पूर्वम्: २।४।४१
अनन्तरम्: २।४।४३
 
सूत्रम्
हनो वध लिङि॥ २।४।४२
काशिका-वृत्तिः
हनो वध लिङि २।४।४२

हन्तेर् धातोः वध इत्ययम् आदेशो भवति लिङि परत आर्धधातुके। वध्यात्, वध्यास्ताम्, वध्यासुः। अकारान्तश्च अयम् आदेशः। तत्र अकारस्य लोपो भवति। तस्य स्थानिवद्भावादवधीतिति हलन्तलक्षना वृद्धिः न भवति।
न्यासः
हनो वध लिङि। , २।४।४२

"अकारान्तश्चायमादेशः" इति। कुत एतत्? शैलीयमाचार्यस्य यत्रेह प्रकरणे व्यञ्जनान्त आदेशः, तत्रोच्चारणार्थमिकारं करोति, यथा--जग्धिरित्यादौ। तस्मादिकारान्ताकरणादकारान्तोऽयमादेश इति विज्ञायते। "हलन्तलक्षणा" इति। "वदव्रजहलन्तस्याचः" ७।२।३ इत्यनेन या वृद्धिर्विधीयते सा हलन्तलक्षणा।
बाल-मनोरमा
हनो वध लिङि २६४, २।४।४२

हनो वध। "वधे"ति लुप्तप्रथमाकम्। हनो वधादेशः स्यादाद्र्धधातुके लिङीत्र्थः।

तत्त्व-बोधिनी
संज्ञायाम् १६२१, २।४।४२

संज्ञायाम्। अनधिकरणार्थ आरम्भः।