पूर्वम्: २।३।३४
अनन्तरम्: २।३।३६
 
प्रथमावृत्तिः

सूत्रम्॥ दूरान्तिकार्थेभ्यो द्वितीया च॥ २।३।३५

पदच्छेदः॥ दूरान्तिकार्थेभ्यः ५।३ ३६ द्वितीया १।१ षष्ठी १।१ ३४ अन्यतरस्याम् ३४ पञ्चमी १।१ २८

काशिका-वृत्तिः
दूरान्तिकार्थेभ्यो द्वितीया च २।३।३५

पञ्चमी अनुवर्तते। दूरान्तिकार्थेभ्यः शब्देभ्यो द्वितीया विभक्तिर् भवति, चकारात् पञ्चमी तृतीया ऽपि समुच्छीयते। दूरं ग्रामस्य, दूराद् ग्रामस्य, दूरेण् ग्रामस्य। अन्तिकं ग्रामस्य, अन्तिकाद् ग्रामस्य, अन्तिकेन ग्रामस्य। प्रातिपदिकार्थे विधानम्। असत्त्ववचनग्रहणं च अनुवर्तते। सत्त्वशब्देभ्यो यथायथं विभक्तयो भवन्ति। दूरः पन्थाः, दूराय पथे देहि, दूरस्य पथः स्वम्।
न्यासः
दूरदान्तिकार्थभ्यो द्वितीया च। , २।३।३५

"{एवम्प्रकारकं वाक्यं वृत्तौ नास्ति}पञ्चमी च" इति। तदनुवृत्तिसामथ्र्यात्। "तृतीयाऽपि समुच्चीयते" इति। चकारेण। "यथायथम्" इति। यथास्वं यो यस्यात्मीयो विषयस्तत्रासौ भवति, न विभक्त्यन्तरमित्यर्थः॥
बाल-मनोरमा
दूरान्तिकार्थेभ्यो द्वितीया च ५९७, २।३।३५

दूरान्तिक। एभ्य इति। दूरार्थकेभ्योऽन्तिकार्थकेभ्यश्चेत्यर्थः। चकारो व्यवहितयोरपि पञ्चमीतृतीययोः समुच्चयार्थः, नतु "दूरान्तिकार्थैः षष्ठ()न्तरस्या"मिति संनिहितषष्ठ()आ अपि, व्याख्यानात्। तदाह--चात्पञ्चमीतृतीये चेति। प्रातिपदिकार्थमात्रे विधिरयमिति। व्याख्यानादिति भावः। तथाच प्रथमापवाद इति फलितम्। "दूरादावसथान्मूत्रं दूरात्पादावनेजनम्" इति भाष्यप्रयोगात्सप्तम्यर्थेऽधिकरणेऽप्ययं विधिः। ननु दूरः पन्था इत्यत्र कथं न पञ्चमीत्यत आह--असत्त्ववचनस्येति। "दूरः" "पन्था" इत्यत्र पन्था द्रव्यम्। तद्विशेषणं दूरशब्दः सत्त्ववचन इति भावः॥ इति पञ्चमी।

तत्त्व-बोधिनी
दूरान्तिकार्थेभ्यो द्वितीया च ५३५, २।३।३५

दूरं दूराद् दूरेण वेति। इह सप्तम्यपि वक्ष्यते। किंच "दूरान्तिकार्थेभ्यः" इति सूत्रस्य "सप्तम्यधिकरणे च" इत्युत्तरसूत्रेऽप्यनुवर्तनादधिकरणेऽप्येभ्यो विभक्तिचतुष्टयं बोध्यम। तथा च प्रयुज्यते "दूरादावसथान्मूत्रं दूरात्पादावसेचनम्" इति। आवसथस्य दूरे इत्यर्थः। असत्त्ववचनस्येति। सत्त्ववचनत्वमिह सत्त्वविशेषकत्वम्। एवं च सामानाधिकरण्येन प्रातिपदिकार्थविशेषकं व्युदस्यते। तदाह--दूरः पन्था इति। एतेन "करणे च स्तोके"ति सूत्रे---"करणे किम्()" क्रियाविशेषणे कर्मणि मा भूत्। स्तोकं पचति। क्रिया न द्रव्यम" इति प्राचां ग्रन्थोऽपि व्याख्यातः। न च क्रियाया विशेष्यत्वेन द्रव्यत्वाऽवश्यंभावान्नैतत्प्रत्युदाहरणं युक्तमिति वाच्यम्, धातुवाच्यायाः क्रियाया असत्त्वरूपत्वस्याकरे प्रसिद्धत्वात्। न च विशेष्यत्वे तदनुपपत्तिः। कर्तृकर्मेतरकारकलिङ्गानन्वयित्वमात्रेणाऽसत्त्लरूपत्वोपपत्तेः। उक्तं च ---"क्रिया न युज्यते लिङ्गक्रियानाधारकारकैः। असत्त्वरूपता तस्या इयमेवावधर्यताम्"। इति। फलं व्यापारश्च क्रिया, फलाधारकारकं कर्म, व्यापाराधारकारकं कर्तेति विवेकओः। पञ्चमी।