पूर्वम्: २।३।३९
अनन्तरम्: २।३।४१
 
प्रथमावृत्तिः

सूत्रम्॥ आयुक्तकुशलाभ्यां चासेवायाम्॥ २।३।४०

पदच्छेदः॥ आयुक्तकुशलाभ्याम् ३।२ आसेवायाम् ७।१ षष्ठी १।१ ३८ सप्तमी १।१ ३६

काशिका-वृत्तिः
आयुक्तकुशलाभ्यां च आसेवायाम् २।३।४०

षष्ठीसप्तम्यौ वर्तते। आयुकतः व्यापारितः, कुशलः निपुणः, ताभ्यां योगे आसेवायां गम्यमानायां षष्ठीसप्तम्यौ विभक्ती भवतः। आसेवा तत्पर्यम्। आयुक्तः कटकरणस्य, आयुक्तः कटकरणे कुशलः कटकरनस्य, कुश्लः कटकरणे। आसेवायाम् इति किम्? आयुक्तो गौः शकटे। तत्र सप्तम्येव अधिकरणे भवति।
न्यासः
आयुक्तकुशलाभ्यां चासेवायाम्। , २।३।४०

आयुक्तता निपुणता च कटादिकरणविषयैवेति सप्तम्यामेव प्राप्तायां पक्षे षष्ठीविधानार्थं वचनम्। "आसेवायामिति किम्? आयुक्तो गौः शकटे" (इति)। ईषद्युक्त इत्यर्थः॥
बाल-मनोरमा
आयुक्तकुशलाभ्यां चाऽ‌ऽसेवायाम् ६२९, २।३।४०

आयुक्त। आसेवापदं व्याचष्टे--तात्पर्ये इति। औत्सुक्ये इत्यर्थः। "तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः" इत्यमरः। आयुक्तपदं व्याचस्टे--व्यापारित इति। प्रवर्तित इत्यर्थः। आयुक्तः कुशलो वेति। हरिपूजनविषये आयुक्तः=प्रवर्तित इत्यर्थः। अत्र वैषयिकाधिकरणत्वविवक्षायां तु षष्ठ()आमेव प्राप्तायां वचनम्। आयुक्तो गौरिति। आङीषदर्थे। "युजिर्योगे"। तदाह--ईषद्युक्त इत्यर्थ इति।