पूर्वम्: २।२।५
अनन्तरम्: २।२।७
 
प्रथमावृत्तिः

सूत्रम्॥ नञ्॥ २।२।६

पदच्छेदः॥ नञ् तत्पुरुषः १।१ २।१।२१ विभाषा १।१ २।१।११ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
नञ् २।२।६

नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। न ब्राह्मणः अब्राह्मणः। अवृषलः।
न्यासः
नञ्। , २।२।६

नञो ञकारः "नलोपो नञः" ६।३।७२ इति विशेषणार्थः, पामनपुत्रादिषु मा भूत्। "लोमादिपामादिपिच्छादिभ्यः शनेलचः" ५।२।९९ अथाब्राआहृण इति किंप्रधानोऽयं समासः? उत्तरपदार्थप्रधानस्तत्पुरुषः, यथा-- राजपुरुष इति। पूर्वपदार्थप्रधानोऽव्ययीभावः, यथा-- अमक्षिकमिति। अन्यपदार्थप्रधानो बहुव्रीहिः, यथा--अब्राआहृणको देश इति। यद्येवम्, अब्राआहृणमानयेत्युक्ते ब्राआहृणमात्रस्यानयनं प्राप्नोति? अथ निवृत्तिपदार्थकोऽयं ब्राआहृणशब्दः, सा च निवृत्तिः स्वाभाविकी नञा द्योत्यत इति मतम्, एवं च सत्यभाव एवास्यार्थ इत्यब्राआहृणमानयेत्युक्ते न कस्यचिदानयनं प्राप्नोति? नैष दोषः;सर्वं हि पदं स्वार्थे प्रयुज्यमानं प्रयोगप्रतिज्ञानमपेक्षते। तथा चोक्तम्-- "आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया" इति। तच्च द्विविधं ज्ञानम्-- सम्यक्, मिथ्या चेति। उभयमप्येतत् ब्राआहृणशब्दः प्रवत्र्तयति। यत्र सम्यग्ज्ञानपूर्वके ब्राआहृणशब्दप्रयोगे नास्ति नञो व्यापारः, न हि तत्र नञा किञ्चित क्रियते। मिख्याज्ञानपूर्वके तु विद्यत एव तस्य व्यापारः। तत्र हि तेन मिथ्याज्ञानप्रभावता परस्याख्यायते। मिथ्याज्ञानं च दुष्टेन्द्रियहेतुकम्। तच्चसादृश्यादृते न सम्भवतीति प्रतिषेधे सत्यत्तरपदार्थसदृशः समासार्थो जायते। तथा चोक्तम्-- "नञिव युक्तमन्यसदृशाधिकरणे तथा ह्रर्थगतिः" (व्या।प।६५) इति। तस्मादब्राआहृणमानयेत्युक्ते ब्राआहृणसदृशे क्षत्रियादौ प्रतीतिर्भवतीति न भवति पूर्वोकत्दोषावसरप्रसङ्गः॥
बाल-मनोरमा
नञ् ७४६, २।२।६

नञ्। इदं समानाधिकरणाधिकारस्थं नेत्यभिप्रेत्याह-सुपा समस्यत इति।

तत्त्व-बोधिनी
नञ् ६६०, २।२।६

नञ्। इह "नलोपो नञः"इत्यत्र विशेषणार्थो ञकारः। तत्फलं च नैकदेत्यत्राऽलोपः। "अव्यये नञ्कुनिपाताना"मित्यव्ययपूर्वपदप्रकृति स्वरार्थं ञकतारोच्चारणमित्यन्ये। सुपा सह समस्यत इति। उतरपदार्थप्रधानोऽयं समासः। तथाहि आरोपितत्वं नञा द्योत्यते। तथा च अब्राआहृणशब्दादारोपितो ब्राआहृण इति बोधे अर्थाद्द्ब्राहृणभिन्न इति पर्यवस्यति। अतएवाऽनुसर्जनत्वादतस्मिन्नस इत्यादौ सर्वनामकार्यं सिध्यति। तत्पुरुषस्यौत्सर्गिकमुत्तरपदार्थप्राधान्यमप्येवं सति निर्बाधम्। "एतत्तदो"रिति सूत्रेऽनञ्समासग्रहणं चेह लिङ्गमित्यादि मनोरमायानुसन्धेयम्।