पूर्वम्: २।३।५४
अनन्तरम्: २।३।५६
 
प्रथमावृत्तिः

सूत्रम्॥ आशिषि नाथः॥ २।३।५५

पदच्छेदः॥ आशिषि ७।१ नाथः ६।१ कर्मणि ७।१ ५२ षष्ठी १।१ ५० शेषे ७।१ ५०

काशिका-वृत्तिः
आशिषि नाथः २।३।५५

नाथृ नाधृ याच्ञोपतापैश्वर्याशीःषु पथ्यते, तस्याशीःक्रियस्य कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर् भवति। सर्पिषो नाथते। मधुनो नाथते। आशिषि इति किम्? मानवकम् उपनाथति अङ्ग पुत्रकाधीष्व।
बाल-मनोरमा
आशिषि नाथः ६०८, २।३।५५

आशिषि नाथः। शेषे, कर्मणि इति चानुवर्तते। तदाह--आशीरर्थस्येति। इदमपि समासाऽभावार्थमेव। सर्पिषो नाथनमिति। इदं मे भूयादितीच्छा आशासनम्। तदेवाशीर्नाथतेरर्थः। वस्तुतःकर्मीभूतसर्पिः सम्बन्धि आशासनमित्यर्थः।

तत्त्व-बोधिनी
आशिषि नाथः ५४४, २।३।५५

चौरज्वर इति। इह चौरशब्दात् "रुजार्थानाम्--" इति षष्ठ()आ अप्रवृत्तौ "षष्ठी शेषे" इत्यनेन षष्ठ()आं" षष्ठीति समासो भवत्येवेति भावः। सर्पिषो नाथनमिति। सर्पिर्मे भूयादित्याशासनमित्यर्थः। माणवकनाथनमिति। यद्यपि कर्मत्वविवक्षायां "कर्तृकर्मणोः" इति यदा षष्ठी, तदा आशिष्यपि समासोऽस्त्येव, तथापि तत्र "गतिकारकेपपदात्कृत्" इति कृदुत्तरपदप्रकृतिस्वरः। समासान्तोदात्तत्वं तु याच्ञादावेव न त्वाशिषीति निष्कर्ष इति कौस्तुभे स्थितम्।