पूर्वम्: २।३।६१
अनन्तरम्: २।३।६३
 
प्रथमावृत्तिः

सूत्रम्॥ चतुर्थ्यर्थे बहुलं छन्दसि॥ २।३।६२

पदच्छेदः॥ चतुर्थ्यर्थे ७।१ बहुलम् १।१ ६३ छन्दसि ७।१ ६३ षष्ठी १।१ ५०

काशिका-वृत्तिः
चतुर्थ्यर्थे बहुलं छन्दसि २।३।६२

छन्दसि विषये चतुर्थ्यर्थे षष्थी विभक्तिर् भवति बहुलम्। पुरुषमृगश्चन्द्रमसः। पुरुषमृगश्चन्द्रमसे। गोधा कालका दार्वाघाटस्ते वनस्पतीनाम्। ते वनस्पतिभ्यः। बहुलग्रहणं किम्? कृष्णो रात्र्यै। हिमवते हस्ती। षष्ठ्यर्थे चतुर्थी वक्तव्या। या खर्वेण पिवति तस्यै खर्वो जायते। या दतो धावते तस्यै श्यावदन्। या नखानि निकृन्तते तस्यै कुनखी। या ऽङ्क्ते तस्यै काणः। या ऽभ्यङ्क्ते तस्यै दुश्चर्मा। या केशान् प्रलिखते तस्यै खलतिः। अहल्यायै जारः।
न्यासः
चतुथ्र्यर्थे बहुलं छन्दसि। , २।३।६२

"बहुलग्रहणं किम्" इति। विभाषाग्रहणानुवृत्तेरेव सिध्यतीति मन्यमानस्य प्रश्नः। "कृष्णो रात्र्यै, हिमवतो हस्ती" इति। अत्र बहुलग्रहणात् सप्तम्यर्थेऽपि चतुर्थी भवति। "वक्तव्या" इति। व्याख्यातव्येत्यर्थः। तत्रेदं प्रतिपादनम्-- बहुलग्रहणमिह क्रियते। तेन क्वचित् षष्ठ()र्थेऽपि चतुर्थी भवति। क्वचिदन्यदेवेत्येषोऽपि बहुलगर्हणस्यार्थोऽभिमत एव॥