पूर्वम्: २।४।२१
अनन्तरम्: २।४।२३
 
सूत्रम्
छाया बाहुल्ये॥ २।४।२२
काशिका-वृत्तिः
छाया बाहुल्ये २।४।२२

विभाषा सेनासुराच्छाया। शालानिशानाम् २।४।२५। इति विभाषां वक्ष्यति। नित्यार्थम् इदं वचनम्। छायाऽन्तस् तत्पुरुषो नपुंसकलिङ्गो भवति बाहुल्ये गम्यमाने। पूर्वपदार्थधर्मः बाहुल्यम्। शलभादीनां हि बहुत्वं गम्यते। शलभच्छायम्। इक्षुच्छायम्। बहुल्ये इति किम्? कुङ्यच्छाया।
न्यासः
छाया बाहुल्ये। , २।४।२२

"पूर्वपदार्थधर्मो बाहुल्यम्" इति। अत्र हेतुमाह-- "शलभादीनाम्ित्यादि। शळभादीनां बहुत्वं शलभच्छायमित्यादौ हि गम्यते, न हि तेन विना छाया सम्भवति। अतः पूर्वपदार्थस्य शलभादेर्बाहुल्यं धर्मः॥
बाल-मनोरमा
छाया बाहुल्ये ८१५, २।४।२२

छाया बाहुल्ये। छायया तत्पुरुषस्य विशेषणात्तदन्तविधिमभिप्रेत्याह--छायान्त इति। पूर्वपदार्थेति। कस्य बाहुल्ये इत्याकाङ्क्षायामापादकद्रव्यनिमित्तकत्वाच्छायायास्तद्बाहुल्ये इति गम्यते। तच्चापादकद्रव्यमर्थात्पूर्वपदार्थभूतमिति भावः। बाहुल्ये किम्?। कुड()स्य छाया कुड()च्छाया।

तत्त्व-बोधिनी
छाया बाहुल्ये ७१५, २।४।२२

छाया बाहुल्ये। बाहुल्ये सति या छाया तद्वाची यश्छायान्तस्तत्पुरुष इत्यर्थः। इह कस्य बाहुल्य इत्यपेक्षायामावरकद्रव्यनिमित्तत्वाच्छायायास्तद्बाहुल्यैति गम्यते। तच्चावरकं पूरीवपदार्थभूतमेवेत्याशयेनाह---पूर्वपदार्थबाहुल्ये इति। पूर्वपदार्थबाहल्ये किम्()। कुड()स्य छाया कुड()छाया। प्रश्लेषो बोध्य इति। केचित्तु--"इक्षुच्छायनिषादिन्यः"इत्येवं पठन्ति।