पूर्वम्: २।४।४०
अनन्तरम्: २।४।४२
 
सूत्रम्
वेञो वयिः॥ २।४।४१
काशिका-वृत्तिः
वेञो वयिः २।४।४१

लिट्यन्यतरस्याम् इति वर्तते। वेञो वयिः आदेशो भवति अन्यत्रस्यां लिटि परतः। इकार उच्चारणार्थः। उवाय, ऊयतुः, ऊयुः। पक्षे ऊवतुः, ऊवुः। लिटि वयो यः ६।१।३७ इति यकारस्य सम्प्रसारणं प्रतिषिध्यते। वश्च अन्यतरस्यां किति ६।१।३८ इति वकारो विधीयते ववौ, ववतुः, ववुः। वेञः ६।१।३९ इति सम्प्रसारणं न भवति।
लघु-सिद्धान्त-कौमुदी
हनो वध लिङि ५६६, २।४।४१

न्यासः
वेञो वयिः। , २।४।४१

"इकार उच्चारणार्थः" इति। नानुबन्धः। तेन नुम् न भवतीति भावः। "उवाय" इति। "लिट()भ्यासस्योभयेषाम्" ६।१।१७ इति सम्प्रसारणम्। "ऊयतुः, ऊयुःक" इत्यत्रापि ग्रह्रादिसूत्रेण ६।१।१६ सम्प्रसारणम्। अथ यकारस्य सम्प्रसारणं कस्मान्न भवतीत्याह-- "लिटि वयो यः" इत्यादि। "वेञ इति सम्प्रसारणं न भवति" इति। वच्यादिसूत्रेण प्राप्तम् "वेञः" ६।१।३९ इति प्रतिषेधान्न भवति। तत्र हि "न सम्प्रसारणे सम्प्रसारणम्" ६।१।३६ इत्यतो नेति वत्र्तते। उवाय इत्यादि रूपं वयेरात्मनेपदित्वान्न सिद्ध्यतीति सूत्रारम्भः॥