पूर्वम्: ३।१।४७
अनन्तरम्: ३।१।४९
 
सूत्रम्
णिश्रिद्रुस्रुभ्यः कर्तरि चङ्॥ ३।१।४८
काशिका-वृत्तिः
णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ३।१।४८

सिजपवादश्चङ् विधीयते। ण्यन्तेभ्यो धातुभ्यः, श्रि द्रु स्रु इत्येतेभ्यश्च परस्य च्लेः चङादेशो भवति कर्तवाचिनि लुङि परतः। ङकारो गुणवृद्धिप्रतिषेधार्थः, चकारः चङि ६।१।११ इति विशेषणार्थः। अचीकरत्। अजीहरत्। अशिश्रियत्। अदुद्रुवत्। असुस्रुवत्। कर्तरि इति किम्? अकारयिषातां कटौ देवदत्तेन। कमेरुपसङ्ख्यानम्। आयादयः आर्धधातुके वा ३।१।३१ इति यदा णिङ् न अस्ति तदा एततुपसङ्ख्यानम्। अचकमत। णिङ्पक्षे सन्वद्भावः। अचीकमत। नाकमिष्टसुखं यान्ति सुयुक्तैर् वडवारथैः। अथ पत्कषिणो यान्ति ये ऽचीकमतभाषिणः।
लघु-सिद्धान्त-कौमुदी
णिश्रिद्रुश्रुभ्यः कर्तरि चङ् ५३०, ३।१।४८

ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात् कर्त्रर्थे लुङि परे। अकामि अ त इति स्थिते --।
न्यासः
णिश्रिद्रुरुआउभ्यः कत्र्तरि चङ्। , ३।१।४८

"चकारो विशेषणार्थः" इति। "चङि" ६।१।११ इत्यत्राङीत्यच्यमाने "अस्यतिवक्तिख्यातिभ्योऽङ् ३।१।५२ इत्यनेनापि विहितेऽङि द्विर्वचनं स्यात्। "अचीकरत्, अजीहरत्" इति। "चङि" ६।१।११ इति द्विर्वचनं कृह्मशब्दयोः उरत्त्वम्, "कुहोश्चुः" ७।४।६२ इति चुत्वम्-- ककारस्य चकारः, हकारस्यापि झकारः, "अभ्यासे चर्च" ८।४।५३ इति झकारस्य जकारः। शेषमभ्युदसीषददित्यनुसारेण वेदितव्यम्। "अशिश्रियत्" इत्यादि। "श्रिञ् सेवायाम्" (धा।पा।८९७), "दु द्रु गतौ" (धा।पा।९४४, ९४५), "रुआउ गतौ" (९४०), "अचि श्नुधातु" ६।४।७७ इत्यादिना यथायोगमियङुवङौ। "अकारयिषताम्" इति। कर्मणि द्विवचनम्, आताम्, इड्गुणायादेशषत्वानि। "कमेरुपसंख्यानम्" इति। ननु "कमेर्णिङ्" ३।१।३० इति णिङि कृते ण्यन्तत्वादेव कमेश्चङ्, सिद्धः, तत् कथमुपसंख्यायत इत्याह-- "आयादयः" इत्यादि। "अचकमत"इति। अनुदात्तेत्त्वादात्मनेपदम्, पूर्ववदभ्यासस्य कुत्वम्। "णिङ्भावपक्षे सन्वद्भावः" इति। न त्वणिङ्पक्षे इति दर्शयति; यस्मात् "सन्वल्लघुनि चङ् परे" ७।४।९३ इत्यस्य चङ् परो यस्माण्णेः स चङ्परो तस्मिन् परतो यदङ्गं तस्याभ्ययासस्य सन्वत् कार्यं भवतीत्येषोऽर्थः, न चायमर्थो णिङभावपक्षे सम्भवति॥ "अदधत्" इति। "आतो लोप इटि च" ६।४।६४ इत्याकारलोपः। पूर्ववदभ्यासस्य जश्त्वं दकारः। "अधासीत्" इति। लुङ्, सिच्, "यमरमनमातां सक् चट ७।२।७३ इतीट्, प्रकृतेश्च सगागमः, "अस्तिसिचोऽपृक्ते" ७।३।९६ इतीट्, "इट ईटि" ८।२।२८ इति सिचो लोपः। "अशि()इआयत्" इति। पूर्ववदियङ्। "अङप्यत्र विकल्प्यते" इति। "जृ()स्तम्भु" ३।१।५८ इत्यादिसूत्रेण। "अ()आत्" इति। "()आयतेरः" ७।४।१८ इत्यत्वम्, "अतो गुणे" ६।१।९४, पररूपत्वम्। "अ()आयीत्" इति। ह्रन्तक्षणा()आस" ७।२।५ इत्यादिना वृद्धिप्रतिषेधे कृते गुणेऽयादेशः। "अधिषाताम्" इति। कर्मणि द्विवचनम्, आताम्, "स्थाघ्वोरिच्च" १।२।१७ इति कित्त्वमित्त्वञ्च।
बाल-मनोरमा
णिश्रिद्रुरुआउभ्यः कर्तरि चङ् १५३, ३।१।४८

अथ णिङन्तात्कामीत्यरस्माल्लुङस्तादेशे च्लेः सिजादेशे प्राप्ते-- णिश्रि। णि श्रि द्रु रुआउ एषां द्वन्द्वः। प्रत्ययग्रहणपरिभाषया णीति तदन्तस्य ग्रहमम्। "च्लि लुङी"त्यतो लुङीति, "च्लेः सि"जित्यतश्च्लेरिति चानुवर्तते। तदाह-- ण्यन्तादित्यादिना। चङावितौ।

तत्त्व-बोधिनी
णिश्रिद्रुरुआउभ्यः कर्तरि चङ् १२७, ३।१।४८

णिश्रिद्रु। च्लेः सिचोऽपवादः।