पूर्वम्: २।४।५०
अनन्तरम्: २।४।५२
 
सूत्रम्
णौ च सँश्चङोः॥ २।४।५१
काशिका-वृत्तिः
णौ च संश्चङोः २।४।५१

इङो गाङ् विभाषा इति वर्तते। णौ इति इङपेक्षया परसप्तमी, संश्चङोः इति च ण्यपेक्षया। णौ सन्परे चङ्परे च परतः इङो विभाषा गाङादेशो भवति। अधिजिगापयिषति। न च भवति। अध्यापिपयिषति। चङि खल्वपि अध्यजीगपत्। न च भवति। अध्यापिपत्।
न्यासः
णौ च संश्चङोः। , २।४।५१

"णावितीङपेक्षया" इत्यादि। णावितीयं या परसप्तमीङपेक्षया सा। "संश्चङोः" इतीयं या परसप्तमी सा ण्यपेक्षयेत्यर्थः। "अधिजिगापयिषति" इति। णिच्। "अर्तिह्यी" ७।३।३६ इत्यादिना पुक्, सन्, इट्, गुणायादेशौ। अध्यापिपयिषति" इति। "क्रीङजीनां णौ" ६।१।४७ इत्यात्त्वम्, पुक्, "अजादेर्द्वितीयस्य" ६।१।२ इति "पा" इत्यस्य द्विर्वचनम्। "अध्यजीगपत्" इति। "णिश्रि" ३।१।४८ इत्यादिना चङ। "णौ चङ्युपधाया ह्यस्वः" ७।४।१। "सन्वल्लघुनि" ७।४।९३ इति सन्वद्भावात् "सन्यतः" ७।४।७९ इतीत्त्वम्। "दीर्घो लघोः" ७।४।९४ इती दीर्घः॥
बाल-मनोरमा
णौ च संश्चङोः ४२९, २।४।५१

णौ च संश्चङोः। विषयसप्तमीयमित्याकरे स्पष्टम्। णौ विवक्षिते इति लभ्यते। "इङश्चे"त्यत इङ इति, "गाङ् लिटी"त्यतो गाङिति, "विभाषा लुङ्लृङो"रित्यतो विभाषेति चानुवर्तते। तदाह -- सन्परे चङ्परे चेत्यादि। सन्परे चङ्परे च णौ विवक्षिते इत्यर्थः। अध्यजीगपदिति। णौ इङो गाङादेशे पुकि उपधाह्यस्वे अधि गप् इ अ त् स्थिते गप् इत्यस्य द्वित्वे हलादिशेषे अभ्यासह्यस्वे सन्वत्त्वादित्त्वे दीर्घे अभ्यासचुत्वे रूपम्। नच "द्वित्वे कार्ये णावजादेशो ने"ति द्वित्वात् प्राग्गाङादेशनिषेधः शङ्क्यः, अभ्यासोत्तरखण्डे अवर्णसत्त्व एव तन्निषेधप्रवृत्तेरुक्तत्वात्। द्वित्वे कार्ये गाङादेशस्य निषेधे सति गाङः पूर्वम् "अजादेर्द्वितीयस्ये"ति णिच एव द्वित्व सति प्रक्रियायां परिनिष्ठिते वा धातोरुत्तरखण्डेऽवर्णाऽभावादिति रूपमिति भावः। अध्यापिपदिति। गाङभावे "क्रीङ्जीनां णौ" इत्यात्त्वे पुकि अधि आ प् इ अ त् इति स्थिते "पी"त्यस्य द्वित्वे रूपमिति भावः। सिध्येतरपारलौकिके। "आदेच उपदेशे" इत्यस्मादादेच इति, "क्रीङ्जीनामित्यस्माण्णाविति चानुवर्तते। तदाह -- ऐहलौकिके इत्यादि। अन्नमिति। तन्निष्पादनं तृत्प्यर्थत्वादैहलौकिकमिति भावः। तत्त्वमिति। आत्मस्वरूपमित्यर्थः। सेधयति तापसं तप इति। तत्त्वं निश्चाययतीत्यर्थः। आत्मतत्त्वनिश्चय आमुष्मिकफलक इति भावः।