पूर्वम्: २।४।४२
अनन्तरम्: २।४।४४
 
सूत्रम्
लुङि च॥ २।४।४३
काशिका-वृत्तिः
लुङि च २।४।४३

लुङि च परतः हनो वध इत्ययम् आदेशो भवति। अवधीत्, अवधीष्टाम्, अवधिषुः। योगविभाग उत्तरार्थः। आत्मनेपदेषु लुङि विकल्पो यथा स्याल् लिङि मा भूत्।
लघु-सिद्धान्त-कौमुदी
लुङि च ५६७, २।४।४३

वधादेशोऽदन्तः। अर्धधातुके इति विषयसप्तमी, तेन आर्धधातुकोपदेशे अकारान्तत्वादतो लोपः। वध्यात्। वध्यास्ताम्। आदेशस्यानेकाच्त्वादेकाच इतीण्निषेधाभावादिट्॥आतो हलादेः’ इति वृद्धौ प्राप्तायाम् ----।
न्यासः
लुङि च। , २।४।४३

"आत्मनेपदेषु लुङि विकल्पो यथा स्याल्लुङि मा भूत्" इति। अनेन योगविभागस्योत्तरार्थतां दर्शयति। एकयोगे हि सति लिङोऽप्युत्तरत्रानुवृत्तेस्तत्राप्यात्मनेपदेषु विकल्पः स्यात्॥
बाल-मनोरमा
लुङि च २६५, २।४।४३

लुङि च। हनो वधादेशः स्याल्लुङीत्यर्थः स्पष्टः। वधादेशोऽदन्त इति। धकारादकारो न सुखोच्चारमार्थ इति भावः। तत्प्रयोजनं तु अनुपदमेव अवधीदित्यत्र वक्ष्यते। ननु आशीर्लिङि हन्यादिति स्थिते आद्र्धधातुके परे कृतस्य वधादेशस्य आद्र्धधातुकोपदेशे अकारान्तत्वाऽभावात्कथं वध्यादित्यत्र अल्लोप इत्यत आह-- विषयसप्तमीति। तथा च आद्र्धधातुके विवक्षिते तत्प्रवृत्तेः प्रागेव वधादेशे कृते आद्र्धधातुकप्रवृत्तिरिति फलितम्। ततश्च आद्र्धधातुकोपदेशे वधादेशस्य अकारान्तत्वादल्लोपो निर्बाधः। तदाह--तेनेति। अवधीदिति। सिचि अल्लोपे कृते वधादेशस्य धकारान्ततया एकाच्त्वेऽप्यादेशोपदेशेऽनेकाच्त्वेन "एकाच उपदेशे" इति निषेधाऽभावात्सिच् इट्। "अतो हलादे"रिति वृद्धिस्तु न भवति, "अचः परिस्मिन्नि" त्यल्लोपस्य स्थानिवत्त्वात्। एतदर्थमेव हि वधादेशस्य अदन्तत्वमाश्रितम्। स्वरितेत इति। उभयपदिन इति फलितम्। द्विष अप्रीताविति। अनिट्। द्वेष्टीति। पित्त्वेन ङित्त्वाऽभावाल्लघूपधगुण इति भावः। द्विष्टः द्विषन्ति। द्वेक्षि द्विष्ठः द्विष्ठ। द्वेष्मि द्विष्वः द्विष्मः। तङि उदाहरति-- द्विष्टे इति। ङित्त्वान्न गुणः। द्विषाते द्विषते। द्विक्षे द्विषाथे द्विड्ढ्वे। द्विषे द्विष्वहे द्विष्महे। षढोरिति षस्य कत्वं मत्वा आह-- द्वेक्ष्यतीति। द्विड्ढीति। हेर्धिः, षस्य जश्त्वेन डः, ष्टुत्वेन ढः। द्विष्टात्,द्विष्टम्, द्विष्ट। द्वेषाणीति। आटः पित्त्वेन ङित्त्वाऽभावाद्गुणः, षात्परत्वाण्णत्वम्। द्वेषाव द्वेषाम। द्विष्टाम् द्विषाताम् द्विषताम्। द्विक्ष्व द्विषाथाम् द्विड्ढ्वम्। द्वैषे इति। आटः पित्त्वेन ङित्त्वाऽभावाद्गुण इति भावः। अद्वेडिति। लङस्तिप्। गुणः। इकारलोपः। हल्ङ्यादिलोपः। "वाऽवसाने" इति "झलां ज" शिति च चत्र्वजश्त्वे इति भावः। अद्विष्टाम्।

तत्त्व-बोधिनी
लुङि च २३१, २।४।४३

वधादेशोऽदन्त इति। तेन आदेशोपदेशेऽनेकाच्त्वादवधीदित्यत्र "एकाचः" इतीण्निषेधाऽप्रवृत्ताविडादौसिचि "अतो हलादे"रिति प्राप्ता वृद्धिरल्लोपस्य स्थानिवत्त्वान्नेति भावः।