पूर्वम्: २।४।४९
अनन्तरम्: २।४।५१
 
सूत्रम्
विभाषा लुङ्लृङोः॥ २।४।५०
काशिका-वृत्तिः
विभाषा लुङ्ल्̥ङोः २।४।५०

लुगि ल्̥ङि च परत इङो विभाषा गाङादेशो भवति। आदेशपक्षे गाङ् कुटादिभ्यो ऽञ्णिन् डित् १।२।१ इति ङित्त्वम्, घुमास्थागापाजहातिसां हलि ६।४।६६ इति ईत्वम्। अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत। न च भवति। अध्यैष्ट, अध्यैषाताम्, अध्यैषत। ल्̥ङि खल्वपि अध्यगीष्यत, अध्यगीष्येताम्, अध्यगीष्यन्त। न च भवति। अध्यैष्यत, अध्यैष्येताम्, अध्यैष्यन्त।
लघु-सिद्धान्त-कौमुदी
विभाषा लुङॢङोः ५८९, २।४।५०

इङो गाङ् वा स्यात्॥
न्यासः
विभाषा लुङ्लृङोः। , २।४।५०

"अध्यैष्ट" इति। "आडजादीनाम्" ६।४।७२ इत्याट्। "आटश्च" ६।१।८७ इति वृद्धि।
बाल-मनोरमा
विभाषा लुङ्लृङोः २९१, २।४।५०

विभाषालुङ्लृङोः। शेषं पूरयति-- इङोगाङ्वा स्यादिति। "इङश्चे"त्यतो, "गाङ् लिटी"त्यतश्च तदनुवृत्तेरितिभावः। सिचि अधि अ गा स् त इति स्थिते ---

बाल-मनोरमा
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ११३६, २।४।५०

आगस्त्य। अगस्तयः। कुण्डिना इति। अगस्त्यशब्दादृष्यणो लुक्। प्रकृतेरगस्त्यादेशः। कौण्डिन्यशब्दो गर्गादियञन्तः। बहुत्वे यञो लुक्। प्रकृतेः कुण्डिनादेशश्च। "यस्कादिभ्यो गोत्रे" इत्यारभ्य "आगस्त्यकौण्डिन्ययोः" इत्यन्तं द्वैतीयीकम्। अथ प्रकृतं चातुर्थिकम्-।

तत्त्व-बोधिनी
आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच् ९४७, २।४।५०

आगत्स्य। आगस्त्यशब्दादृष्यण्। , कुण्डिनीशब्दात्तु गर्गाद्यञ। ननु कुण्डिनीशब्दस्य यञि "भस्याढे"इति पुंवद्भावे "नस्तद्धिते"इति टिलोपः प्राप्नोति। न च "संयोगादिश्चे"ति प्रकृतिभावः शङ्क्यः, "अणी"ति तत्रानुवर्तनात्। मैवम्। अस्मादेव निपातनात्तम्याऽप्रवृत्तेः कौण्डिन्यः सिध्यति। चकारस्त्वन्तोदात्तार्थः। मध्योदात्तोहि कुण्डिनीशब्दः। कुण्डमस्त्यस्या इति मत्वर्थीयस्यनेरुदात्तत्वादादेशस्यापि कुण्डिनशब्दस्यान्तरतम्यान्मध्योदात्तत्वात्। अवशिष्टस्य प्रकृतिभागस्येति। न च प्रत्ययविशिष्टस्यादेशमात्रम विधीयतां किं लुग्विधानेनेति वाच्यम्, अगस्तीयाश्छात्रा इत्यनापत्तेः, लुकि हि सति "गोत्रेऽलुगची"ति लुकि प्रतिषिद्धे वृद्धत्वाच्छः सिध्यति। प्रत्ययविशिष्टस्यादेशविधौ तु वृद्धत्वापगमे शौषिको।ञणेन स्यात्। कौण्डिनाश्छात्रा इति तूभयथापि सिद्द्यत्येव। छापवादस्य "कण्वादिभ्यो गोत्रे" इत्यण्()प्रत्ययस्य प्रवृत्त्या तत्र विशेषाऽभावात्।