नपुंसक"मिति सूत्रभाष्ये पञ्चखट्वीत्युदाहरणमत्र लिङ्गमिति भावः। अर्धपिप्पलीति। "प्रथमानिर्दिष्ट"मित्यर्धशपब्दस्योपसर्जनत्वात्पूर्वनिपातः। प#इप्पलीशब्दस्य तु विग्रहे नियतविभक्तिकत्वेऽपि "एकविभक्तौ" इति निषेधादुपसर्जनत्वाऽभावान्न ह्यस्व इति भावः। ग्रामार्ध इति। ग्रामस्याऽर्ध इति विग्रहः। ग्रामस्यांश इत्यर्थः। अर्धशब्दस्य समांशवाचित्वाऽभावेन नित्यनपुंसकत्वाऽभावान्नायं समास, किन्तु "षष्ठी"इत्येव समास इति षष्ठ()न्तस्य पूर्वनिपातः। द्रव्यैक्य एवेति। एकाधिकरण इत्यनुवर्तत एवेत्यर्थः। अर्धं पिप्पलीनामिति। अत्र द्रव्यैक्याऽभावान्न समासः। सति समासेऽर्धपिप्पलीत्येव स्यात्, विशेष्यैक्यात्। इदं सूत्रं "परवल्लिङ्ग"मिति सूत्रभाष्ये प्रत्याख्यातम्।

तत्त्व-बोधिनी
अद्र्ध नपुंसकम् ६२६, २।२।२

अर्ध नपुंसतम्। खण्डावाच्यद्र्धशब्दो न नित्यनपुंसकः, ग्रामार्द्धो नगराद्र्ध इति यथा। समांशवाची तु नित्यनपुंसकः। स एवेह गृह्रते, "पूर्वसूत्रे एवाद्र्धशब्दे पठनीये "अर्ध"मितचि योगविभागेन निर्देशान्नपुंसकत्वे लब्धे, पुनर्नपुंसकगिरहणादित्याशयेन व्याचष्टे--नित्यं क्लीबे स इति। यो नित्यनपुंसकलिङिगः स इत्यर्थः। प्राग्वदिति। एकत्वविशिष्टेनावयविना समस्यत इत्यर्थः। अन्ये तु व्याचख्युः--"अर्ध"मिति निर्देशादेव नपुंसकत्वे सिद्धे नपुंसकग्रहणं "सूत्रेषु लिङ्गनिर्देशो न विवक्षितः"इति ज्ञापयितुम्। "तेन तस्येद"मित्यादि लिङ्गत्रयेऽपि भवतीति। "अर्धपिप्पली"त्यत्र "एकविभक्ति चापूर्वनिपाते"इत्युपसर्जनसंज्ञायां "गोस्त्रीयो"रिति ह्यस्वः स्यादित्याशङ्क्य समाधत्ते--अषठ()न्तवचनमिति। तेन पिप्पलीशब्दस्याऽनुपसर्जनत्वातन्न दोष इति भावः। नन्वेवं पञ्चानां खट्वानां समाहारः पञ्चखट्वीति न सिध्द्येत्, उपसर्जनसंज्ञानिषेधेन खट्वेत्याकारे ह्यस्वाप्रवृत्तेरदन्तत्वाभावेन "द्विगोः"इति ङीपोऽप्रवृत्तेरत आह--।

एकविभक्तावषष्ठ()न्तवचनम्। एकदेशिसमासविषयकोऽमिति। "पञ्चखठ्वी"ति भाष्योदाहरणमेव "अषठ()न्तो"त्यस्य संकोचे लिङ्गमितिओओ भावः। अर्धपिप्पलीति। परवल्लिङ्गत्वात्लस्त्रीत्वम्। अर्ध पिप्पलीनामिति। सति समासे "अर्धपिप्पली"त्येव स्यात्, विशेष्यैक्यात्। "परवल्लिङ्ग"मिति लिङ्गातिदेशेऽपि वचनातिदेशाऽभावाच्चेति भावः। "अर्धपिपल्यः"इति प्रयोगस्तु "अर्धानि पिप्पलीना"मिति विग्रहे असाधुश्चेदपि खण्डसमुच्चये साधुरेव, अर्धं पिप्पल्या अर्धपिप्पली, अर्धपिप्पली च अर्धपिप्पली चेत्यादिविग्रहात्। एकदेशिना किम्()। अर्धं पशोर्देवदत्तस्य। अत्र देवदत्तः स्वामी, न त्ववयवीति न तेन समासः। इदं सूत्रं "परवल्लिङ्ग"मित्यत्र भाष्ये प्रत्याख्यातम्। तद्यथा--अर्धंपिप्पलीति हि कर्मधारयेण सिद्धम्। "समुदाये दृष्टाः शब्दा अवयवेष्वपि वर्तन्ते"इति न्यायात्। समप्रविभागादन्यत्र तवाप्येषैव गतिः, "अर्धाहारः"अर्धोक्तम्" "अर्धविलोकितम्" इत्यादिप्रयोगदर्शमात्। न च समप्रविभागे षष्ठीसमासं बाधितुमिदं सूत्रमिति वाच्यम्, षष्ठीसमासस्यापूष्टत्वात्। अतएव कालिदासः प्रायुङ्क्त--"प्रेम्णा शरीरार्धहरां हरस्ये"ति।