पूर्वम्: २।४।४३
अनन्तरम्: २।४।४५
 
सूत्रम्
आत्मनेपदेष्वन्यतरस्याम्॥ २।४।४४
काशिका-वृत्तिः
आत्मनेपदेष्वन्यतरस्याम् २।४।४४

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। आत्मनेपदेषु परतो हनो लुङ्यन्यतरस्यां वध इत्ययमादेशो भवति। आवधिष्ट, आवधिषाताम्, आवधिषत। न च भवति। आहत, आहसाताम्, आहसत।
न्यासः
आत्मनेपदेष्वन्यतरस्याम्। , २।४।४४

"आवधिष्ट" इति। "आङो यमहनः" १।३।२८ इत्यात्मनेपदम्। "आफधिषत" इति। "आत्मनेपदेष्वनतः" ७।१।५ इत्यवादेशः। "आहत" इति। "हनः सिच्" १।२।१४ इति कित्त्वम्, "अनुदात्तोपदेश" ६।४।३७ इत्यादिनाऽनुनासिकलोपः, "ह्यस्वादङ्गात्" ८।२।२७ इति सिचो लोपः॥
तत्त्व-बोधिनी
आत्मनेपदेष्वन्यतस्याम् ४४५, २।४।४४

आत्मनेपदेष्विति। "तङी"त्येव सुवचम्। "समो गम्यृच्छिस्वरत्यर्तिविदिभ्यः" इति वृत्तिस्थं पाठमुपेक्ष्य भाष्यर्थं पाठमनुसरति--समोगम्यृच्छिभ्यामिति।