पूर्वम्: २।२।६
अनन्तरम्: २।२।८
 
प्रथमावृत्तिः

सूत्रम्॥ ईषदकृता॥ २।२।७

पदच्छेदः॥ ईषत् अकृता ३।१ तत्पुरुषः १।१ २।१।२१ विभाषा १।१ २।१।११ सह २।१।४ सुपा ३।१ २।१।४ समासः १।१ २।१।३ सुप् १।१ २।१।२

काशिका-वृत्तिः
ईषदकृता २।२।७

ईषतित्ययं शब्दो ऽकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति। ईषद्गुणवचनेन इति वक्तव्यम्। ईषत्कडारः। ईषत्पिङ्गलः। ईषद्विकटः। ईषदुन्नतः। ईषत्पीतम्। ईषद्रक्तम्। गुणवचनेन इति किम्? इह न भवति, ईषद् गार्ग्यः।
न्यासः
ईषदकृता। , २।२।७

"ईषद्गुणवचनेनति वक्तव्यम्" इति। ईषदित्येतदव्ययं समस्यते, न सर्वेणाकृदन्ेतनेत्येतद्रूपं व्याख्येयमित्यर्थः। त्तरेदं व्याख्यानम्-- विभाषेत्यनुवत्र्तते, सा च व्यवस्थितविभाषा विज्ञायते। तेन गुणवचनेनैव समासो भविष्यति, नान्येन। "ईषद्गार्ग्यः" इति। गाग्र्यशब्दऽयं जातिवचनः, न गुणवचनः। नन्वकृतेत्युच्यते, त्तर ईषत्पीतः, ईषदुन्न त इत्यादि न सिध्यति; पीतादिशब्दस्य कृदन्तत्वात्? नैष दोषः; अव्युत्पन्ना ह्रेते पीतादिशब्दा वेदितव्याः; न तु कृदन्ताः॥
बाल-मनोरमा
ईषदकृता ७४५, २।२।७

ईषदकृता। ईषच्छब्दोऽकृदन्तप्रकृतिकसुबन्तेन समस्यते स तत्पुरुष इत्यर्थः। ईषत्पिङ्गलं इति। पिङ्गलशब्दोऽव्युत्पन्नप्रातिपदिकमिति भावः।

ईषद्गुणवचनेनेति। "अकृतेत्यपहाये"ति शेषः।