पूर्वम्: २।३।५३
अनन्तरम्: २।३।५५
 
प्रथमावृत्तिः

सूत्रम्॥ रुजार्थानां भाववचनानामज्वरेः॥ २।३।५४

पदच्छेदः॥ रुजार्थानाम् ६।३ भाववचनानाम् ६।३ अज्वरेः ६।१ कर्मणि ७।१ ५२ षष्ठी १।१ ५० शेषे ७।१ ५०

काशिका-वृत्तिः
रुजाऽर्थानां भाववचनानाम् अज्वरेः २।३।५४

रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर् भवति। चौरस्य रुजति रोगः। चौरस्यामयत्यामयः। रुजार्थानाम् इति किम्? एति जीवन्तमानन्दो नरं वर्षशतादपि। जीव पुत्रक मा मैवं तपः साहसमाचर। भाववचनानाम् इति किम्? नदी कूलानि रुजति। अज्वरेः इति किम्? चौरं ज्वरयति ज्वरः। अज्वरिसन्ताप्योरिति वक्तव्यं। चौरं सन्तापयति तापः। शेषे इत्येव, चौरं रुजति रोगः।
न्यासः
रुजार्थानां भाववचनानामज्वरेः। , २।३।५४

रुजेति केचिद्भिदादिषु पठन्ति। ये न पठन्ति तेऽपि "चिन्तिपूजिकथिकुम्बचर्च्चश्च" ३।३।१०५ इति चकारस्यानुक्तसमुच्चयार्थत्वादस्मादेव निपातनाद्वा रुजाशब्दस्य साधुत्वं वर्णयन्ति। रुजा अर्थो येषां ते रुजार्थाः। "भाववचनानाम्" इति। यदि भावार्थाभिधायिनां रुजार्थानामित्येषोऽर्थो विवक्षितः स्यात्, तदाऽनर्थकमिदं वचनं स्यात्। सर्व एव हि रुजार्था भाववचनाः। तस्मान्नातर् धातुवाच्यो भावो विवक्षितः, किं तर्हि? प्रतययवाच्यः, यत्र "भावे" ३।३।१८ इति धञ् विधीयते। वचनशब्दोऽयं कर्त्तृसाधनः, वक्तीति वचनः, "कृत्यल्युटो बहुलम्" ३।३।११३ इति कत्र्तरि ल्युट्। न च रुजार्थानां यो भावस्तस्य वचनक्रियां प्रति कर्त्तृत्वं सम्भवतीति सामथ्र्यादवचनशब्देन प्रकृत्यर्थं परित्यज्य प्रत्ययार्थो विवक्षित इति प्रतीयते। स पुनः कर्त्तृशक्तिः। भाववचनानामिति बहुव्रीहिः-- भावो वचनः कत्र्ता येषां ते भाववचनाः। भावकर्त्तृका इत्यर्थः। एतत्सर्वं चेतसि कृत्वाऽ‌ऽह-- "भावकर्त्तृकाणाम्" इति। भावकर्त्तृकाणामित्येवं नोक्तं वैचित्र्यार्थम्। "चौरस्य रुजति" इति। "रुजो भङ्गे" (धा।पा।१४१६), तौदीदिकः। अत्र रोगो भावः कत्र्ता। "चौरस्यामयति" इत्यत्राप्यामयः। "अम रोगे" (धा।पा।१७२०), चौरादिकः। "एति जीवन्तमनन्दो नरं वर्षशतादपि" इति। अस्त्यत्रानन्दो भावः कत्र्ता। न त्वेतिर्धातू रुजार्थः, किं तर्हि? गत्यर्थः। "नदी कूलानि रुजति" इति। रुजिरत्र द्रव्यकर्त्तृकः, न भावकर्त्तृकः, नद्या द्रव्यत्वात्। नैतद्युक्तं प्रत्युदाहरणम्, रुजाशब्दो हि रुढिशब्दत्वात् व्याधिमेवाचष्टे; न चात्र व्याधिवचनः, किं तर्हि? भङ्गवचनो रुजिः। एवं तर्हि प्रत्युदाहरणदिगियं दर्शिता वृत्तिकृता। इदन्त्वत्र प्रत्युदाहरणम्-- श्लेष्मा पुरुषं रुजतीति। व्याधिना ग्राहयतीत्यर्थः। ज्वरयतीति। "ज्वर योगे" (धा।पा।७७६), हेतुमण्णिच्। घटादित्वान्मित्त्वम्। "मितां ह्यस्वः" ६।४।९२ इति ह्यस्वः। "सन्तापयति" इति। "तप सन्तापे" (धा।पा।९८५), हेतुमण्णिच्। सन्तापोऽत्र भावः कत्र्ता॥ "सर्पिषो नाथते" इति। सर्पिर्यस्य नास्त्यतोऽर्थित्वादाशास्ते सः-- सर्पिर्मे भूयादिति। "आशिषि नाथः" इत्युपसंख्यानादात्मनेपदम्। "माणवकमुपनाथति" इति। याचत इत्यर्थः॥
बाल-मनोरमा
रुजार्थानां भाववचनानामज्वरेः ६०७, २।३।५४

