पूर्वम्: २।३।५०
अनन्तरम्: २।३।५२
 
प्रथमावृत्तिः

सूत्रम्॥ ज्ञोऽविदर्थस्य करणे॥ २।३।५१

पदच्छेदः॥ ज्ञः ६।१ अविदर्थस्य ६।१ करणे ७।१ षष्ठी १।१ ५० शेषे ७।१ ५०

काशिका-वृत्तिः
ज्ञो ऽविदर्थस्य करणे २।३।५१

जानातेरविदर्थस्य अज्ञानार्थस्य करणे कारके षष्ठी विभक्तिर् भवति। सर्षिषो जानीते। मधुनो जानीते। सर्पिषा करणेन प्रवर्तते इत्यर्थः। प्रवृत्तिवचनो जानतिरविद्र्थः। अथ व मिथ्याज्ञानवचनः। सर्पिषि रक्तः प्रतिहतो वा। चित्तभ्रान्त्या तदात्मना सर्वम् एव ग्राह्यं प्रतिपद्यते। मिथ्याज्ञानम् अज्ञानम् एव। अविदर्थस्य इति किम्? स्वरेण पुत्रं जानाति।
न्यासः
ज्ञोऽविदर्थस्य करणे। , २।३।५१

यद्यपि बहवो विदयः सन्ति, तथापि यस्यार्थे जानातर्वृत्तिः सम्भवति तस्यैव विदेः प्रतिषेधकरणं युक्तम्, "विद ज्ञाने" (धा।पा।१०६४) इत्यस्यैवार्थे जानातेर्वृत्तिः सम्भवति, तस्मादविदर्थस्येत्यनेन ज्ञानार्थस्यैव प्रतिषेधो विज्ञायत इत्याह-- "अज्ञानार्थस्य" इत्यादि। "सर्पिषो जानीते, मधुनो जानीते" इति। "अपह्नवे ज्ञः" १।३।४४ इत्यनुवत्र्तमाने, "अकर्मकाच्च" १।३।४५ इत्यात्मनेपदम्। धुन इति-- " इकोऽचि विभक्तौ" (र७।१।७३) इति नुम्। सर्पिषा करणभूते प्रवत्र्तत इत्यर्थः। यस्य प्रियतमं सर्पिस्तस्य प्रवृतिं प्रति सर्पिषः करणभूतत्वात्। धातूनामनेकार्थत्वाज्जानातिरिह प्रवृत्त्यर्थः। "सर्पिषिरक्तः प्रतिहतो वा" इति। सर्पिषि रक्तत्वं प्रतिहतत्वं च चित्तभ्रान्तेः कारणमाह। यदि सर्वमेव ग्राह्रं तदात्मना सर्पिःस्वभावतया प्रतिपद्यते। एवं सत्यविदर्थता नोपपद्यते, ज्ञानार्थत्वादित्यत आह-- "मिथ्याज्ञानमज्ञानमेव" इति। ज्ञानकार्याकरणादिति भावः। अविपरीतविषयपरिच्छेदो हि ज्ञानकार्यम्, कतच्च मिथ्याज्ञानेन न क्रियत इति मिथ्याज्ञानमज्ञानमुच्यते, यथा-- पुत्रकार्याकरणात् पुत्रोऽपुत्र इति॥
बाल-मनोरमा
ज्ञोऽविदर्थस्य करणे ६०४, २।३।५१

ज्ञोऽविदर्थस्य। ज्ञः-अविदर्थस्येति च्छेदः। "ज्ञ" इति ज्ञाधातोरनुकरणात्षष्ठ()एकवचनम्। वित्=ज्ञानं अर्थो यस्य विदर्थः, स न भवतीति अविदर्थः। ज्ञानार्थकभिन्नस्येति यावत्। तदाह--जानातेरज्ञानार्थस्येति। शेषत्वेनेति। संबन्धत्वेनेत्यर्थः। शेष इत्यनुवृत्तेरिति भावः। सर्पिषो ज्ञानमिति। वस्तुतः करणीभूतं यत्सर्पिस्तत्संबन्धिनी प्रवृत्तिरित्यर्थः। अविदर्थस्येति लिङ्गादेव "ज्ञा अवबोधने" इति धातोः प्रवृत्तौ वृत्तिः। "षष्ठी शेषे" इति सिद्धेऽपि "प्रतिपदविधाना षष्ठी न समस्यते" इत्येतदर्थं वचनम्।