पूर्वम्: २।३।५२
अनन्तरम्: २।३।५४
 
प्रथमावृत्तिः

सूत्रम्॥ कृञः प्रतियत्ने॥ २।३।५३

पदच्छेदः॥ कृञः ६।१ प्रतियत्ने ७।१ कर्मणि ७।१ ५२ षष्ठी १।१ ५० शेषे ७।१ ५०

काशिका-वृत्तिः
कृञः प्रतियत्ने २।३।५३

सतो गुणान्तराधानं प्रतियत्नः। करोतेः कर्मणि कारके शेषत्वेन विवक्षिते प्रतियत्ने गम्यमाने षष्ठी विभक्तिर् भवति। एधोदकस्योपस्कुरुते। शस्त्रपत्रस्योपस्कुरुते प्रतियत्ने इति किम्? कटं करोति। कर्मणि इति किम्? एधोदकस्योपस्कुरुते प्रज्ञया। शेषे इत्येव, एधोदकमुपस्कुरुते।
न्यासः
कृञः प्रतियत्ने। , २।३।५३

"एथो दकस्योपस्कुरुते" इति। गन्धनादि १।३।३२ सूत्रेणात्मनेपदम्, "उपात्प्रतियत्न" ६।१।१३४ इत्यादिना सुट्॥
बाल-मनोरमा
कृञः प्रतियत्ने ६०६, २।३।५३

कृञः प्रति। कर्मणीति, शेष इति चानुवर्तते। प्रतियत्नो गुणाधानम्। तदाह--कृञः कर्मणीति। एधोदकस्योपस्करणमिति। एधश्शब्दः सकारान्तो नपुंसकलिङ्गः। दकशब्द उदकवाची। एधश्च दकं चेति द्वन्द्वः। यद्वा एधशब्दोऽकारान्तः पुंलिङ्गः। एधश्च उदकं चेति द्वन्द्व इत्यनुपदमेवोक्तम्। वस्तुतःकर्मीभूतैधोदकसंबन्धि परिष्करणमित्यर्थः।