रुजार्थानाम्। रुजा पीडा रोग इत्यर्थो येषामिति विग्रहः। भाववचनानामित्येतद्व्याचष्टे--भावकर्तृकाणामिति। वक्तीति वचनः, कर्तरि ल्युट्। प्रकृत्यर्थौ न विवक्षितः। भावो=धात्वर्थो, वचनः=कर्ता येषामिति विग्रहः। भावकर्तृकाणामिति फलितमिति भाष्ये स्पष्टम्। शेष इति कर्मणीति चानुवर्तते। तदाह--कर्मणि शेष इति। इदमपि समासाऽभावार्थमेव। चौरस्य रोगस्य रुजेति। अत्र रुजेति व्याधिकृतसन्तापादिपीडोच्यते। रोगश्चौरं संतापादिना पीडयतीति पर्यवसन्नोऽर्थः। रोगकर्तृका वस्तुतःकर्मीभूतचौरगता सन्तापादिपीडेत्यर्थः। अत्र भावघञन्तेन रोगशब्देन शारीरक्षयादिविकारविशेषो विवक्षितः। सच रुजायां कर्ता। तत्कर्मश्चौरस्य शेषत्वविवक्षायां षष्ठी। "रोगस्य चोररुजे"ति समासो न भवतीति बोध्यम्।

अज्वरिसंताप्योरिति। "रुजार्थानां भाववचनानां ज्वरिसंतापिवर्जिताना"मिति सूत्रं वक्तव्यमित्यर्थः। रोगस्य चौरज्वर इति। अत्र चौरज्वरशब्दे शेषषष्ठ()आ समासो भवत्येव, शेषषष्ठ्याः पुनर्विध्यभावात्। एवं "रोगस्य चौरसंताप" इत्यत्रापि बोध्यम्। अत्राऽज्वरिसंताप्योरित्यनुक्तौ तु रुजार्थानां भाववचनानां कर्मणि शेषे चौरशब्दात्षष्ठी स्यादित्यतिव्या()प्त दर्शयितुमाह--रोगकर्तृकमिति। रोगकर्तृको वस्तुतःकर्मीभूतचौरसंबन्धी ज्वरः संतापो वेति यावत्। एवंच ज्वरिसंताप्योः रुजार्थकत्वाद्रोगात्मकभावकर्तृकत्वाच्च तत्कर्मणश्चौरस्य शेषत्वविवक्षायां नाऽनेन षष्ठी, किन्तु कृद्योगे षष्ठी, षष्ठी शेषे इत्येव षष्ठी वा। अतः-चौरज्वरः चौरसन्ताप इति समासो भवत्येवेति भावः।

तत्त्व-बोधिनी
रुजार्थानां भाववचनानामज्वरेः ५४३, २।३।५४

रुजार्थानाम्। "रुजो भङ्गे"। भिदादिपाठादत एव निपातनाद्वा अङि टाप्। रुजा व्याधिरर्थो येषां तेषां रुजार्थानां धातूनां भाववाचकत्वाऽव्यभिचाराद्भावशब्देनाऽत्र घञादिवाच्यः सिद्धरूपो भाव उच्यते। वक्तीति वचनः। बाहुलकात्कर्तरि ल्युट्। प्रकृत्यर्थस्तु न विवक्षितः, नहि भावो वक्ता सम्भवति। तस्मात्प्रत्ययस्य साधुत्वनिर्वाहायैव वचिरिति बोध्यम्। तथा चायमर्थः,---भावो वचनः=कर्ता येषां तेषां भाववचनानामिति, तदेतव्द्याचष्टे---भावकर्तृकाणामिति। "रुजार्थानां भावकर्तृकाणाम्" इत्येव सूत्रयितुं युक्तम्। चौरस्येति। चुरा शीलमस्य चौरः। अत्र कर्मणि शेषत्वविवक्षायामनेन षष्ठी।

अज्वरिसंताप्योरिति वाच्यम्। रोगस्येति। "पदरुज--" इति घञा रोगो भावोऽभिधीयते, स च रुजायां कर्ता। "कर्तृकर्मणोः--" इति रोगशब्दात्षष्ठी। भावाकर्तृकाणां किम्()। श्लोष्ममश्चौररुजा। "मायुः पित्तं कफः श्लेष्मा" इत्यमरः।