पूर्वम्: २।३।५८
अनन्तरम्: २।३।६०
 
प्रथमावृत्तिः

सूत्रम्॥ विभाषोपसर्गे॥ २।३।५९

पदच्छेदः॥ विभाषा १।१ उपसर्गे ७।१ दिवः ६।१ ५८ तदर्थस्य ६।१ ५८ कर्मणि ७।१ ५२ षष्ठी १।१ ५०

काशिका-वृत्तिः
विभाषौपसर्गे २।३।५९

दिवस् तदर्थस्य २।३।५८ इति नित्यं षष्ठ्यां प्राप्तायां सोपसर्गस्य विकल्प उच्यते। उपसर्गे सति दिवस् तदर्थस्य कर्मणि कारके विभाषा षष्ठी विभक्तिर् भवति। शतस्य प्रतिदीव्यति। सहस्रस्य प्रतिदीव्यति। शतं प्रतिदीव्यति। सहस्रं प्रतिदीव्यति। उपसर्गे इति किम्? शतस्य दीव्यति। तदर्थस्य इत्येव शलाकां प्रतिदीव्यति।
न्यासः
विभाषोपसर्गे। , २।३।५९

"शलाकां प्रति दीव्यति" इति। अर्थान्तरे क्रीडादौ दीव्यतिर्वत्र्तते॥
बाल-मनोरमा
विभाषोपसर्गे ६१२, २।३।५९

विभाषोपसर्गे। उपसर्गे सति व्यवह्मपणार्थस्य दिवः कर्मणि षष्ठी वा स्यादित्यर्थः।

बाल-मनोरमा
प्रेष्यब्राउवोर्हविषो देवतासंप्रदाने ६१३, २।३।५९

प्रेष्यब्राउवोः। देवतासप्रदानके इति। देवता संप्रदानं यस्य तस्मिन्नित्यर्थः। प्रेष्यब्राउवोरिति। "ईष गतौ" दिवादिः श्यन्नन्तः, उपसर्गवशात्प्रेरणे वर्तते। प्रेष्यश्च ब्राऊश्चा तयोरिति विग्रहः। कर्मण इति। "अधीगर्थे"त्यतः कर्मणीत्यनुवृत्तं षष्ठ()आ विपरिणम्यत इति भावः। हविष इति। हविश्शब्दो न स्वरूपपरः किंतु हविर्विंशेषवाचकशब्दपरः , व्याख्यानात्। तथाच देवतासंप्रदानकक्रियावाचिनोः प्रेष्यब्राउवोः कर्मीभूतो यो हविर्विंशेषवाचकशब्दपरः, व्याख्यानात्। तथाच देवतासंप्रदानकक्रियावाचिनोः प्रेष्यब्राउवोः कर्मीभूतो यो हविर्विशेषवाचकशब्दपरः, व्याख्यानात्। तथाच देवतासंप्रदानकक्रियावाचिनोः प्रेष्यब्राउवोः कर्मीभूतो यो हविर्विशेषस्तद्वाचकाच्छब्दात्षष्ठीति फलितम्। अत्रापि शेष इति नानुवर्तते, व्याख्यानात्। तथाच द्वितीयापवादोऽयम्। अग्नये छागस्येति। मैत्रावरुणं प्रति अध्वर्युकर्तृकोऽयं सम्प्रैषः। हे मैत्रावरुण। अग्न्युद्देशेन प्रदास्यमान छागसम्बन्धि यद्धविः वपाख्यं मेदोरूपं तत्प्रेष्य। "होता यक्षद()ग्न छागस्य वपाया"मेदसो जुषतां हविर्होतर्यजे"ति प्रैषेण प्रकाशयेत्यर्थः। अत्र यद्यपि "अग्नये छागस्य वपाया मेदसः प्रेष्ये"त्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि, तथापि तथाविधः प्रैषो भाष्योदाहरणात्क्वचिच्छाखायां ज्ञेयः। मेदश्शब्देन वस्त्रखण्डतुल्यो मांसविशेष उच्यते। अनुब्राऊहि वेति। "अग्नये छागस्य हविषो वपाया मेदसः प्रेष्ये"त्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि, तथापि तथाविधः प्रैषो भाष्योदाहरणत्क्वचिच्छाखायां ज्ञेयः। मेदश्शब्देन वस्त्रखण्डतुल्यो मांसविशेष उच्यते। अनुब्राऊहि वेति। "अग्नये छागस्य हविषो वपाया मेदसः प्रेष्ये"त्येव कल्पसूत्रेषु दृश्यते, नतु हविष इत्यपि, तथापि तथाविधः प्रैषो भाष्योदाहरणात्क्वचिच्छाखायां ज्ञेयः। मेदश्शब्देन वस्त्रखण्डतुल्यो मांसविशेष उच्यते। अनुब्राऊहि वेति। "अग्नये छागस्य हविषो वपाया मेदसोऽनुब्राऊही"त्युदाहरम्। हे मैत्रावरुण ! अगन्युद्देशेन प्रदास्यमानं छागसम्बन्धि यद्धविः-वपाख्यं मेदोरूपं--तत्पुरोऽनुवाक्यया प्रकाशयेत्यर्थः। प्रेष्यब्राउवोः किम्?। अग्नये छागस्य हविर्वपां मेदो जुहुधि। हविषः किम्?। अग्नये गोमयानि प्रेष्य। देवतासंप्रदाने किम्?। माणवकाय पुरोडाशं प्रेष्य। "हविषः प्रस्थितत्वविशेषणे प्रतिषेधो वक्तव्यः"। इन्द्राग्निभ्या#ं छागस्य हविर्वपां मेदः प्रस्थितं प्रेष्य। प्रस्थितमिति। अव्यक्तमित्यर्थः।