पूर्वम्: २।३।६२
अनन्तरम्: २।३।६४
 
प्रथमावृत्तिः

सूत्रम्॥ यजेश्च करणे॥ २।३।६३

पदच्छेदः॥ यजेः ६।१ करणे ७।१ बहुलम् १।१ ६२ छन्दसि ७।१ ६२ षष्ठी १।१ ५०

काशिका-वृत्तिः
यजेश् च करणे २।३।६३

यजेर् धातोः करणे कारके छन्दसि बहुलं षष्थी विभक्तिर् भवति। घृतस्य यजते, घृतेन यजते। सौम्यस्य यजते, सोमेन यजते।
न्यासः
यजेश्च करणे। , २।३।६३

"धृतस्य यजते" इति। यजिरत्र देवपूजायां वत्र्तते, तत्र च घृतस्य करणभावः॥